2024-03-23 15:54:59 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्य दिग्विजययात्रा ]
 
पूर्वभागः ।
 
बालरचित कर्णपूरः, दीर्घदशमनुपहत मिन्दुधवलं दुकूलयुगलं वसा- नः, पुरोहितप्रतिबद्धप्रतिसर-
प्रसाधितपाणिः, [^१]नवराजलक्ष्मी- कमलिनीमृणालेनाभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेव हारे-

णालिङ्गितवक्षस्थलः, सितकुसुमप्ग्रथिताभिराजानुलम्बिनीभिरिन्दुकरके-
र [^२]क
ला भिर्वैकै [^३]कक्षस्रग्भिर्निर-
न्तरनिचितशरीरतया धवल- वेषपरिग्रहतया च नरसिंह इव [^४]विधूतकेसरनिकरः, कैलास इव स्रव -
त्स्रोतस्विनीस्रोतोराशिः, ऐरावत इव मन्दाकिनी मृणाजा- लजटिलः, क्षीरोद इव स्फुरितफेर्नैल-
[^५]नलवाकुलस्तत्कालप्रतिपन्न- वेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारण: सभामण्डपमु [^६]प- गम्य का-
ञ्चनमयं शशीव मेरुशृङ्गं चन्द्रापीडः सिंहासनमारुरोह ।
 

 
आरूढस्य चास्य कृतयथोचितसकलराज [^७]लोफँसंमानस्य मुहूर्तं स्थित्वा दिग्विजयप्रयाणा-
२३९
 
mi
 
-
 

 
[ टि ]--
किसलयै रचितो निर्मितः कर्णपूरः कर्णावतंसो येन सः । दीर्घेति । दीर्घा आयता दशा [^1]वर्तयो यस्यैवंभूत
मनुपहतमख- ण्डमिन्दुश्चन्द्रस्तद्वद्धवलं श्वेतं दुकूलयुगलं दुगूलयुग्मं वसानो दधानः । पुरो इति । पुरोहितेन
पुरोधसा प्रतिबद्धो यः प्रतिसरीरो हस्तसूत्रं तेन प्रसाधितोऽलंकृतः पाणिर्यस्य सः । राजानं विशिष्टि - नवेति ।

नवा प्रत्यग्रा या राजलक्ष्मीराधिपत्यश्रीः सैवोल्लसत्त्वसाम्यात्कमलि- नी नलिनी तस्या आयतत्वसाम्यान्मृणालेनेव
बिसेनेव । मुक्तासु संक्रा [^2]न्तमुखत्वेनोपमानान्तरमाविः कर्तुमाह - अभीति । अभि- षेकदर्शनार्थं यौवराज्याभि
षेकावलोकनार्थमागतेन प्राप्तेन सप्तर्षि- मण्डलेनेव मरीचिप्रभृतिमुनिसमुदायेनैवंविधेन हारेण मुक्ताप्राल- म्बेनालि-
ङ्गितमाश्लिष्टं वक्षस्थलं भुजान्तरं यस्य स तथा । सितेति । सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तैर्ग्रथि -
ताभिर्गुम्फिताभिर।रा- जान्वानलकीलं यावल्लम्बन्त इत्येवंशीला आजानुलम्बिन्यस्ताभिः । इन्दुरिति । इन्दु-
श्चन्द्रस्तस्य कराः किरणास्तद्वत्कला मनोहरास्ताभिः । वैकक्षेति । वैकक्षमुत्तरीयकं तद्वत्स्थापितांताभिः स्रग्भि-
र्मालाभिर्निर- न्तरं निचितं व्याप्तं शरीरं यस्य तस्य भावस्तत्ता तया । धवलेति । धवलः शुभ्रो यो वेषो नेपथ्र्यं
तस्य परिग्रहः स्वीकारो यस्य तस्य भावस्तत्ता तया । चेति । चकार उभयसमुच्चयार्थः । उभयसमुच्च- येन
द्वयोरुत्प्रे [^3]क्षामाह - नरेति । नरसिंह इव नृसिंहावतार इव । कीदृक् । विधूतः कम्पितः केसरनिकरः सटा-

समूहो येन सः । अत्र केसरस्रजोः साम्यम्, वेषशरीरचर्मणोः साम्यं चेति भावः । कैलासेति । कैलास इन

रजताद्रिरिव । एनं विशिष्टि - स्रवदिति । स्रवन्त्याः क्षरन्त्याः स्रोतस्विन्या गङ्गायाः स्रोतोराशि: प्रवाह-

समूहो यस्मिन् । अत्र कैलासवेषयोः साम्यम्, सक्स्रोतखिन्योः साम्यं च दर्शितम् । ऐरावतेति । ऐरावत

इव हस्तिमल्ल इव । एनं विशिनष्टि - मन्दाकिनीति । मन्दाकिन्या गङ्गाया यन्मृणालजालं बिससमूहस्तेन

जटिलो व्याप्तः । पुनर्धवलवेषसाम्यनिमित्तकमुत्प्रेक्षान्तैरमाह- क्षीरोदेति । क्षीरोदः क्षीरसमुद्रस्तद्वदिव । एनं

विशेषयन्नाह – स्फुरितेति । स्फुरिता दीप्यमाना ये फेनलवा डिण्डीरांशास्तैराकुलो व्याप्तः । तदिति ।

तत्काले तदात्वे प्रतिपन्नः स्वीकृतो वेत्रदण्डो वेतसयष्टिर्येनैवविधेन पित्रा जनकेन स्वयमात्मना पुरोऽग्रे प्रारब्धं

प्रस्तुतं समुत्सारणं जननिवारणं येन सः । सभामण्डपमा स्थानमण्डपमुपगम्य समीपे गत्वा काञ्चनमयं मेरुश्शृङ्ग

स्वर्णाद्रिशिखरं शशीव हिमद्युतिरिव चन्द्रापीडो युवराट् काञ्चनमयं सिंहासनं नृपासनमारुरोहारूढवान् ।
 
-
 

 
-
 
"
 

 
आरूढस्य च तदुपविष्टस्य च । अत्र चकारः पुनरर्थकः । अस्य चन्द्रापीडस्य कृतो विहितो यथोचितं

यथायोग्यं सकलराजलोकस्य समप्रनृपजनस्य संमानः सत्कारो येन स तस्य । मुहूर्त घटिकाद्वयं स्थित्वोप-

टिप्प० - 1 प्राञ्चलवर्तिग्यः सूत्रवार्तिकाः । 2 शुक्लत्वसाम्यादेव सप्तर्षीणामुपमानता । 3 अग्रव-

तिन्यः सर्वा उपमाः। 4 क्षीरोद इवेत्यप्युपमैव । यदा पूर्वोक्ताः उपमा एकत्रोपमेये संघटितास्तदा सेयं
 

 
मालोपमा ।
 

 
पाठा०-१ अभिनव. २ कोमलाभिः; कलापकोमलाभि: ३ बैकक्षक. ४ विधृत; विधुत: ५ फेनतला.

६ आगम्य. ७ संधानस