कादम्बरी /275
This page has not been fully proofread.
२४२
कादम्बरी ।
कारां ससंभ्रमाधोरणोपनीतां करेणुकामारुह्याचलरेचकचक्रीकृतक्षीरोदावर्तपाण्डुरेण दश-
बदनबाहुदण्डाव स्थितकैलासकान्तिना मुक्ताफलजालिना शतशलाकेनातपत्रेण निवार्यमाणा-
तपो· निर्गन्सुमारेभे । निर्गच्छंचाभ्यन्तरावस्थित एव प्रौकारान्तरितदर्शनानां प्रतिपालयतां
राज्ञामुन्मयूखानां चूडामणीनाम लेक्तकद्रव द्युतिमुषा बहलेनालोकबालातपेन राज्याभिषेकानन्त-
रप्रसृतेन स्वप्रतापवहिनेवात्यर्थ पिञ्जरीक्रियमाणा दश दिशो यौवराज्याभिषेकजन्मना निजा-
नुरागेणेव रज्यमानमव नितलमासन्न रिपुविनाशपिशुनेन दिग्दाहेनेव पाटलीक्रियमाणमम्बरत-
लमभिमुखागतभुवनतल लक्ष्मीचरणाल क्तकर सेनेव लोहितायमानासपं दिवसं ददर्श । विनिर्ग-
तश्च ससंभ्रमप्रचलितगन्धगजघटासह खैरन्योन्यसंघट्टजर्जरिता तपत्रमण्डलैंरादरावनतमौलि-
शिथिलमणिमुकुटपङ्किभिरावर्जितर्कर्णपूरैः कपोलस्थल स्खलितकुँण्डलै रोजाप्त सेनापति निर्दिश्य-
[ कथायाम्
BES
प्रयाणयोग्यो मङ्गलं यातीति मङ्गल्योऽलंकारो भूषा यस्यां (स्याः) सा ताम् । अचलेति । अचलरेचको
मन्दरभ्रमणं तेन चक्रीकृतश्चक्रतां प्रापितो यः क्षीरोदः क्षीरसमुद्रस्तस्यावर्ताः पयसां भ्रमास्तद्वत्पाण्डुरेण शुभ्रेण ।
दशेति । दशवदनो लङ्काधिपतिस्तस्य बाहुदण्डा भुजदण्डास्तत्रावस्थितः कृतावस्थानो यः कैलासो रजताद्रि-
स्तद्वत्कान्तिः प्रभा यस्य स तेन । मुक्तति । मुक्ताफलानां जालानि विद्यन्ते यस्मिन्स तेन । शतेति ।
शतसंख्याः शलाकाः स्वर्णनिर्मिता ईषिका यस्मिन्स तेनैवंविधेनातपत्रेण छत्रेण निवार्यमाणो दूरीक्रियमाण
आतपः सूर्यालोको यस्य स तथा । अन्वयस्तु प्रागेवोक्तः । निरिति । निर्गच्छन्त्रजन्नभ्यन्तरावस्थित
एव चन्द्रापीड: प्राकारान्तरित दर्शनानां वप्रव्यवहितदर्शनानां प्रतिपालयतां प्रतीक्षां कुर्वाणानां राज्ञां नृपा-
•णामुदूर्ध्वं मयूखाः किरणा येषामेवंविधानां चूडामणीनां शिरोमणीनामालोकलक्षणो यो बालातपस्तेन दृढेन
बहुलेनालक्तकद्रवद्युतिमुषालक्तकरसहारिणात्यर्थमतिशयेन पिञ्जरीक्रियमाणाः पीतरक्तीक्रियमाणा दश दिशः (कर्म)
ददर्शालोकयामासेत्यन्वयः । अत्रोत्प्रेक्षते - राज्येति । राज्यस्य यौवराज्यस्य योऽभिषेकः स्नानं तस्या-
नन्तरं प्रसृतेन विस्तृतेन स्वप्रतापवहिनेव स्वस्य स्वकीयस्य यः प्रतापः कोशदण्डजं तेजः स एव वह्निरग्नि-
स्तेनेव । प्रतापस्य रक्तत्वात्तदनुमानम् । अथ च यौवराज्याभिषेकजन्मना यौवराज्यस्नान समुद्भवेन निजानु-
रागेणेवात्मीयस्नेहेन रज्यमानं रक्तीक्रियमाणमवनितलं वसुधातलम् । अथ चासन्नः समीपवर्ती यो रिपुवि-
नाश: शत्रुक्षयस्तस्य पिशुनेन सूचकेन दिग्दाहेनेव पाटलीक्रियमाणं श्वेतरक्तीक्रियमाणं अम्बरतलं व्योम-
तलम् । अभीति । अभिमुखा संमुखागता या भुवनतललक्ष्मीस्त्रिविष्टपश्रीस्तस्याश्चरणालक्तकः पादयावक-
स्तस्य रसेनेव लोहितायमानो रक्तवदाचरमाण आतप आलोको यस्यैवंभूतं दिवसं वासरं ददर्शति पूर्व क्रियया
संबन्धः । विनीति । विशेषेण निर्गतो बहिरागतः । च पुनरर्थकः । अवनिभुजां राज्ञां चक्रवालैः समूहैः
प्रणम्यमानो नमस्क्रियमाणः । अथ राजकविशेषणानि - ससंभ्रमेति । ससंभ्रमं सवेगं प्रचलितं प्रस्थितं
गन्धगजानां गन्धेभानां घटासहस्रं येषां तैः । अन्योन्येति । अन्योन्यं परस्परं यः संघट्टः संमर्दस्तेन जर्ज -
रितानि शिथिलीभूतान्यातपत्रमण्डलानि छत्रसमूहा येषां तैः । आदति । आदरेण गौरवेणावनता नम्रा ये
मौलयः शिरांसि तेन शिथिलाः श्लथा मणिमुकुटानां रत्नकिरीटानां पतयः श्रेणयो येषां तैः । आवर्जितेति ।
आवर्जितान्यानमितानि कर्णपूराणि कर्णाभरणानि येषां तैः । कपोलेति । कपोलस्थलाद्गल्लात्परप्रदेशात्स्ख-
लितानि स्खलनां प्राप्तानि कुण्डलानि कर्णभूषणानि येषां तैः । राजेति । राज्ञो य आप्तः प्रत्ययितः सेनापतिः
सैन्याध्यक्षस्तेन निर्दिश्यमानानि निवेद्यमानानि नामानि येषां तैः । पुनः कीदृशः । गन्धमादननाम्ना गजे-
पाठा० -१ अधिरुय. २ वक्रीकृत. ३ धवलप्राकार. ४ द्वारावस्थितानां प्रत्यपालयताम्. ५ अलक्तक इव.
६ क्रियमाणदशदिशः. ७ गज. ८ आदरादनवरतप्रणाम शिथिलित ९ रत्नकर्णपूरे, रत्नकर्णपूरैः. १० रत्नकुण्डलैः .
११ आज्ञप्त, अज्ञात. १२ निर्दिश्यमानानामवनि.