This page has not been fully proofread.

२४४
 
कादम्बरी ।
 
[ कथायाम्-
तस्य चास्य स्वभवनादुपपादितप्रस्थानमङ्गलो धंवलदुकूलवासाः सितकुसुमाङ्गरागो महता बल-
समूहेन नरेन्द्रवृन्दैवानुगम्यमानो धृतधवलातपत्रो द्वितीय इव युवराजस्त्वरितपदसंचारिण्या
करिण्या वैशम्पायन: समीपमाजगाम । आगत्य च शैशिकर इव रवेरासन्नवर्ती बभूव ।
अनन्तरमितश्चेतश्च 'निर्गतो युवराजः' इति समाकर्ण्य प्रधावतां बलानां भरेण चलितकुल-
शैलेकीलितजलधिजलतरङ्गगतेव तत्क्षणमाचकम्पे मेदिनी संमुखागतैरन्यैश्चान्यैश्च प्रण-
मद्भिर्भूमिपालैः । अंशुलताजालजटिलचूलिकानां मणिमुकुटानामालोकेनोन्मिपितबहुल-
रोचिषां च पत्रभँङ्गिनीनां केयूरमण्डलीनां प्रभासंतानेन कचिद्विकीर्यमाणचाषपक्षक्षोदा
इव, कचिदुत्पतितशिखिकुलचलञ्चन्द्रकशतशारा इव, कचिदकालजलघरतडित्तरला इव,
क्वचित्सकल्पतरुपल्लवा इव, कर्चित्सशतऋतुचापा इव, कचित्सबालातपा इव
 

 
करणभूतयेत्यर्थः । स्वेति । स्वभवनान्निजगृहादुपपादितं विहितं प्रस्थानमङ्गलं गमनमङ्गलं येन सः । धवलेति ।
धवलं श्वेतं दुकूलमेव वासो वस्त्रं यस्य सः । सितेति । सितकुसुमैः श्वेतपुष्पैरङ्गरागः शरीरशोभा यस्य स तथा ।
सितकुसुमवदङ्गरागो विलेपनं यस्येति वा । महता महीयसा बलसमूहेन सैन्यसंघातेन नरेन्द्रवृन्दैश्च राजसमूहैश्चानु
गम्यमानोऽनुव्रज्यमानः । धृतेति । धृतं शिरसि धारितं धवलं श्वेतमातपत्रं छत्रं येन सः । द्वितीय इवा-
पर इव युवराजः । आगत्याभ्येत्य । चकारः पुनरर्थकः । आसन्नवर्ती समीपवर्ती बभूव संजज्ञे । कस्य क
इव । यथा रवेः सूर्यस्य शशिकरेश्चन्द्रः समीपगो भवति । अत्र शशिकर इवेति कथनाद्वैशम्पायनस्य कुमारा-
पेक्षया शोभायामपकर्षः सूचितः । युक्तोऽयमर्थः । अमावास्यायां सूर्यनिकटे चन्द्रस्य न्यूनतैव भवतीति
भावः । अथवेतश्चेतश्च निर्मतो युवराज इति लोकोक्त्या समाकर्ण्य श्रवणविषयीकृत्य प्रधावतां धावनं कुर्वतां
बलानां सैन्यानां भरेण समुदायेन संमुखागतैरभिमुखायातैः प्रणमद्भिः प्रणामं कुर्वद्भिः अन्यैश्चान्यैश्च भिन्न-
भिन्नदेशोद्भवैश्च भूमिपालैर्नृपतिभिः कृत्वा तत्क्षणं तत्कालं मेदिनी पृथ्व्याचकम्पे चचाल । कीदृशीव । चलि-
तेति । चलिताः कम्पिता ये कुलशैलाः क्षेत्रमर्यादाकारिणो नगास्तैः कलितो यन्त्रितो यो जलधिः समुद्र-
स्तस्य जलं पानीयं तस्य तरङ्गाः कल्लोलास्तत्र गतेव प्राप्तेव । अंशुलतेति । अंशुलतानां किरणश्रेणीनां जालं
समूहस्तेन जटिला व्याप्ता चूलिका प्रान्तभागो येषामेवंविधानां मणिमुकुटानां रत्नकिरीटानामालोकेन प्रकाशेन ।
उन्मिषितेति । उन्मिषिता विकास प्राप्ता बहुला दृढा रोचिषः कान्तयो यासु तासाम् । पत्रेति । पत्र-
भगा रचनाविशेषाविद्यन्ते यावे॒वंविधानां केयूरमण्डलीनामङ्गदश्रेणीनां प्रभासंतानेन च कान्तिसमूहेन चैवं-
विधा दश दिशो दश ककुभः क्रियन्ते विधीयन्त इत्यन्वयः । तदाह — क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे
विकीर्यमाणा विक्षिप्यमाणाश्चाषाणां किकीदिवीनां पक्षक्षोदाः पिच्छचूर्णानि यास्खेव॑विधेषु । क्वचिदिति ।
क्वचित् उत्पतितमुड्डीनं यच्छिखिकुलं नीलकण्ठसमुदायस्तस्य ये चलन्तो दीप्यमानाश्चन्द्रका मेचकास्तेषां शतं
तेन शाराः कर्बुरा इव । 'शार: शबलवातयोः' इत्यनेकार्थः । क्वचिदिति । क्वचित् अकालेऽनवसरे यो
जलधरो मेघस्तस्य तडिद्विद्युत्तया तरला इव पारिप्लवा इव । क्वचिदिति । क्वचित् कल्पतरूणां देववृक्षाणां
पल्लवाः किसलयास्तैः सह वर्तमानव । क्वचिदिति । क्वचित् शतऋतुरिन्द्रस्तस्य चापं धनुस्तेन सह वर्त-
मानेव । क्वचिदिति । क्वचित् बालातपः प्रभातकालीन सूर्या लोकस्तेन सह वर्तमानेव । तथा राज्ञां धवला-
टिप्प० – 1 शशिकरस्य चन्द्र इत्यर्थः प्रमादः । अतः 'रजनिकरः' इति पाठः । अग्रेऽपि शशिकर
इत्येवं पदं गृहीत्वा व्याख्यानं तु टीकाकारस्य चिरप्रसिद्धः प्रमादस्वभाव एव । 2 'इवाऽक्रियन्त' इत्येव
पाठः । प्रमाणं च सहृदयहृदयम् । 3 एवंविधा इत्येवोचितम् । 4 वर्तमाना इव इत्युचितम् । एवsमप्रेपि ।
 
पाठा०—१ दुकूलवासा : ; धवलवासाः २ अनुरज्यमान ३ समाजगाम ४ रजनिकर: ५ शैलकैलासजलधि -
तरङ्ग, ६ अन्यैश्च, ७ पत्रभङ्गीनाम् ८ सशतयज्ञ; शतयश.