2024-03-29 04:32:21 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कृतगम्भीरकण्ठगर्जितेन प्रत्युद्गम्यमान [^१]इव [^२]मेरावैराव- तेन, अश्रुतपूर्व [^३]रवरोषावेशतिर्यगवनमितविषाणमण्डलेन प्रण- म्यमान इव विबुधस [^४]द्मनि कृतान्तमहिषेण, संत्रस्तलोकपाला कर्णितो बभ्राम [^५]त्रिभुवनं निनादः । ततो दुन्दुभिरवमाकर्ण्य जयजयेति च सर्वतः समुद्घुष्यमाणजयशब्द: सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीडः । समन्तात्ससंभ्रमोत्थितैश्च
पर- स्परसंघट्ट [^६]विघटितहारसूत्र विगलिताननवरतमाशाविजय प्र- स्थान मँ[^७]मङ्गललीलालाजानिव मुक्ता-
फलप्रकरान्क्षरद्भिः, पारि- जात इव सितकुसुममुकुलपातिभिः कल्पपादपैः, ऐरावत इव विमु
- क्तकरशीकरैराशागजैः, गगनाभोग इ तारागणवर्षिभिर्दिगन्तरैः, जलदकाल इव स्थूलज-
ललवासारस्यन्दिभिर्जलधरैरनुगम्यमानो नरपतिसह
खैर।
स्रैरास्थानमण्डपान्निरगात् ।
 
निर्गत्य च पूर्वारूढया पत्रलेखया [^८]ध्यासितान्तरासनामुपपादि-
तप्रस्थानसमुचित मङ्गल्यालं-
२४१
 

[ टि ]--
कृतेति । कृतं विहितं गम्भीरमत्युच्चं कण्ठगर्जितं येनैवंविधेनैरावतेनाभ्रमुप्रियेण प्रत्युद्गम्यमाने [^1]न इवाभिमुखं
मानव । श्रुतेति । अश्रुतपूर्वोऽनाकर्णितपूर्योवो यो रवः शब्दस्तेन जनितो रोषो रुट् तस्यावेशो-
ऽपस्मारस्तेन तिर्यगवनमितं नम्रीभूतं विषाणमण्डलं शृङ्गमण्डलं यस्यैवंविधेन विबु [^2]धसद्मनि देव- लोके कृतान्त-
महिषेण यमकासरेण प्रणम्यमान इव नमस्क्रियमाण इव । संत्रस्तेति । संत्रस्ताश्चकिता ये लोकपालाः
[^3]सोमाद्या स्तै- राकर्णितः श्रवणविषयीकृतः । ततस्तदनन्तरं दुन्दुभिरवं पटहरवं जयजयेति च शब्दम् । चकारः
पुनरर्थकः । आकर्ण्य निशम्य सर्वतः सर्वत्र समुद्रुघुष्यमाण उद्घोषणाविषयीक्रियमाणो जयशब्दो यस्य स तथा ।
एवंविधश्चन्द्रापीडो द्विषतां शत्रूणां श्रिया लक्ष्म्या सह सिंहासनात् संचचाल चलितो बभूव । क्रमेणास्थान -
मण्डपान्निरगा- न्निर्गतो बभूवेत्यन्वयः । किंविशिष्टः । नरपतिसहस्रैर्भूमिपतिदशश- तैरनुगम्यमानोऽनुव्रज्य-
मानः । अथ नरपतीनां विशेषणानि - सम- न्तादिति । समन्तादेकवारं ससंभ्रमं त्वरितमुत्थितैः कृतोत्थानैः ।
किं कुर्वद्भिः । मुक्ताफलप्रकरान्मौक्तिकसमूहान्क्षरद्भिर्विकिरद्भिः । किंविशिष्टान् । परस्परं अन्योन्यं यः
संघट्टः संमर्दस्तेन विघटितं त्रुटितं यद्धारसूत्रं तेन विगलितांच्युतान् । कानिव । अनवरतं निरन्तरमाशा-
विजयो दिग्विजयस्तदर्थं प्रस्थानं गमनं तस्मिन्मङ्ग- लस्य विघ्नवारकस्य या लीला विलासस्तस्य लाजानिवाक्षता-
निव । मङ्गलनिमित्तं लीलया लाजाः प्रक्षिप्यन्त इति भावः । कैः क इवा- नुगतः । पारीति । कल्पपाद-
पैर्देववृक्षैरनुगतः पारिजात इंव मन्दार इव । एतान् विशिष्टि - सितेति । सितकुसुमानां श्वेतपुष्पाणां
यानि मुकु [^4]लानि गुच्छानि तानि पातयन्त्येवंशीलास्तैः । ऐरा- वतेति । आशागजैर्दिग्गजैरनुगत ऐरावत इव
श्वेतगज इव । किंवि- शिष्टैः । विमुक्तेति । विमुक्तास्त्यक्ताः करेभ्यः शुण्डादण्डेभ्यः शीकराः पृषता यैः ।
गगनेति । दिगन्तरैर्दिशां विचालैरनुगतो गग- नाभोग इव व्योमविस्तार इव । कीदृशैः । तारेति । ताराणां
नक्ष- त्राणां गणः समूहस्तं वर्षन्तीत्येवंशीलास्तैः । जलदेति । जलधरै र्मेघैरनुगतो जलदकाल इव प्रावृट्समय-
इ॒
व । कीदृशैः । स्थूलेति । स्थूलाः स्थविष्टा ये जललवाः पानीयबिन्दवस्तेषामासारो वेगवान्र्दृ- [^5]न्वृष्टि॒िटिस्तं स्यन्दन्तीत्येवं-
शीलास्तैः । अत्र श्वेतत्वानुगत्वाभ्यां त्रिभिरप्यनु [^6]नमानं बोध्यम् । अन्वयस्तु प्रागेवोक्तः ।
 
