2024-03-30 13:25:37 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२४४
 
कादम्बरी ।
 
[ कथायाम्-
तस्य चास्य स्वभवनादुपपादितप्रस्थानमङ्गलो धं[^१]धवलदुकूलवा- साः सितकुसुमाङ्गरागो महता बल-
समूहेन नरेन्द्रवृन्दैवा[^२]श्चानुग- म्यमानो धृतधवलातपत्रो द्वितीय इव युवराजस्त्वरितपदसंचारिण्या

करिण्या वैशम्पायन: [^३]समीपमाजगाम । आगत्य च शै[^४]श- शिकर इव रवेरासन्नवर्ती बभूव ।
अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति समाकर्ण्य प्रधावतां बलानां भरेण चलितकुल-

शैले [^५]लकीलितजलधिजलतरङ्गगतेव तत्क्षणमाचकम्पे मेदिनी संमुखा [^६]गतैरन्यैश्चान्यैश्च प्रण-
मद्भिर्भूमिपालैः । अंशुलताजाल- जटिलचूलिकानां मणिमुकुटानामालोकेनोन्मिपिषितबहुल-
रोचिषां च पत्रभँ [^७]भङ्गिनीनां केयूरमण्डलीनां प्रभासंतानेन कचिद्विकीर्य- माणचाषपक्षक्षोदा
इव, क्वचिदुत्पतितशिखिकुलचलञ्च्चन्द्रकशत-
शारा इव, क्वचिदकालजलरतडित्तरला इव,
क्वचित्सकल्पतरु- पल्लवा इव, कर्चिक्वचि [^८]त्सशतक्रतुचापा इव, कचित्सबालातपा इव
 

 

 
[ टि ]--
करणभूतयेत्यर्थः । स्वेति । स्वभवनान्निजगृहादुपपादितं विहितं प्रस्थानमङ्गलं गमनमङ्गलं येन सः । धवलेति ।
धवलं श्वेतं दुकूलमेव वासो वस्त्रं यस्य सः । सितेति । सितकुसुमैः श्वेतपुष्पै- रङ्गरागः शरीरशोभा यस्य स तथा
सितकुसुमवदङ्गरागो विलेपनं यस्येति वा । महता महीयसा बलसमूहेन सैन्यसंघातेन नरेन्द्रवृन्दैश्च राजसमूहैश्चानु
गम्यमानोऽनुव्रज्यमानः । धृतेति । धृतं शिरसि धारि- तं धवलं श्वेतमातपत्रं छत्रं येन सः । द्वितीय इवा-
पर इव युवराजः । आगत्याभ्येत्य । चकारः पुनरर्थकः । आसन्नवर्ती समीपवर्ती बभूव संजज्ञे । कस्य क
इव । यथा रवेः सूर्यस्य शशिकरेर [^1]श्चन्द्रः समीपगो भवति । अत्र शशिकर इवेति कथनाद्वैशम्पायनस्य कु- मारा-
पेक्षया शोभायामपकर्षः सूचितः । युक्तोऽयमर्थः । अमावा- स्यायां सूर्यनिकटे चन्द्रस्य न्यूनतैव भवतीति
भावः । अथवेतश्चेतश्च निर्तो युवराज इति लोकोक्त्या समाकर्ण्य श्रवणविषयीकृत्य प्रधा- वतां धावनं कुर्वतां
बलानां सैन्यानां भरेण समुदायेन संमुखागतै- रभिमुखायातैः प्रणमद्भिः प्रणामं कुर्वद्भिः अन्यैश्चान्यैश्च भिन्न-
भिन्न- देशोद्भवैश्च भूमिपालैर्नृपतिभिः कृत्वा तत्क्षणं तत्कालं मेदिनी पृथ्व्याचकम्पे चचाल । कीदृशीव । चलि-
तेति । चलिताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकारिणो नगास्तैः कलितो यन्त्रितो यो जलधिः समुद्र-
स्तस्य जलं पानीयं तस्य तरङ्गाः कल्लोलास्तत्र गतेव प्राप्तेव । अंशुलतेति । अंशुलतानां किरणश्रेणीनां जालं
समूहस्तेन जटिला व्याप्ता चूलिका प्रान्तभागो येषामेवंविधानां मणिमुकुटानां रत्नकि- रीटानामालोकेन प्रकाशेन ।
उन्मिषितेति । उन्मिषिता विकासं प्राप्ता बहुला दृढा रोचिषः कान्तयो यासु तासाम् । पत्रेति । पत्र-

भगा रचनाविशेषाविद्यन्ते यावे॒स्वेवंविधानां केयूरमण्डलीनामङ्गद- श्रेणीनां प्रभासंतानेन च कान्तिसमूहेन चैवं-
विधा दश दिशो दश ककुभः [^2]क्रियन्ते विधीयन्त इत्यन्वयः । तदाह — क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे
विकीर्यमाणा विक्षिप्यमाणाश्चाषाणां किकी- दिवीनां पक्षक्षोदाः पिच्छचूर्णानि यास्खेव॑वंविधे [^3]षु । क्वचिदिति
क्वचित् उत्पतितमुड्डीनं यच्छिखिकुलं नीलकण्ठसमुदायस्तस्य ये चलन्तो दीप्यमानाश्चन्द्रका मेचकास्तेषां शतं
तेन शाराः कर्बुरा इव । 'शार: शबलवातयोः' इत्यनेकार्थः । क्वचिदिति । क्वचित् अका- लेऽनवसरे यो
जलधरो मेघस्तस्य तडिद्विद्युत्तया तरला इव पारि- प्लवा इव । क्वचिदिति । क्वचित् कल्पतरूणां देववृक्षाणां
पल्लवाः किसलयास्तैः सह वर्तमानव । क्वचिदिति । क्वचित् शतक्रतुरिन्द्र- स्तस्य चापं धनुस्तेन सह वर्त-
माने [^4]व । क्वचिदिति । क्वचित् बालातपः प्रभातकालीन सूर्या लोकस्तेन सह वर्तमानेव । तथा राज्ञां धवला-
टिप्प० –

 
[^
1]F. शशिकरस्य चन्द्र इत्यर्थः प्रमादः । अतः 'रजनिकरः' इति पाठः । अग्रेऽपि शशिकर
इत्येवं पदं गृहीत्वा व्याख्यानं तु टीका- कारस्य चिरप्रसिद्धः प्रमादस्वभाव एव ।
[^
2]F. 'इवाऽक्रियन्त' इत्येव
पाठः । प्रमाणं च सहृदयहृदयम् ।
[^
3]F. एवंविधा इत्येवोचितम् ।
[^
4]F. वर्तमाना इव इत्युचितम् । एवsप्ग्रेपि ।
 
पाठा०—

 
[^
]G. दुकूलवासा : ; धवलवासाः .
[^
]G. अनुरज्यमान .
[^
]G. समाजगाम .
[^
]G. रजनिकर: .
[^
]G. शैलकैलासजलधि -
तरङ्ग, .
[^
]G. अन्यैश्च, .
[^
]G. पत्रभङ्गीनाम् .
[^
]G. सशतयज्ञ; शतयज्ञ.