2024-03-30 06:20:28 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दिग्विजयप्रस्थानम् ]
 
पूर्वभागः ।
 
,
 
माननामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दूररेणुपा- टलेन क्षितितलदोलायमान-
[^१]मुक्ताकलापावचूलेन सितकुसुम- मालाजालशबलशिरसा संलग्न संध्यातपेन तिर्यगावर्जितश्वेत-
गङ्गाप्र- वाहेण तारागणदन्तुरित [^२]शिलातलेन मेरुगिरिणेव गन्धमादने- नानुगम्यमानः; कनका-
लंकार [^३]प्रभाकल्माषितावयवेन [^४]च दत्तकुङ्कुमस्था [^५]स के ने [^६]वाकृष्यमाणेनेन्द्रायुधेन सना- थीकृत पुँ[^७]पुरो -
भागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभि- प्रतस्थे ।
 
२४३
 
4
 

 
[^८]
अथ चलितगजघटाकम्पिती [^९]तातपत्रवन मनेक कल्लोल- परम्परापतित चन्द्रमण्डल प्रतिबिम्ब सहस्रं
महाप्रलयजलधिज- लमिव प्लावितमहीतलमद्भुतोद्भूतकलक [^१०]लमखिलं संचचाल बलम् । उच्चलि-

 
[ टि ]--
न्द्रेणानु गम्यमानोऽनुव्रज्यमानः । अथ गजं विशेषयन्नाह - बहलेति । बहलो निबिंबिडो यः सिन्दूररेणुः
शृङ्गारभूषणधूलिस्तेन पाटलेन श्वेतरक्तेन । गजस्य सिन्दूरभूषणमिति सर्वप्रसिद्धिः । गज- शोभान्तरमाह-
क्षितीति । क्षितितलं पृथ्वीतलं यावद्दोलायमानः कम्पमानो यो मुक्ताकलापो मौक्तिकप्रकरस्त देवावलं
कर्णाभरणं यस्य स तथा । प्रस्थानसमये सर्वत्र गजस्येष्टत्वात् । अलंकारान्त- रमाह
- सितेति । सितं यत्कु-
सुममालाजालं पुष्पस्रक्समूहस्तेन शबलं कर्बुरं शिरो यस्य स तेन । अत्रोत्प्रेक्षते
- मेर्विति । मेरुर्मन्दरः स
चासौ गिरिश्चेति कर्मधारयः । तत्सदृशेनेव । उञ्च्चत्वसाम्यादस्य मेरुसाम्यमित्यर्थः । विशेषणत्रयेण मेरोरपि
गन्धमादनसाम्यं प्रद- र्शयन्नाह - संलग्नेति । संलग्नः संश्लिष्टः संध्यातपो यस्मिन् । एतेन सिन्दूरसादृश्यम् ।
तिर्यगिति । तिर्यगावर्जितः प्रवर्तितः श्वेतगङ्गा- प्रवाहो यस्मिन् । एतेन मुक्ताकलापसाम्यम् । तारेति । तारागणेन

नक्षत्रवृन्देन दन्तुरितं विषमितं शिलातलं यस्मिन् । एतेन स्रक्साम्यम् । पुना राजानं विशेषयन्नाह - इन्द्रा
युधेति । इन्द्रायुधेनाश्वरत्नेन सना- थीकृतः सहितः पुरोभागोऽग्रभागो यस्य स तथा । अथाश्वं विशेषय- न्नाह --
कनकेति । कनकस्य सुवर्णस्य योऽलंकारस्तस्य प्रभा कान्तिस्तया कल्माषिताः कर्बुरिता अवयवा अपघना यस्
तेन । अत्रोत्प्रेक्षते - दत्तेति । दत्ताः कुङ्कुमस्य किञ्जल्कस्य स्थासका हस्तबिम्बा यस्यैवंविधेनेव । कीदृ
शेन इन्द्रायुधेनाकृष्यमाणेन । अश्वपालकेनेति शेषः । एतेनास्याप्ग्रयानत्वं सूचितमिति भाषः । शनैः शनैर्मन्द मन्दं
प्रथममेवादावेव शातक्रतवीं शतक्रतोरियं शातक्र- तवी तां प्राचीमभिप्रतस्थे । तस्या अभिमुखं चचालेत्यर्थः
तदनन्तरं बलं सैन्यं संचचाल । सम्यक्प्रकारेण चलितं बभूवेत्यर्थः ।
 
-
 
y
 

 
अथ बलं विशेषयन्नाह – चलितेति । चलिता गन्तुं प्रवृत्ता या गज- घटा हस्तिसमुदायस्तस्या कम्पितानि
धूतान्यातपत्राणि छत्राणि यस्मिंस्तत् । कीदृशम् । प्लावितेति । प्लावितं प्रलयं नीतं महीतलं येन तत् । गजान
कृष्णत्वसाम्यात्समन्ततः प्रसरणसाम्याञ्च्चोपमाना- न्तरमाह - महेति । महाप्रलयो महाकल्पान्तस्तस्मिन्ये
जलधिः समुद्रस्तस्य जलं पानीयं तद्वदिव। अथ जलं विशिनष्टि - अनेकेति । अनेके संख्यातीता ये कल्लोलास्त
रङ्गास्तेषां परम्पराः पङ्क्षिति- विस्तारास्तासु पतितं प्रतिबिम्बितं संक्रान्तं चन्द्रमण्डलस्य शशि- मण्डलस्य प्रतिबिम्बसहरु
स्रं प्रतिच्छायसहस्रं यस्मिन् । अत्रातपत्राणां वर्तुलत्व स्वच्छत्व साम्याच्चन्द्रप्रतिबिम्बसाम्यम् । एतदपि प्लावि
तं
महीतलम् । अद्भुतेति । अद्भुतोद्भूत [^1]अश्वादप्याश्चर्यकारी कलकलः कोलाहलो यस्मिन् । एतच्चोभयत्र साम्यम्
उच्चेेति । अथोत्प्राबल्येन चलितस्य कृतप्रयाणस्यास्य राज्ञश्चन्द्रापीडस्य । अत्र चकारोऽधिकारान्तरसूचकः
वैशम्पायनः समीपं पार्श्वमाजगामाययौ । कया त्वरितपदसंचारिण्या शीघ्रचरणगामिन्या करिण्या हस्त
 
टिप्प० -

 
[^
1]F. अद्भुतः आश्चर्यकारी उद्भूतः उत्पन्नः कलकलरवो यस्मिंस्तत् । अश्वाविदित्युक्तिस्तु वृथा
प्रायैव
 

 
[^१]G
.
 
पाठा० -१
स्थूलमुक्ता .
[^
]G. शिखरशिलातलेन.
[^
]G. प्रभाप्रतान, घटप्रतान.
[^
]G. परार्धेन .
[^
]G. स्थानकेन .
[^
]G. आकृ
ध्
ष्यमाणेनेव.
[^
]G. पुरोभाग: प्रथमम् .
[^
]G. चलित .
[^
]G. धवलातपत्रममेक.
[^
१० सकलम्]G.
 

 
सकलम्.