कादम्बरी /27
This page has been fully proofread twice.
त्प्रभृति न मनागप्यपरः पुमांश्चिन्तितस्तर्हि शुक इव परप्रणोदितं जल्पन्नयं तस्यामेव जातौ पततु ' इत्यशपम् । स तु मद्वचनानन्तरमेव छिन्नमूलस्तरुरिवा चेतनः क्षितावपतत्' ।
एतदाकर्ण्यैव कादम्बरीविरहदुःखेन पूर्वमेव भेदोन्मुखं चन्द्रापीडस्य हृदयं सहसाऽस्फुटत् । अनेनानर्थेन हा किमिदमिति मुक्ताक्रन्दायां तरलिकायाम्, स्तब्धदृष्टिनिश्चेष्टायां महाश्वेतायाम्,
नानाविधं विलपत्सु चन्द्रापीडपरिजनेषु, केयूरकाञ्चन्द्रापीडागमन- माकर्ण्य तद्दर्शनोत्कलिकावगृहीता कादम्बरी पत्रलेखाहस्तावलम्बिनी तत्रैवाजगाम । सा तून्मुक्तजीवितं तमालोक्य निश्चलस्तब्धदृष्टिर्न व्यलपन्न रुरोद । अनुमरणाय कृताध्यवसाया सा यावच्चंन्द्रापीडचरणौ स्पृशति तावदेव
तत्करस्पर्शादुच्छ्वसत इव चन्द्रापीडदेहात्किमपि चन्द्रधवलं ज्योतिरुज्जगाम, अन्तरिक्षे चाशरीरिणी वागश्रूयत — 'वत्से महाश्वेते, पुनरपि त्वं मयैव समाश्वासयितव्या वर्तसे । तत्ते पुण्डरीकशरीरं मल्लोके मत्तेजसाऽऽप्याय्यमानं भूयस्त्वत्समागमाय तिष्ठत्येव । इदमपरं मत्तेजोमयं चन्द्रापीडस्य
शरीरं शापदोषादात्मशून्यमपि, कृतशरीरान्तरसंक्रान्तेर्योगिन इवाऽत्रैव भवत्योः प्रत्ययार्थमा शापक्षयादास्ताम् । नेदमग्निना संस्कर्तव्यम् । यत्नतः पालनीयमा समागमप्राप्तेः' ।
अथ किमेतदिति विस्मयाक्षिप्तहृदयेषु सर्वेषु, आविष्टेव पत्रलेखा 'विनां वाहनमेकाकिनि प्रस्थिते देवे, न क्षणमपि शोभसे त्वम्' इतीन्द्रायुधमाकर्षन्ती सह तेनाच्छोदसरस्यपतत् । तत्क्षणमेव च तस्मादच्छोदाम्भसो निर्गत्य कपिञ्जलो महाश्वेतामुपजगाम । सप्र- हर्षं कृतवन्दनया तया सर्वं वृत्तजातं पृष्टोऽसौ जगाद - "-"क्व मे प्रियसुहृदमपहृत्य गच्छसि' इत्यभिधाय पुण्डरीकशरीरमुत्क्षिपन्तं तं पुरुषमनुबध्नन्नहं तेन सह चन्द्रलोकं गतोऽस्मि । पुरुषोसौ स्वयं चन्द्रमाः । असौ तच्छरीरं पर्यङ्के स्थापयित्वा मामवादीत् – "कपिञ्जल ! जानीहि मां चन्द्रमसम् । अनेन ( पुण्ड.) हि स्वव्यापारमनुतिष्ठन्नहम् 'यथाहमप्राप्तप्रियासमागम एव त्वया प्राणैर्वियोजितस्तथा त्वमपि कर्मभूमिभूतेऽस्मिन्भारते जन्मनि जन्मन्येवोत्पन्नानुरागोऽप्राप्तप्रियासमागमो जीवितमुत्स्रक्ष्यसि' इति निरपराधमेव शप्तः । शापक्रोधाज्ज्वलितोहम् 'त्वमपि मत्तुल्यदुःखसुख एव भविष्यसि' इति प्रतिशापमस्मै प्रायच्छम् । अपगतामर्षश्च महाश्वेताव्यतिकरं विवेकेन विचार्य दयमानहृदयोहम्, मद्दत्तशापदोषमोचनपर्यन्तमस्य शरीरं मा व्यनशदिति शरीरमिदमानैषमहम् । वत्सा च महाश्वेता समाश्वासिता । तदनेन स्वयंकृतादात्मदोषान्मया सह मर्त्यलोके जन्मनि जन्मनीति वीप्सावशाद्, वारद्वयमवश्यमुत्पत्तव्यम् । त्वमिदं वृत्तं प्रतिकारं कर्तुं श्वेतकेतवे निवेदय" ।
अहं तु वयस्यशोकान्धतया सुरवर्त्मनि धावनेन वैमानिकमेकं लङ्घयन्, क्रोधोद्दीप्तेन तेन- 'तुरङ्गम इव मामवहेलयन् तुरङ्गम एव भूत्वा त्वं मर्त्यलोकेऽवतर' इति शप्तोऽस्मि । शापप्रतिसंहाराय बहुशः कृतानुनयोसौ जगाद – 'उज्जयिन्यामपत्यहेतोस्तपस्यत- स्तारापीडनाम्नो राज्ञश्चन्द्रमसा तनयत्वमुपगन्तव्यम् । वयस्येनापि ते पुण्डरीकेण तन्मन्त्रिण एव शुकनासस्य ( तनयत्वम् ) । त्वमपि तस्य चन्द्रात्मनो राजपुत्रस्य वाहनतामुपगत्य सहचारी भविष्यसि ।' अहं तु तद्वचनानन्तरमेव महोदधौ निपत्य तुरगीभूयोदतिष्ठम् । पूर्वजन्मप्रभावात्सर्वं स्मरन्नहमेव किन्नरयुग्मानुसरणप्रसङ्गेन चन्द्रावतारं चन्द्रापीडमिहाऽऽनयम् । योसौ प्राक्तनसंस्कारात्वा- मभिलषन् त्वया शापाग्निना दग्धः सोपि मे सुहृद: पुण्डरीकस्यावतारः" ।