This page has not been fully proofread.

२४०
 
कादम्बरी ।
 
[ कथायाम्-
शंसी प्रलयघनघटाघोषघर्धरध्वनिरुदधिरिव मन्दरपातैः, वसुंधरापीठेमिव युगान्तनिर्घातैः,
उत्पातजलघर इव तडिँद्दण्डपातैः, पातालकुक्षिरिव महावराहघोणाभिघातैः कनककोणैर-
भिहन्यमानः प्रस्थानदुन्दुभिरामन्थरं दध्वान । येने ध्वनता समाप्मातानीबोन्मीलितानीव
पृथक्कृतानीव विस्तारितानीव गर्भीकृतानीव प्रदक्षिणीकृतानीव बधिरीकृतानीव रवेण भुवना
न्तराणि विश्लेषिता इव दिशामन्योन्यबन्धसंधयः । यस्य च भयवशविषमचॅलितोत्तान फणा
सहस्रेणालिङ्ग्यमान इव रसातले शेषेण, मुहुर्मुहुरभिमुख दन्तोर्ध्व घातैराहूयमान इव दिक्षु
दिकअरैः, संत्रासरचितरेचकमण्डलैः प्रदक्षिणी क्रियमाण इव नभसि दिवसकररथेतुरङ्गमैः,
अपूर्वशर्वाट्टहासशक हर्ष हुं कृतेना श्रुतपूर्व आभाष्यमाण इव कैलासशिखरिणि त्र्यम्बकवृषभेण,
 
विश्य तदनन्तरं दिग्विजयार्थं यत्प्रयाणं गमनं तस्याशंसी कथकः प्रस्थानदुन्दुभिर्यात्रापटह आमन्थरं नात्युच
यथा स्यात्तथा दध्यान शब्दं चकार । अथ दुन्दुभि विशेषयन्नाह-प्रलयेति । प्रलयकालानां लीना कल्पान्त-
समयोद्भवा या घनघटा कादम्बिनी तस्या घोषो गर्जितं तद्वद्धर्धरः कठिनो ध्वनिः शब्दो यस्य सः । किंक्रिय-
माणः । अभिहन्यमानः । कैः । कनकस्य सुवर्णस्य कोणाः पटहवादनदण्डास्तैः । 'कोणो वीणा दिवादनम्' इति
कौशः । क इव । उदधिः समुद्रस्तद्वदिव मन्दरो मेरुस्तस्य पातैः पुनःपुनः पतनैः । वसुंधरेति । वसुंधरा
पृथ्वी तस्याः पीठं मूलभागस्तद्वदिव युगान्ते कल्पान्ते निर्घाता दिशां महान्तः शब्दः श्रूयन्ते तैः ।
उत्पातेति । उत्पातो जन्यं तज्जनितो यो जलघरो मेघस्तद्वदिव तडिद्दण्डा विद्युदण्डास्तेषां पातैः प्रपतनैः ।
पातालेति । पातालं बलिवेश्म तस्य कुक्षिर्मध्यप्रदेशस्तद्वदिव । महेति । महावराहः कृष्णावताररूपस्तस्य
घोणा विकूणिका तस्य अभिघातेः प्रहारैः । येनेति । येन दुन्दुभिना । कर्तरि तृतीया । ध्वनता शब्दं कुर्वता
रवेण शब्देन भुवनान्तरराणि विश्वविवराणि समाध्मातानीवापूरितानीवोन्मीलितानीव विकसितानीव पृथ-
कृतानीव भिन्नीकृतानीव व विपुलीकृतानीव गर्भीकृतानी वान्तर्हितानीव प्रदक्षिणीकृतानीवावर्ती-
कृतानीव बधिरीकृतानीवाकर्णीकृतानीव जातानीति सप्तभिः समाध्मातादिभिः संबध्यते । विश्लेषिता इति ।
दिशां ककुभामन्योन्यं परस्परं बन्धस्य बन्धविशेषस्य संधयः संश्लेषा विश्लेषिता विघटिता इव । यस्य
चेति । वुन्दुभिना संबध्यते । निनादापेक्षया षष्ठी । यस्य दुन्दुभेर्निनादः शब्दस्त्रिभुवनं विष्टपत्रयं बभ्राम
भ्रमणं चकार । अत्रोत्प्रेक्षते - भयेति । भयवशेन भीतिवशेन विषमं स्थपुटं चलितं पश्चादागतमुत्तानमूर्ध्वमुख
फणासहस्त्रं यस्यैवंविधेन शेषेण नागाधिपेन रसातले वडवामुख आलिङ्ग्यमान इवाश्लिष्यमाण इव मुहुर्मुहुर्वारं-
भारी दिक्षु दिशासु दिकुञ्जरैर्दिागैराहूयमान इव निमन्त्रयमाण इवाभिमुखं संमुखं ये दन्तानां रदानामूर्ध्वधाता
ऊर्ध्वप्रहारास्तैः । संत्रासेति । संत्रासेन भयेन रचितं रेचकमण्डलं तिर्यग्भ्रमणमण्डलं यैरेवंविधैर्दिवस-
कररथतुरङ्गमैः सूर्यरथसप्तसप्तिभिर्नभसि विहायसि प्रदक्षिणीक्रियमाण आवतक्रियमाण इव । अपूर्वेति ।
अपूर्वोऽश्रुतपूर्वो यः शर्वस्य भवानीपतेरगृहासो महान्हासस्तस्य शङ्कारेका तया हर्षः प्रमोदस्तस्माद्यद्धुकृतं न
हुंकारेण कैलासशिखरिणि रजताद्विसानुनि त्र्यम्बकवृषभेणेश्वर बलीवर्देनाभाष्यमाण इवोच्यमान इव ।
 
टिप्प० – 1 अतिस्थूलमिदम् । यदा प्रलयघनघटादिघोरशब्दैः साम्यं ततोपि नात्युच्चता ? अतः
आमन्थरम् अतीव विशालमिति व्याख्यानमुचितम् । 'मन्थरः सूचके कोशे वक्रे मन्दे पृथौ मथि । मन्थरं
तु कुसुम्भ्यां स्यात्' इति हेमः । 2 'मन्दरघातैः' इत्येव पाठः । मध्यमानतादशायां विलोडनकृतो घात.
एव भवति न पुनः पातः । 3 इदमपि स्थूलतमम् । उत्पातसमये भाकाशादभिपतिता वायुविशेषा
निर्घाताः 'वायुनाभिहतो वायुर्गगनात्पतितः क्षितौ । यदा दीप्तः खगरुतः स निर्घातोतिदोषकृत् ॥'
भारदसंहिता । 4 आलष्यमान हवेत्युचितम् ।
 
पाठा० -१ घातै:. १ पीठ:. ३ चण्डपातैः. ४ कनककणै:, कणकणैः ५ येन च ६ उन्मीलितानीव मुखरी •
कृतानीन पृथकृतानीव. ७ बलित, ८ दत्तदन्त १ तुर. १० हुकृतेमाभाष्यमाणः.