कादम्बरी /272
This page has not been fully proofread.
चन्द्रापीडस्य दिग्विजययात्रा ]
पूर्वभागः ।
बालरचित कर्णपूरः, दीर्घदशमनुपहत मिन्दुधवलं दुकूलयुगलं वसानः, पुरोहितप्रतिबद्धप्रतिसर-
प्रसाधितपाणिः, नवराजलक्ष्मी कमलिनीमृणालेनाभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेव हारे-
णालिङ्गितवक्षस्थलः, सितकुसुमप्रथिताभिराजानुलम्बिनीभिरिन्दुकरकेला भिर्वैकैक्षस्रग्भिर्निर-
न्तरनिचितशरीरतया धवलवेषपरिग्रहतया च नरसिंह इव विधूतकेसरनिकरः, कैलास इव स्रव -
त्स्रोतस्विनीस्रोतोराशिः, ऐरावत इव मन्दाकिनी मृणाळजालजटिलः, क्षीरोद इव स्फुरितफेर्नैल-
वाकुलस्तत्कालप्रतिपन्नवेत्रदण्डेन पित्रा स्वयं पुरःप्रारब्धसमुत्सारण: सभामण्डपमुपगम्य का-
चनमयं शशीव मेरुशृङ्गं चन्द्रापीडः सिंहासनमारुरोह ।
आरूढस्य चास्य कृतयथोचितसकलराजलोफँसंमानस्य मुहूर्त स्थित्वा दिग्विजयप्रयाणा-
२३९
mi
-
किसलयै रचितो निर्मितः कर्णपूरः कर्णावतंसो येन सः । दीर्घेति । दीर्घा आयता दशा वर्तयो यस्यैवंभूत
मनुपहतमखण्डमिन्दुश्चन्द्रस्तद्वद्धवलं श्वेतं दुकूलयुगलं दुगूलयुग्मं वसानो दधानः । पुरो इति । पुरोहितेन
पुरोधसा प्रतिबद्धो यः प्रतिसरी हस्तसूत्रं तेन प्रसाधितोऽलंकृतः पाणिर्यस्य सः । राजानं विशिष्टि - नवेति ।
नवा प्रत्यग्रा या राजलक्ष्मीराधिपत्यश्रीः सैवोल्लसत्त्वसाम्यात्कमलिनी नलिनी तस्या आयतत्वसाम्यान्मृणालेनेव
बिसेनेव । मुक्तासु संक्रान्तमुखत्वेनोपमानान्तरमाविः कर्तुमाह - अभीति । अभिषेकदर्शनार्थं यौवराज्याभि
षेकावलोकनार्थमागतेन प्राप्तेन सप्तर्षिमण्डलेनेव मरीचिप्रभृतिमुनिसमुदायेनैवंविधेन हारेण मुक्ताप्रालम्बेनालि-
ङ्गितमाश्लिष्टं वक्षस्थलं भुजान्तरं यस्य स तथा । सितेति । सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तैर्ग्रथि -
ताभिर्गुम्फिताभिर।जान्वानलकीलं यावलम्बन्त इत्येवंशीला आजानुलम्बिन्यस्ताभिः । इन्दुरिति । इन्दु-
चन्द्रस्तस्य कराः किरणास्तद्वत्कला मनोहरास्ताभिः । वैकक्षेति । वैकक्षमुत्तरीयकं तद्वत्स्थापितांभिः स्रग्भि-
र्मालाभिर्निरन्तरं निचितं व्याप्तं शरीरं यस्य तस्य भावस्तत्ता तया । धवलेति । धवलः शुभ्रो यो वेषो नेपथ्र्यं
तस्य परिग्रहः स्वीकारो यस्य तस्य भावस्तत्ता तया । चेति । चकार उभयसमुच्चयार्थः । उभयसमुच्चयेन
द्वयोरुत्प्रेक्षामाह - नरेति । नरसिंह इव नृसिंहावतार इव । कीदृक् । विधूतः कम्पितः केसरनिकरः सटा-
समूहो येन सः । अत्र केसरस्रजोः साम्यम्, वेषशरीरचर्मणोः साम्यं चेति भावः । कैलासेति । कैलास इन
रजताद्रिरिव । एनं विशिष्टि - स्रवदिति । स्रवन्त्याः क्षरन्त्याः स्रोतस्विन्या गङ्गायाः स्रोतोराशि: प्रवाह-
समूहो यस्मिन् । अत्र कैलासवेषयोः साम्यम्, सक्स्रोतखिन्योः साम्यं च दर्शितम् । ऐरावतेति । ऐरावत
इव हस्तिमल्ल इव । एनं विशिनष्टि - मन्दाकिनीति । मन्दाकिन्या गङ्गाया यन्मृणालजालं बिससमूहस्तेन
जटिलो व्याप्तः । पुनर्धवलवेषसाम्यनिमित्तकमुत्प्रेक्षान्तैरमाह- क्षीरोदेति । क्षीरोदः क्षीरसमुद्रस्तद्वदिव । एनं
विशेषयन्नाह – स्फुरितेति । स्फुरिता दीप्यमाना ये फेनलवा डिण्डीरांशास्तैराकुलो व्याप्तः । तदिति ।
तत्काले तदात्वे प्रतिपन्नः स्वीकृतो वेत्रदण्डो वेतसयष्टिर्येनैवविधेन पित्रा जनकेन स्वयमात्मना पुरोऽग्रे प्रारब्धं
प्रस्तुतं समुत्सारणं जननिवारणं येन सः । सभामण्डपमा स्थानमण्डपमुपगम्य समीपे गत्वा काञ्चनमयं मेरुश्शृङ्ग
स्वर्णाद्रिशिखरं शशीव हिमद्युतिरिव चन्द्रापीडो युवराट् काञ्चनमयं सिंहासनं नृपासनमारुरोहारूढवान् ।
-
"
आरूढस्य च तदुपविष्टस्य च । अत्र चकारः पुनरर्थकः । अस्य चन्द्रापीडस्य कृतो विहितो यथोचितं
यथायोग्यं सकलराजलोकस्य समप्रनृपजनस्य संमानः सत्कारो येन स तस्य । मुहूर्त घटिकाद्वयं स्थित्वोप-
टिप्प० - 1 प्राञ्चलवर्तिग्यः सूत्रवार्तिकाः । 2 शुक्लत्वसाम्यादेव सप्तर्षीणामुपमानता । 3 अग्रव-
तिन्यः सर्वा उपमाः। 4 क्षीरोद इवेत्यप्युपमैव । यदा पूर्वोक्ताः उपमा एकत्रोपमेये संघटितास्तदा सेयं
मालोपमा ।
पाठा०-१ अभिनव. २ कोमलाभिः; कलापकोमलाभि: ३ बैकक्षक. ४ विधृत; विधुत: ५ फेनतला.
६ आगम्य. ७ संधानस