कादम्बरी /274
This page has not been fully proofread.
दिग्विजयप्रस्थानम् ]
पूर्वभागः ।
कृतगम्भीरकण्ठगर्जितेन प्रत्युद्गम्यमान ईव मेरावैरावतेन, अभुतपूर्वरवरोषावेशतिर्यगवन-
मितविषाणमण्डलेन प्रणम्यमान इव विबुधस मनि कृतान्तमहिषेण, संत्रस्तलोकपालाकर्णितो
बभ्राम त्रिभुवनं निनादः । ततो दुन्दुभिरवमाकर्ण्य जयजयेति च सर्वतः समुद्रुष्यमाण-
जयशब्द: सिंहासनात्सह द्विषतां श्रिया संचचाल चन्द्रापीडः । समन्तात्ससंभ्रमोत्थितैश्च
परस्परसंघट्ट विघटितहारसूत्र विगलिताननवरतमाशाविजय प्रस्थान मँङ्गललीलालाजानिव मुक्ता-
फलप्रकरान्क्षरद्भिः, पारिजात इव सितकुसुममुकुलपातिभिः कल्पपादपैः, ऐरावत इव विमु
क्तकरशीकरैराशागजैः, गगनाभोग इब तारागणवर्षिभिर्दिगन्तरैः, जलदकाल इव स्थूलज-
ललवासारस्यन्दिभिर्जलधरैरनुगम्यमानो नरपतिसह
खैर। स्थानमण्डपान्निरगात् ।
निर्गत्य च पूर्वारूढया पत्रलेखयाध्यासितान्तरासनामुपपादितप्रस्थानसमुचित मङ्गल्यालं-
२४१
कृतेति । कृतं विहितं गम्भीरमत्युच्चं कण्ठगर्जितं येनैवंविधेनैरावतेनाभ्रमुप्रियेण प्रत्युद्गम्यमाने इवाभिमुखं
मानव । श्रुति । अश्रुतपूर्वोऽनाकर्णितपूर्यो यो रवः शब्दस्तेन जनितो रोषो रुट् तस्यावेशो-
ऽपस्मारस्तेन तिर्यगवनमितं नम्रीभूतं विषाणमण्डलं शृङ्गमण्डलं यस्यैवंविधेन विबुधसमनि देवलोके कृतान्त-
महिषेण यमकासरेण प्रणम्यमान इव नमस्क्रियमाण इव । संत्रस्तेति । संत्रस्ताश्चकिता ये लोकपालाः
सोमाद्या स्तैराकर्णितः श्रवणविषयीकृतः । ततस्तदनन्तरं दुन्दुभिरवं पटहरवं जयजयेति च शब्दम् । चकारः
पुनरर्थकः । आकर्ण्य निशम्य सर्वतः सर्वत्र समुद्रुष्यमाण उद्घोषणाविषयीक्रियमाणो जयशब्दो यस्य स तथा ।
एवंविधश्चन्द्रापीडो द्विषतां शत्रूणां श्रिया लक्ष्म्या सह सिंहासनात् संचचाल चलितो बभूव । क्रमेणास्थान -
मण्डपान्निरगान्निर्गतो बभूवेत्यन्वयः । किंविशिष्टः । नरपतिसहस्रैर्भूमिपतिदशशतैरनुगम्यमानोऽनुव्रज्य-
मानः । अथ नरपतीनां विशेषणानि - समन्तादिति । समन्तादेकवारं ससंभ्रमं त्वरितमुत्थितैः कृतोत्थानैः ।
किं कुर्वद्भिः । मुक्ताफलप्रकरान्मौक्तिकसमूहान्क्षरद्भिर्विकिरद्भिः । किंविशिष्टान् । परस्परं अन्योन्यं यः
संघट्टः संमर्दस्तेन विघटितं त्रुटितं यद्धारसूत्रं तेन विगलितांच्युतान् । कानिव । अनवरतं निरन्तरमाशा-
विजयो दिग्विजयस्तदर्थं प्रस्थानं गमनं तस्मिन्मङ्गलस्य विघ्नवारकस्य या लीला विलासस्तस्य लाजानिवाक्षता-
निव । मङ्गलनिमित्तं लीलया लाजाः प्रक्षिप्यन्त इति भावः । कैः क इवानुगतः । पारीति । कल्पपाद-
पैर्देववृक्षैरनुगतः पारिजात इंव मन्दार इव । एतान् विशिष्टि - सितेति । सितकुसुमानां श्वेतपुष्पाणां
यानि मुकुलानि गुच्छानि तानि पातयन्त्येवंशीलास्तैः । ऐरावतेति । आशागजैर्दिग्गजैरनुगत ऐरावत इव
श्वेतगज इव । किंविशिष्टैः । विमुक्तेति । विमुक्तास्त्यक्ताः करेभ्यः शुण्डादण्डेभ्यः शीकराः पृषता यैः ।
गगनेति । दिगन्तरैर्दिशां विचालैरनुगतो गगनाभोग इव व्योमविस्तार इव । कीदृशैः । तारेति । ताराणां
नक्षत्राणां गणः समूहस्तं वर्षन्तीत्येवंशीलास्तैः । जलदेति । जलधरैर्मेघैरनुगतो जलदकाल इव प्रावृट्समय-
इ॒व । कीदृशैः । स्थूलेति । स्थूलाः स्थविष्टा ये जललवाः पानीयबिन्दवस्तेषामासारो वेगवान्र्दृष्टि॒िस्तं स्यन्दन्तीत्येवं-
शीलास्तैः । अत्र श्वेतत्वानुगत्वाभ्यां त्रिभिरप्यनुमानं बोध्यम् । अन्वयस्तु प्रागेवोक्तः ।
ततो निर्गत्य बहिरागत्य । चकारः पुनरर्थे । निर्गन्तुमिति । नितरामतिशयेन गन्तुं यातुमारेभ आरम्भं
चकार । किं कृत्वा । ससंभ्रमेण वेगेनाधोरणा हस्तिपका स्तै रुपनीतामानीतां करेणुकां वशामारुह्यारोहणं कृत्वा ।
अथ करेणुकां विशिनष्टि— पूर्वेति । पूर्वारूढेति पूर्व प्रथममारूढयोपरिस्थितया पत्रलेखया ताम्बूलकरङ्कवाहिन्या-
ध्यासितमाश्रितमन्तरासनं नृपासनात्पृथगासनं यस्याः सा ताम् । उपेति । उपपादितो विहितः प्रस्थानसमुचितः
टिप्प० – 1 'मेरावैरावतेन' इति यदा पाठः स्वीकृतस्तदा 'मेरौ सुमेरुपर्वते ऐरावतेन गौरवसूचनार्थ
प्रत्युद्गम्यमान इव' इति व्याख्यानमुचितम् । 2 'यमसमनि' इत्येव पाठः, तत्रैव कृतान्तमहिषौचि-
त्यात् । 3 इन्द्राद्या इत्युचितम् । न हि सोमो लोकपालः । उमया सहितः सोम इति शिवग्रहणं तु
इन्द्रस्य टीका विडोजा इव । 4 कुड्मलानीत्युचितम् । 5 वेगवतीति तात्पर्यम् । 6 उपमानमित्यर्थः ।
पाठा० -१ इवैरावतेन. २ विबुधसम्मनि. ३ रवजनितरोषः; इव रोष. ४ यमसद्मनि. ५ त्रिभुवनम खिलम्.
६ विघट्टित. ७ मङ्गललीलाबीजानीव; मङ्गललाजानीव; मङ्गललाजानिव. ८ कुलूतेश्वरपुत्र्या समभ्यासित,
३१ का०