कादम्बरी /270
This page has not been fully proofread.
शुकनासोपदेशः ]
पूर्वभागः ।
विषयैः, नावकृष्यसे रोगेण, नापहियसे सुखेन । कामं भवान्प्रकृत्यैव धीरः, पित्रा च
समारोपितसंस्कारः, तरलहृदयमप्रतिबुद्धं च मदयन्ति धनानि, तथापि भवगुणसंतोषो
मॉमेवं मुखरीकृतवान् । इदमेव च पुनःपुनरभिधीयसे । विद्वांसमपि सचेतनमपि महासत्व-
मध्यभिजातमपि धीरमपि प्रयत्नवन्तमपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति ।
सर्वथा कल्याणैः पित्रा क्रियमाणमनुभवतु भवानवयौवराज्याभिषेकमङ्गलम् । कुलक्रमाग-
तामुद्रह पूर्वपुरुषैरूढां धुरम् । अवनमय द्विषतां शिरांसि । उन्नमय स्वबन्धुवर्गम् । अभि-
•षेकानन्तरं च प्रारब्धदिग्विजय: परिभ्रमन्विजितामपि तेव पित्रा सप्तद्वीपेंभूषणां पुनर्वि-
जयस्व वसुंधराम् । अयं च ते कालः प्रतापमारोपयितुम् । आरूढप्रतापो रौजा त्रैलोक्य-
दर्शीव सिद्धादेशो भवति' इत्येतावदभिधायोपशशाम । उपशान्तर्वेचसि शुकनासे चन्द्रापी-
•
परित्यज्यसे । काममत्यर्थं सकलशास्त्रवेत्तृभिः शिक्षिते त्वय्युपदेशो व्यर्थ इत्यर्थः । पुमराह - प्रत्येति ।
प्रकृत्या स्वभावेन धीरो धैर्यवान् । यद्यपीति पूरणीयम् । कीदृक् । पित्रा चेति । पित्रा चकारान्मयापि समा•
रोपिता विहिताः संस्कारो जातकर्मादयः । अथ च तत्तद्गुणविशेषाश्च यस्यैवंभूतः । अथवान्यदप्याह - तर
लेति । तरलं चञ्चलं हृदयं चेतो यस्य स तमप्रतिबुद्धं बोधरहितं च पुरुषं धनानि द्रव्याणि मदयन्ति मदं
जनयन्ति । अहं तु न तथानुनयामीति । येनोपदेशः सार्थकः स्यादिति तदभिप्रायमाशङ्कयोत्तरमाह -तथा-
पीति । अनुपदेश्यत्वेऽपि भवद्गुणैः शौर्यादिभिर्यः संतोषो मनसस्तुष्टिर्मा शुकनासमेवं पूर्वोक्तप्रकारेण मुखरी-
कृतवांस्तादृग्वाग्व्यापारे प्रवर्तितवान् । अहार्यविपरीतशङ्कानिवृत्तयेऽयमुपदेश इत्यत आह - इदमेवेति । इदं
पूर्वोक्तं पुनःपुनर्वारंवारमभिधीयसे कथ्यसे । अहार्यशङ्कामुद्घाटयती – विद्वांसमिति । विद्वांसमपि पण्डितमपि
सचेतनमपि ज्ञानवन्तमपि महासत्त्वमपि महासाहसमप्यभिजातमपि कुलीनमपि धीरमपि धैर्यवन्तमपि प्रयन-
वन्तमप्युद्योगयुक्तमपि पुरुषं लक्ष्मीः श्रीः खलीकरोति सन्मार्गात्स्खलनां प्रापयति । अत्र सर्वत्रापिशब्दः कैमु
तिकन्यायपरः । अयमप्येवं करोति । अन्यस्य का वार्तेत्यर्थः । तत्र हेतुमाह - यत इयं दुर्विनीता । अपगत-
विनयेत्यर्थः । भवा॑स्त्वं पित्रा जनकेन कल्याणैर्मङ्गलैः क्रियमाणं विधीयमानं नवयौवनस्य यो राज्याभिषेकस्तल्ल -
क्षणं यन्मङ्गलं श्रेयोऽनुभवत्वनुभवविषयीकरोतु । पूर्व पुरुषैरूढां कुलक्रमागतां परंपरायातां धुरं राज्यभारमुद्वहो
द्वहनं कुरु । अवेति । द्विषतां शत्रूणां शिरांस्युत्तमाङ्गान्यवनमय नम्राणि कुरु । खबन्धुवर्ग स्वजनसमुदाय •
मुनमयोवीकुरु । अभीति । अभिषेकानन्तरं यौवराज्याभिषेकादनु । प्रारब्धेति । प्रारब्धः प्रस्तुतो
दिग्विजयो येन सः परिभ्रमन्त्रतिदिशं दिशं दिशंप्रति गच्छंस्तव पित्रा त्वज्जनकेन विजितामपि स्वायत्तीकृता-
मपि सप्तद्वीपभूषणां सप्तसंख्याका द्वीपा जम्बूप्रभृत भूषणं यस्या एवंविधां वसुंधरां पुनर्द्वितीयवारं विजयव
`स्वायत्तीकुरु । यमिति । प्रतापं कोशदण्डजं तेज आरोपयितुं लब्धास्पदं कर्तुं ते तवायं कालः समयः ॥
समागत इति शेषः । तस्य फलं प्रदर्शयन्नाह - आरूढेति । आरूढो लब्धास्पदः प्रतापो यस्यैवंभूतो राजा
त्रैलोक्यदशींव योगीव सिद्धो निष्पन्न आदेश आज्ञा यस्य स तथा त्रिकालदर्यपि सिद्धादेशो भवति । यथा
वदति तथैव भवतीत्यर्थः । इतीति । इति परिसमाप्तौ । एतावन्मात्रमभिधायोक्त्वो शाम विरता
बभूव । उपेति । उपशान्तवचस्युपरतवाग्व्यापारे तस्मिञ्शुकनासे सति चन्द्रापीडस्ताभिः पूर्वोक्ताभिरुपदेश-
टिप्प० -1 समारोपितः शिक्षार्पणैः संस्थापितः संस्कारः सर्वविषयज्ञानं यस्य सः । इत्यर्थ उचितः ।
पाठा० -१ विकृष्यसे; रज्यसे; आकृष्यसे. २ राग: १ उपहियसे. ४ च महता प्रयत्नेन. ५ एव. ६ नव-
यौवन; यौवन॰ ७ अनेकमङ्गलम् ८ बन्धुवर्गम् ९ भवत् १० द्वीपसमुद्रभूषणाम्. ११ हि राजा. १२ वचने.