2024-03-23 13:18:20 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
कादम्बरी ।
उ [ कथायाम्-
उस्ती^१]स्ताभिरुपदेशवाग्भिः प्रक्षालित इबव, उम्मीलित इव, स्वै[^२]स्व च्छींछीकृत इव, निर्मृष्ट इव, अभि-
षिक्त इव, अभिलिप्त इव, अलंकृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो मुहूर्त
तं स्थित्वा स्वभ- वनमाजगाम ।
२२८
ततः कतिपयदिवसापगमे च राजा स्वयमुत्क्षिप्तमङ्गलकलशः सह शुकनासेन पुण्येऽहनि पु-
रोधसा संपादिताशेषराज्याभिषेकमङ्गल- मनेकनरपति सहस्रपरिवृतः सर्वेभ्यस्तीर्थेभ्यः सर्वाभ्यो
नदीभ्यः सर्वे- भ्यश्च सागरेभ्यः समाहृतेन [^३]सर्वौषधिभिः सर्वफलैः सर्वमृद्भिः सर्वरत्नैश्च परिगृही.
तेनानन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुतमभिषिषेच। अभिषेकसलिलाईर्द्रदेहं च तं लतेष
व पाद[^४]पा- न्तरं निजपादपममुखञ्चत्यपि तारापीडं तत्क्षणमेव संचक्राम राज्य- लक्ष्मीः । अनन्तरमखि
लान्तः पुरपरिवृतया च प्रेमार्द्रहृदयया विला- सवत्या स्वयमापादतलादामोदिना चन्द्रातपधवलेन
चन्दनेनानुलि-
प्तमूर्तिः, अभिनवविकै [^५]विकसितसितकुसुमकृतशेखरः, गोरोचना- च्छुरितदेहः, दूर्वाप्र-
[ टि]-- वाग्भिः शिक्षावचनैः प्रक्षालित इव धौत इव, उन्मीलित इव विकसित इव, स्वच्छीकृत इव स्वच्छतां प्रापित
इव, निर्मृष्ट इव मसृणीकृत इव, अभिषिक्त इव स्नपित इव, अभिलिप्त इव प्रलिप्त इव, अलंकृत इव भूषित
इव, पवित्रीकृत इव पावनीकृत इव, उद्भा सित इवोद्दीपित इव । प्रीतेति । प्रीतं संतुष्टं हृदयं चेतो यस्यैवंभूतो
मुहूर्ततं घटिकाद्वयं स्थित्वावस्थानं कृत्वा स्वभवनं निजसद्माजगामा-
ययौ ।
तत इति । ततस्तदनन्तरं कतिपयदिवसाफ्पगमे कियद्वासरातिक्रमे च राजा नृपः सुतं तनयं वारिणा
जलेनाभिषिषेच स्नपयांचकार । राजानं विशिनष्टि-- स्वयमिति । स्वयमात्मनोत्क्षिप्त ऊर्ध्वं नीतो मङ्ग-
लाभिधानः कलशो येन स तथा । शुकनासेन मन्त्रिणा सह पुण्येऽहनि पवित्रे वासरे । सुतं विशेषयन्नाह -
पुरोधसेति । पुरोधसा पुरोहितेन संपादितं विहितमशेषं समग्ररं राज्याभिषेकलक्षणं मङ्गलं यस्य स तम् ।
राजानं विशिवनष्टि --- अनेकेति। अनेके भिन्नभिन्न देशोद्भवा ये नरपतयो राजानस्तेषां सहस्रं तेन परिवृतः
सहितः । जलं विशिनष्टि - सर्वेभ्य इत्यादि । सर्वेभ्यः समप्ग्रेभ्यस्तीर्थेभ्यो माग- धादिभ्यः । सर्वाभ्यो नदी-
भ्यस्तटिनीभ्यः । सर्वेभ्यः सागरेभ्यः । समु- द्रान्तर्वर्तिस्थलेभ्य इत्यर्थः । अन्यथा सागरस्यै [^1]क्याद्बहुवचनम- नर्थकं
स्यात् । समाहृतेनैकीकृतेन । पुनस्तदेव विशिनष्टि - सर्वौष- धीति । सर्वाः समग्रा ओषधयः फलपाकान्ता-
स्ताभिः सर्वफलैः सम- ग्रसस्यैः सर्वमृद्भिः समग्रतीर्थोद्भवमृत्तिकाभिः सर्वरलैःत्नै: समग्रमणि- भिः परिगृहीतेन
स्वीकृतेन । आनन्देति । आनन्दः प्रमोदस्तज्जनितं यद्वाबाष्पजलं तेन मिश्रेण संपृक्तेनेति जलविशेषणम् । मन्त्रेति ।
मन्त्रो देवाधिष्ठातृकस्तेन पूतेन पवित्रेणेति तस्यैव विशेषणम् । अभीति । अभिषेकस्य यौवराज्याभिषेक
स्य यत्सलिलं पानीयं तेनार्द्रः स्विन्नो देहो यस्यैवंभूतं तं चन्द्रापीडं राज्यलक्ष्मीराधिपत्यश्रीः अन्यं पादपं पादपान्तरं
लतेव वल्लीव निजपादपं स्वकीय वृक्ष ममु- ञ्चप्त्यप्यत्यज्य (ज) न्त्यपि तारापीडं तत्क्षणमेव तत्कालमेव संचक्राम
- म प्रविष्टा बभूव । अनन्तरमिति । अनन्तरं यौवराज्याभिषेकानन्त- रम् । अखिलेति । अखिलं यदन्तःपुर-
मवरोधस्तेन परिवृतया सहि- तया प्रेम्णा स्नेहेनाईर्द्रं हृदयं यस्याः सा तया विलासवत्या स्वकीय- जनन्या स्वयमात्म•
नामोदिनामोदः परिमलः स विद्यते यस्मिन्नेतादृ- शेन चन्द्रातपश्चन्द्रगोलि [^2]का तद्वद्धवलेन शुभ्रेण चन्दनेन मलय-
जेनापादतलात् पादतलं मर्यादीकृत्यानुलिप्ता कृताङ्गरागा मूर्तिर्यस्य सः । अभीति । अभिनवानि प्रत्याि
यग्राणि विकमिसितानि विनिद्राणि सितानि श्वेतानि यानि कुसुमानि पुष्पाणि तेषां कृतो विहितः शेखरोऽवतंसो यस्य
सः । गोरेति । गोरोचनेनाच्छुरितर- [^3]श्छुटितो देहो यस्य सः । दूर्वेति । दूर्वा शतपर्विका तस्याः प्रवालैः
टिप्प०-
[^1]F. विरुद्धमिदम् । सप्त सागरा इति प्रसिद्धेः । 'सिन्धु' संज्ञया सप्तसंख्या प्रसिद्धैव ।
[^2]F. चन्द्रकिरणाः, चन्द्रिका ।
[^3]F. लिप्तः, रञ्जितः ।
पाठा
-
[^१]G. ताभिरमलाभिरुपदेश.
[^२]G. स्वस्थीकृतः, .
[^३]G. सर्वौषधीभिः .
[^४]G. निजपादपं पादपान्तरम्; पादपं निज-
पादपान्तरम्.
[^५]G. विकसितकुसुम .
[^६]G. गोरचना.