2024-03-21 07:17:12 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
विषयैः, [^१]नावकृष्यसे रो[^२]रागेण, [^३]नापहिह्रियसे सुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा [^४]
समारोपितसंस्कारः, तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि, तथापि भवद्गुणसंतोषो
मॉ

[^५]मा
मेवं मुखरीकृतवान् । इदमेव च पुनःपुनरभिधीयसे । विद्वां- समपि सचेतनमपि महासत्व-
मध्
मप्यभिजातमपि धीरमपि प्रयत्नवन्त- मपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति
सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवा [^६]न्नवयौवराज्याभिषेकम [^७]ङ्ग लम् । कुलक्रमाग-
तामुद्ह पूर्वपुरुषैरूढां धुरम् । अवनमय द्विषतां शिरांसि । उन्नमय [^८]स्वबन्धुवर्गम् । अभि-
षेकानन्तरं च प्रारब्ध- दिग्विजय: परिभ्रमन्विजितामपि ते[^९]तव पित्रा सप्तद्वीपेंप [^१०]भू- षणां पुनर्वि-
जयस्व वसुंधराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरूढप्रतापो रौ[^११]राजा त्रैलोक्य-
दर्शीव सिद्धादेशो भवति' इत्येतावदभिधायोपशशाम । उपशान्तर्वे [^१२]वचसि शुकनासे चन्द्रापी-

 

 
[ टि ]--
परित्यज्यसे । काममत्यर्थं सकलशास्त्रवेत्तृभिः शिक्षिते त्वय्युपदेशो व्यर्थ इत्यर्थः । पुराह - प्रत्येति ।
प्रकृत्या स्वभावेन धीरो धैर्यवान् । यद्यपीति पूरणीयम् । कीदृक् । पित्रा चेति । पित्रा चकारान्मयापि समा
रोपिता विहिताः [^1]संस्कारो जातकर्मादयः । अथ च तत्तद्गुणविशेषाश्च यस्यैवंभूतः । अथवान्यदप्याह - तर
-
लेति । तरलं चञ्चलं हृदयं चेतो यस्य स तमप्रतिबुद्धं बोधरहितं च पुरुषं धनानि द्रव्याणि मदयन्ति मदं
जनयन्ति । अहं तु न तथानुन- यामीति । येनोपदेशः सार्थकः स्यादिति तदभिप्रायमाशङ्कयोत्तरमा- ह -तथा-
पीति । अनुपदेश्यत्वेऽपि भवद्गुणैः शौर्यादिभिर्यः संतोषो मनसस्तुष्टिर्मा शुकनासमेवं पूर्वोक्तप्रकारेण मुखरी-
कृतवांस्तादृग्वा- ग्व्यापारे प्रवर्तितवान् । अहार्यविपरीतशङ्कानिवृत्तयेऽयमुपदेश इत्य त आह - इदमेवेति । इदं
पूर्वोक्तं पुनःपुनर्वारंवारमभिधीयसे कथ्य- से । अहार्यशङ्कामुद्घाटयती – विद्वांसमिति । विद्वांसमपि पण्डितमपि
- तमपि सचेतनमपि ज्ञानवन्तमपि महासत्त्वमपि महासाहसमप्यभि- जातमपि कुलीनमपि धीरमपि धैर्यवन्तमपि प्रयन-
त्नवन्तमप्युद्योगयु- क्तमपि पुरुषं लक्ष्मीः श्रीः खलीकरोति सन्मार्गात्स्खलनां प्रापयति । अत्र सर्वत्रापिशब्दः कैमु
तिकन्यायपरः । अयमप्येवं करोति । अन्य- स्य का वार्तेत्यर्थः । तत्र हेतुमाह - यत इयं दुर्विनीता । अपगत-

विनयेत्यर्थः । भवा॑वांस्त्वं पित्रा जनकेन कल्याणैर्मङ्गलैः क्रियमाणं विधीयमानं नवयौवनस्य यो राज्याभिषेकस्तल्ल -
क्षणं यन्मङ्गलं श्रेयोऽनुभवत्वनुभवविषयीकरोतु । पूर्वं पुरुषैरूढां कुलक्रमागतां परंपरायातां धुरं राज्यभारमुद्वहो
द्वहनं कुरु । अवेति । द्विषतां शत्रूणां शिरांस्युत्तमाङ्गान्यवनमय नम्राणि कुरु । स्वबन्धुवर्ग स्वज-
नसमुदाय
मुन्नमयोर्ध्वीकुरु । अभीति । अभिषेकानन्तरं यौवराज्या- भिषेकादनु । प्रारब्धेति । प्रारब्धः प्रस्तुतो
दिग्विजयो येन सः परि- भ्रमन्त्प्रतिदिशं दिशं दिशं प्रति गच्छंस्तव पित्रा त्वज्जनकेन विजिता मपि स्वायत्तीकृता-
मपि सप्तद्वीपभूषणां सप्तसंख्याका द्वीपा जम्बू- प्रभृतयो भूषणं यस्या एवंविधां वसुंधरां पुनर्द्वितीयवारं विजय
`
स्व
स्वायत्तीकुरु । यमिति । प्रतापं कोशदण्डजं तेज आरोपयितुं लब्धास्पदं कर्तुं ते तवायं कालः समयः
समागत इति शेषः । तस्य फलं प्रदर्शयन्नाह - आरूढेति । आरूढो लब्धास्पदः प्रतापो यस्यै- वंभूतो राजा
त्रैलोक्यदशींर्शीव योगीव सिद्धो निष्पन्न आदेश आज्ञा यस्य स तथा त्रिकाललोक्यदर्यपिशीव सिद्धादेशो भवति । यथा
वदति तथैव भवतीत्यर्थः । इतीति । इति परिसमाप्तौ । एतावन्मात्रमभिधायो क्त्वो पशशाम विरता
बभूव । उपेति । उपशान्तवचस्युपरतवाग्व्या- पारे तस्मिञ्शुकनासे सति चन्द्रापीडस्ताभिः पूर्वोक्ताभिरुपदेश-
टिप्प० -

 
[^
1]F. समारोपितः शिक्षार्पणैः संस्थापितः संस्कारः सर्वविषयज्ञानं यस्य सः । इत्यर्थ उचितः ।
 
पाठा० -

 
[^
]G. विकृष्यसे; रज्यसे; आकृष्यसे.
[^
]G. राग:.
[^३]G.
उपहिह्रियसे.
[^
]G. च महता प्रयत्नेन.
[^
]G. एव.
[^
नव-
]G. नवयौवन; यौवन.
[^
]G. अनेकमङ्गलम् .
[^
]G. बन्धुवर्गम् .
[^
]G. भवत् .
[^
१०]G. द्वीपसमुद्रभूषणाम्.
[^
११]G. हि राजा.
[^
१२]G. वचने.