कादम्बरी /276
This page has not been fully proofread.
दिग्विजयप्रस्थानम् ]
पूर्वभागः ।
,
माननामभिरवनिभुजां चक्रवालैः प्रणम्यमानः, बहलसिन्दूररेणुपाटलेन क्षितितलदोलायमान-
मुक्ताकलापावचूलेन सितकुसुममालाजालशबलशिरसा संलग्न संध्यातपेन तिर्यगावर्जितश्वेत-
गङ्गाप्रवाहेण तारागणदन्तुरितशिलातलेन मेरुगिरिणेव गन्धमादनेनानुगम्यमानः; कनका-
लंकारप्रभाकल्माषितावयवेन च दत्तकुङ्कुमस्थास के नेवाकृष्यमाणेनेन्द्रायुधेन सनाथीकृत पुँरो -
भागः शनैः शनैः प्रथममेव शातक्रतवीमाशामभिप्रतस्थे ।
२४३
4
अथ चलितगजघटाकम्पितीतपत्रवन मनेक कल्लोलपरम्परापतित चन्द्रमण्डल प्रतिबिम्ब सहस्रं
महाप्रलयजलधिजलमिव लावितमहीतलमद्भुतोद्भूतकलकलमखिलं संचचाल बलम् । उच्चलि-
न्द्रेणानु गम्यमानोऽनुव्रज्यमानः । अथ गजं विशेषयन्नाह - बहलेति । बहलो निबिंडो यः सिन्दूररेणुः
शृङ्गारभूषणधूलिस्तेन पाटलेन श्वेतरक्तेन । गजस्य सिन्दूरभूषणमिति सर्वप्रसिद्धिः । गजशोभान्तरमाह-
क्षितीति । क्षितितलं पृथ्वीतलं यावद्दोलायमानः कम्पमानो यो मुक्ताकलापो मौक्तिकप्रकरस्त देवावलं
कर्णाभरणं यस्य स तथा । प्रस्थानसमये सर्वत्र गजस्येष्टत्वात् । अलंकारान्तरमाह
- सितेति । सितं यत्कु-
सुममालाजालं पुष्पस्रक्समूहस्तेन शबलं कर्बुरं शिरो यस्य स तेन । अत्रोत्प्रेक्षते
- मेर्विति । मेरुर्मन्दरः स
चासौ गिरिश्चेति कर्मधारयः । तत्सदृशेनेव । उञ्चत्वसाम्यादस्य मेरुसाम्यमित्यर्थः । विशेषणत्रयेण मेरोरपि
गन्धमादनसाम्यं प्रदर्शयन्नाह - संलग्नेति । संलग्नः संश्लिष्टः संध्यातपो यस्मिन् । एतेन सिन्दूरसादृश्यम् ।
तिर्यगिति । तिर्यगावर्जितः प्रवर्तितः श्वेतगङ्गाप्रवाहो यस्मिन् । एतेन मुक्ताकलापसाम्यम् । तारेति । तारागणेन
नक्षत्रवृन्देन दन्तुरितं विषमितं शिलातलं यस्मिन् । एतेन स्रक्साम्यम् । पुना राजानं विशेषयन्नाह - इन्द्रा
युधेति । इन्द्रायुधेनाश्वरत्नेन सनाथीकृतः सहितः पुरोभागोऽग्रभागो यस्य स तथा । अथाश्वं विशेषयन्नाह --
कनकेति । कनकस्य सुवर्णस्य योऽलंकारस्तस्य प्रभा कान्तिस्तया कल्माषिताः कर्बुरिता अवयवा अपघना यस्
स तेन । अत्रोत्प्रेक्षते - दत्तेति । दत्ताः कुङ्कुमस्य किञ्जल्कस्य स्थासका हस्तबिम्बा यस्यैवंविधेनेव । कीदृ
इन्द्रायुधेनाकृष्यमाणेन । अश्वपालकेनेति शेषः । एतेनास्याप्रयानत्वं सूचितमिति भाषः । शनैः शनैर्मन्द मन्दं
प्रथममेवादावेव शातऋतवीं शतक्रतोरियं शातऋतवी तां प्राचीमभिप्रतस्थे । तस्या अभिमुखं चचालेत्यर्थः
तदनन्तरं बलं सैन्यं संचचाल । सम्यक्प्रकारेण चलितं बभूवेत्यर्थः ।
-
y
अथ बलं विशेषयन्नाह – चलितेति । चलिता गन्तुं प्रवृत्ता या गजघटा हस्तिसमुदायस्तस्या कम्पितानि
धूतान्यातपत्राणि छत्राणि यस्मिंस्तत् । कीदृशम् । प्लावितेति । प्लावितं प्रलयं नीतं महीतलं येन तत् । गजान
कृष्णत्वसाम्यात्समन्ततः प्रसरणसाम्याञ्चोपमानान्तरमाह - महेति । महाप्रलयो महाकल्पान्तस्तस्मिन्ये
जलधिः समुद्रस्तस्य जलं पानीयं तद्वदिव। अथ जलं विशिनष्टि - अनेकेति । अनेके संख्यातीता ये कल्लोलास्त
रङ्गास्तेषां परम्पराः पङ्क्षिविस्तारास्तासु पतितं प्रतिबिम्बितं संक्रान्तं चन्द्रमण्डलस्य शशिमण्डलस्य प्रतिबिम्बसहरु
प्रतिच्छायसहस्रं यस्मिन् । अत्रातपत्राणां वर्तुलत्व स्वच्छत्व साम्याच्चन्द्रप्रतिबिम्बसाम्यम् । एतदपि प्लावित
महीतलम् । अद्भुतेति । अद्भुतोद्भूत अश्वादप्याश्चर्यकारी कलकलः कोलाहलो यस्मिन् । एतच्चोभयत्र साम्यम्
उच्चति । अथोत्प्राबल्येन चलितस्य कृतप्रयाणस्यास्य राज्ञश्चन्द्रापीडस्य । अत्र चकारोऽधिकारान्तरसूचकः
वैशम्पायनः समीपं पार्श्वमाजगामाययौ । कया त्वरितपदसंचारिण्या शीघ्रचरणगामिन्या करिण्या हस्त
टिप्प० - 1 भद्भुतः आश्चर्यकारी उद्भूतः उत्पन्नः कलकलरवो यस्मिंस्तत् । अश्वावित्युक्तिस्तु वृथा
प्रायैव
.
पाठा० -१ स्थूलमुक्ता २ शिखरशिलातलेन. ३ प्रभाप्रतान, घटप्रतान. ४ परार्धेन ५ स्थानकेन ६ आकृ
ध्यमाणेनेव. ७ पुरोभाग: प्रथमम् ८ चलित ९ धवलातपत्रममेक. १० सकलम्.
•