ततो निर्गत्य बहिरागत्य । चकारः पुनरर्थे । निर्गन्तुमिति । नितरा- मतिशयेन गन्तुं यातुमारेभ आरम्भं
चकार । किं कृत्वा । ससंभ्रमेण वेगेनाधोरणा हस्तिपका स्तै रुपनीतामानीतां करेणुकां वशामारुह्या-
रोहणं कृत्वा ।
अथ करेणुकां विशिनष्टि— पूर्वेति । पूर्वारूढेति पूर्वं प्रथममारूढयोपरिस्थितया पत्रलेखया ताम्बूलकरङ्कवाहिन्या-
ध्या- सितमाश्रितमन्तरासनं नृपासनात्पृथगासनं यस्याः सा ताम् । उपेति । उपपादितो विहितः प्रस्थानसमुचितः
 
टिप्प० – [^1]F. 'मेरावैरावतेन' इति यदा पाठः स्वीकृतस्तदा 'मेरौ सुमेरु- पर्वते ऐरावतेन गौरवसूचनार्
थं प्रत्युद्गम्यमान इव' इति व्याख्यानमुचितम् ।
[^
2]F. 'यमसद्मनि' इत्येव पाठः, तत्रैव कृतान्तमहिषौचि-
त्यात् ।
[^
3]F. इन्द्राद्या इत्युचितम् । न हि सोमो लोकपालः । उमया सहितः सोम इति शिवग्रहणं तु
इन्द्रस्य टीका विडोबिडौजा इव ।
[^
4]F. कुड्मलानीत्युचितम् ।
[^
5]F. वेगवतीति तात्पर्यम् ।
[^
6]F. उपमानमित्यर्थः ।
 
पाठा० -[^]G. इवैरावतेन.
[^
]G. विबुधसम्द्मनि.
[^
]G. रवजनितरोषः; इव रोष.
[^
]G. यमसद्मनि.
[^
]G. त्रिभुवनम खिलम्.
[^]G. विघट्टित.
[^
]G. मङ्गललीलाबीजानीव; मङ्गललाजानीव; मङ्गललाजानिव.
[^
]G. कुलूतेश्वरपुत्र्या समभ्ध्यासित,
.
३१ का०