2024-03-29 04:52:02 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२४२
 
कादम्बरी ।
 
कारां ससंभ्रमाधोरणोपनीतां करेणु [^१]कामारुह्याचलरेचक- [^२]चक्रीकृतक्षीरोदावर्तपाण्डुरेण दश-
दनबाहुदण्डाव स्थितकै- लासकान्तिना मुक्ताफलजालिना शतशलाकेनातपत्रेण निवार्य- माणा-
तपो· निर्गन्सुतुमारेभे । निर्गच्छंचाभ्यन्तरावस्थित एव प्रौ [^३]प्रा- कारान्तरितदर्शनानां [^४]प्रतिपालयतां
राज्ञामुन्मयूखानां चूडाम- णीनाम ले[^५]लक्तकद्रव द्युतिमुषा बहलेनालोकबालातपेन राज्या- भिषेकानन्त-
रप्रसृतेन स्वप्रतापवहिनेवात्यर्थं पिञ्जरी [^६]क्रियमाणा दश दिशो यौवराज्याभिषेकजन्मना निजा-
नुरागेणेव रज्यमानमव- नितलमासन्न रिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणम- म्बरत-
लमभिमुखागतभुवनतल लक्ष्मीचरणाल क्तकर सेनेव लोहितायमानास- यमानातपं दिवसं ददर्श । विनिर्ग-
तश्च ससंभ्रमप्रचलित [^७]गन्ध- गजघटासह खैस्रैरन्योन्यसंघट्टजर्जरिता तपत्रमण्डलैंरादरावनलै [^८]रादरावन- तमौलि-
शिथिलमणिमुकुटपङ्किक्तिभिरावर्जितर् [^९]कर्णपूरैः कपो- लस्थल स्खलितकुँ [^१०]कुण्डलै रो[^११]राजाप्त सेनापति निनि [^१२]र्दि- श्य-
[ कथायाम्
 
BES
 

 
[ टि ]--
प्रयाणयोग्यो मङ्गलं यातीति मङ्गल्योऽलंकारो भूषा यस्यां (स्याः) सा ताम् । अचलेति । अचलरेचको
मन्दरभ्रमणं तेन चक्री- कृतश्चक्रतां प्रापितो यः क्षीरोदः क्षीरसमुद्रस्तस्यावर्ताः पयसां भ्रमा- स्तद्वत्पाण्डुरेण शुभ्रेण ।
दशेति । दशवदनो लङ्काधिपतिस्तस्य बाहुदण्डा भुजदण्डास्तत्रावस्थितः कृतावस्थानो यः कैलासो रज- ताद्रि-
स्तद्वत्कान्तिः प्रभा यस्य स तेन । मुक्तति । मुक्ताफलानां जालानि विद्यन्ते यस्मिन्स तेन । शतेति ।
शतसंख्याः शलाकाः स्वर्णनिर्मिता ईषिका यस्मिन्स तेनैवंविधेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण
आतपः सूर्यालोको यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । निरिति । निर्गच्छन्त्व्रजन्नभ्यन्तरावस्थित

एव चन्द्रापीड: प्राकारान्तरित दर्शनानां वप्रव्यवहितदर्शनानां प्रतिपालयतां प्रतीक्षां कुर्वाणानां राज्ञां नृपा-
णामुदूर्ध्वं मयूखाः किरणा येषामेवंविधानां चूडामणीनां शिरोमणीनामालोकलक्षणो यो बालातपस्तेन दृढेन
बहुलेनालक्तकद्रवद्युतिमुषालक्तकरसहा- रिणात्यर्थमतिशयेन पिञ्जरीक्रियमाणाः पीतरक्तीक्रियमाणा दश दिशः (कर्म)
ददर्शालोकयामासेत्यन्वयः । अत्रोत्प्रेक्षते - राज्येति । राज्यस्य यौवराज्यस्य योऽभिषेकः स्नानं तस्या-
नन्तरं प्रसृतेन विस्तृ- तेन स्वप्रतापवहिह्निनेव स्वस्य स्वकीयस्य यः प्रतापः कोशदण्डजं तेजः स एव वह्निरग्नि-
स्तेनेव । प्रतापस्य रक्तत्वात्तदनुमानम् । अथ च यौवराज्याभिषेकजन्मना यौवराज्यस्नान समुद्भवेन निजानु-
रागेणे- वात्मीयस्नेहेन रज्यमानं रक्तीक्रियमाणमवनितलं वसुधातलम् । अथ चासन्नः समीपवर्ती यो रिपुवि-
नाश: शत्रुक्षयस्तस्य पिशुनेन सूचकेन दिग्दाहेनेव पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणं अम्बर- तलं व्योम-
तलम् । अभीति । अभिमुखा संमुखागता या भुवनतल- लक्ष्मीस्त्रिविष्टपश्रीस्तस्याश्चरणालक्तकः पादयावक-
स्तस्य रसेनेव लोहितायमानो रक्तवदाचरमाण आतप आलोको यस्यैवंभूतं दिवसं वासरं ददर्शति पूर्वं क्रियया
संबन्धः । विनीति । विशेषेण निर्गतो बहिरागतः । च पुनरर्थकः । अवनिभुजां राज्ञां चक्रवालैः समूहैः

प्रणम्यमानो नमस्क्रियमाणः । अथ राजकविशेषणानि - ससंभ्रमेति । ससंभ्रमं सवेगं प्रचलितं प्रस्थितं
गन्धगजानां गन्धेभानां घटासहस्रं येषां तैः । अन्योन्येति । अन्योन्यं परस्परं यः संघट्टः संमर्दस्तेन जर्ज -
रितानि शिथिलीभूतान्यातपत्रमण्डलानि छत्रसमूहा येषां तैः । आदरेति । आदरेण गौरवेणावनता नम्रा ये
मौलयः शिरांसि तेन शिथिलाः श्लथा मणिमुकुटानां रत्नकिरीटानां पतयः श्रेणयो येषां तैः । आवर्जितेति ।
आवर्जितान्यानमितानि कर्णपूराणि कर्णाभरणानि येषां तैः । कपोलेति । कपोलस्थलाद्गल्लात्परप्रदेशात्स्ख-
लितानि स्खलनां प्राप्तानि कुण्डलानि कर्णभूषणानि येषां तैः । राजेति । राज्ञो य आप्तः प्रत्ययितः सेनापतिः
सैन्याध्यक्षस्तेन निर्दिश्यमानानि निवेद्यमानानि नामानि येषां तैः । पुनः कीदृशः । गन्धमादननाम्ना गजे-
पाठा० -

 
[^
]G. अधिरुह्य.
[^
]G. वक्रीकृत.
[^
]G. धवलप्राकार.
[^
]G. द्वारावस्थितानां प्रत्यपालयताम्.
[^
]G. अलक्तक इव.

[^
]G. क्रियमाणदशदिशः.
[^
]G. गज.
[^
]G. आदरादनवरतप्रणाम शिथिलित .
[^
]G. रत्नकर्णपूरे, रत्नकर्णपूरैः.
[^
१०]G. रत्नकुण्डलैः .

[^
११]G. आज्ञप्त, अज्ञात.
[^
१२]G. निर्दिश्यमानानामवनि.