2024-03-24 06:10:55 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

बालरचितकर्णपूरः, दीर्घदशमनुपहतमिन्दुधवलं दुकूलयुगलं वसा- नः, पुरोहितप्रतिबद्धप्रतिसरप्रसाधितपाणिः, [^१]नवराजलक्ष्मी- कमलिनीमृणालेनाभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेव हारे-
णालिङ्गितवक्षस्थलः,सितकुसुमग्रथिताभिराजानुलम्बिनीभिरिन्दुक-
र [^२]कलाभिर्वै [^३]कक्षस्रग्भिर्निरन्तरनिचितशरीरतया धवल- वेषपरिग्रहतया च नरसिंह इव [^४]विधूतकेसरनिकरः, कैलास इव स्रवत्स्रोतस्विनीस्रोतोराशिः, ऐरावत इव मन्दाकिनीमृणालजा- लजटिलः, क्षीरोद इव स्फुरितफे [^५]नलवाकुलस्तत्कालप्रतिपन्न- वेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारण: सभामण्डपमु [^६]प- गम्य काञ्चनमयं शशीव मेरुशृङ्गं चन्द्रापीडः सिंहासनमारुरोह ।
 
आरूढस्य चास्य कृतयथोचितसकलराज [^७]लोकसंमानस्य मुहूर्तं स्थित्वा दिग्विजयप्रयाणा-
 
[ टि ]-- किसलयै रचितो निर्मितः कर्णपूरः कर्णावतंसो येन सः । दीर्घेति । दीर्घा आयता दशा [^1]वर्तयो यस्यैवंभूतमनुपहतमख- ण्डमिन्दुश्चन्द्रस्तद्वद्धवलं श्वेतं दुकूलयुगलं दुगूलयुग्मं वसानो दधानः । पुरो इति । पुरोहितेन पुरोधसा प्रतिबद्धो यः प्रतिसरो हस्तसूत्रं तेन प्रसाधितोऽलंकृतः पाणिर्यस्य सः । राजानं विशिनष्टि - नवेति ।
नवा प्रत्यग्रा या राजलक्ष्मीराधिपत्यश्रीः सैवोल्लसत्त्वसाम्यात्कमलि- नी नलिनी तस्या आयतत्वसाम्यान्मृणालेनेव बिसेनेव । मुक्तासु संक्रा [^2]न्तमुखत्वेनोपमानान्तरमाविःकर्तुमाह - अभीति। अभि- षेकदर्शनार्थं यौवराज्याभिषेकावलोकनार्थमागतेन प्राप्तेन सप्तर्षि- मण्डलेनेव मरीचिप्रभृतिमुनिसमुदायेनैवंविधेन हारेण मुक्ताप्राल- म्बेनालिङ्गितमाश्लिष्टं वक्षस्थलं भुजान्तरं यस्य स तथा । सितेति । सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तैर्ग्रथिताभिर्गुम्फिताभिरा- जान्वानलकीलं यावल्लम्बन्त इत्येवंशीला आजानुलम्बिन्यस्ताभिः । इन्दुरिति । इन्दुश्चन्द्रस्तस्य कराः किरणास्तद्वत्कला मनोहरास्ताभिः । वैकक्षेति । वैकक्षमुत्तरीयकं तद्वत्स्थापिताभिः स्रग्भिर्मालाभिर्निर- न्तरं निचितं व्याप्तं शरीरं यस्य तस्य भावस्तत्ता तया । धवलेति । धवलः शुभ्रो यो वेषो नेपथ्यं तस्य परिग्रहः स्वीकारो यस्य तस्य भावस्तत्ता तया । चेति । चकार उभयसमुच्चयार्थः । उभयसमुच्च- येन द्वयोरुत्प्रे [^3]क्षामाह - नरेति । नरसिंह इव नृसिंहावतार इव । कीदृक् । विधूतः कम्पितः केसरनिकरः सटा-
समूहो येन सः । अत्र केसरस्रजोः साम्यम्, वेषशरीरचर्मणोः साम्यं चेति भावः । कैलासेति । कैलास इ
रजताद्रिरिव । एनं विशिष्टि - स्रवदिति । स्रवन्त्याः क्षरन्त्याः स्रोतस्विन्या गङ्गायाः स्रोतोराशि: प्रवाह-
समूहो यस्मिन् । अत्र कैलासवेषयोः साम्यम्, सक्स्रोतखिस्विन्योः साम्यं च दर्शितम् । ऐरावतेति । ऐरावत
इव हस्तिमल्ल इव । एनं विशिनष्टि - मन्दाकिनीति । मन्दाकिन्या गङ्गाया यन्मृणालजालं बिससमूह- स्तेन
जटिलो व्याप्तः । पुनर्धवलवेषसाम्यनिमित्तक मुत्प्रेक्षान्तै [^4]न्त रमाह- क्षीरोदेति । क्षीरोदः क्षीरसमुद्रस्तद्वदिव । एनं
विशेषयन्नाह – स्फुरितेति । स्फुरिता दीप्यमाना ये फेनलवा डिण्डीरांशास्तैरा- कुलो व्याप्तः । तदिति ।
तत्काले तदात्वे प्रतिपन्नः स्वीकृतो वेत्र- दण्डो वेतसयष्टिर्येनैवंविधेन पित्रा जनकेन स्वयमात्मना पुरोऽग्रे प्रारब्धं
प्रस्तुतं समुत्सारणं जननिवारणं येन सः । सभामण्डपमा- स्थानमण्डपमुपगम्य समीपे गत्वा काञ्चनमयं मेरुश्शृङ्
गं स्वर्णा- द्रिशिखरं शशीव हिमद्युतिरिव चन्द्रापीडो युवराट् काञ्चनमयं सिंहासनं नृपासनमारुरोहारूढवान् ।
 
-
 
"
 
आरूढस्य च तदुपविष्टस्य च । अत्र चकारः पुनरर्थकः । अस्य चन्द्रापीडस्य कृतो विहितो यथोचितं
यथायोग्यं सकलराजलोकस्य समप्ग्रनृपजनस्य संमानः सत्कारो येन स तस्य । मुहूर्तं घटिकाद्वयं स्थित्वोप-
टिप्प० -
[^
1]F. प्राञ्चलवर्तिग्यःन्य: सूत्रवार्तिकाः ।
[^
2]F. शुक्लत्वसाम्यादेव सप्तर्षीणामुपमानता ।
[^
3]F. अग्रव-
र्तिन्यः सर्वा उपमाः।
[^
4]F. क्षीरोद इवेत्यप्युपमैव । यदा पूर्वोक्ताः उपमा एकत्रोपमेये संघटितास्तदा सेयं
 
मालोपमा ।
 
पाठा०-[^]G. अभिनव.
[^
]G. कोमलाभिः; कलापकोमलाभि: .
[^
बै]G. वैकक्षक.
[^
]G. विधृत; विधुत: .
[^
]G. फेनतला.
[^]G. आगम्य.
[^
]G. संधान
 
स्य.