This page has not been fully proofread.

कादम्बरी ।
 
[ कथायाम्-
२३६
 
स्तौति, यो वा माहात्म्यमुद्भावयति । किंवा तेषां सांप्रतं येषामतिनृशंसप्रायोपदेशनिर्घृणं
कौटिल्यशास्त्रं प्रमाणम्, अभिचारक्रियाः क्रूरैकप्रकृतयः पुरोधसो गुरवः, पराभिसंधान-
परा मन्त्रिण उपदेष्टारः, नरपतिसहस्रभुक्तोज्झितायां लक्ष्म्यामासक्तिः, मारणात्मकेषु शस्त्रे-
ध्वभियोगः, सहजप्रेमार्द्रहृदयानुरक्ता भ्रातर उच्छेद्याः ।
 
तदेवप्रायातिकुँटिलकष्टचेष्टा सहस्रदारुणे राज्यतोऽस्मिन्महामोहकारिणि चं यौवने
कुमार ! तथा प्रयतेथा यथा नोपहस्यसे जनैः, न निन्द्यसे साधुभिः, न धिक्रियसे गुरुभिः,
नोपलभ्यसे सुहृद्भिः, न शोच्य विद्वद्भिः, यथा च न प्रकाश्य से विटैः, न प्रतार्यसेऽकु-
शलैः, नास्वायसे भुजङ्गैः, नावलुप्यसे सेवकवृकैः, न वयसे धूर्तेः, न प्रलोभ्यसे वैनि-
ताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे
 
मित्र स्तौति नीति । यो वेति । यो माहात्म्यं तद्गुणवर्णनालक्षणमुद्भावयत्युद्भावनां करोति । विभूतिमतां
पुनर्दोषान्तरमाह - किं वेति । तेषां विभूतिमतां वाथवा किं सांप्रतं युक्तं येषां विभूतिमतामतिनृशंसप्रायो-
• ऽतिनिस्त्रिंशबहुल उपदेशः शिक्षा निर्गता घृणा दया यस्मादेतादृशं कौटिल्यशास्त्रं यामलादि प्रमाणमिति ।
अभिचारक्रिया कृत्याप्रतिकृत्यादिरूपक्रिया । क्रूरेति । क्रूरा निस्त्रिंशैकाद्वितीया प्रकृतिः स्वभावो येषामेवंविधाः
पुरोधसः पुरोहिता गुरवो धर्मोपदेशकाः । परेषामितरेषामभिसंधानं निरोधस्तत्र परास्तत्परा मन्त्रिणः सचिवा
उपदेष्टारः शिक्षादायकाः । नरेति । नरपतीनां यत्सहस्रं तेन भुक्ता चासावुज्झिता त्यक्ता चेति कर्मधारयः ।
एवंविधायां लक्ष्म्यामासक्तिः प्रेमाधिक्यम् । मारणेति । मारणं व्यापादनं तदेवात्मा स्वरूपं येषां तथाविधेषु
शास्त्रेष्वभियोग उद्यमः । सहेति । सहजं स्वारसिकं यत्प्रेम तेनार्द्रं स्विन्नं हृदयं येषामत एवानुरक्ता एतादृशा
भ्रातरः सहोदरा उच्छेद्या मूलत उन्मूलनीयाः ।
 

 
प्रकृतमुपसंहरन्नाह - तदेवमिति । तदिति हेत्वर्थे । एवंप्राये पूर्वोक्तस्वरूपबहुले । अतीति । अतिकुटिला
अतिवक्राः कष्टदायिन्यश्चेष्टाः कायव्यापारास्तासां सहस्रं तेन दारुणे भीषणे । राज्यतन्त्र इति । राज्यस्य तन्त्रं
इतिकर्तव्यता । 'इतिकर्तव्यता त इत्यनेकार्थः । अस्मिन्ननुभूयमाने यौवने तारुण्ये च महामोहकारिणि
महामौढ्यजनके । कुमारेति संबोधनम् । तथेति । तेनैव प्रकारेण प्रयतेथाः प्रयत्न कृथाः । यथा येन प्रकारेण
जनैर्लोकैर्भवांस्त्वं नोपहस्यसे न उपहासविषयीक्रियसे । साधुभिः सज्जनैर्न निन्यसे न निन्दाविषयीक्रियसे ।
गुरुभिर्धर्माचार्यैर्न धिक्कियसे न धिग्जीवितमित्यादिवाक्यगोचरीक्रियसे । सुहृद्धिर्मित्रैर्नोपालभ्यसे नोपलभ्भ-
विषयीक्रियसे । विद्वद्भिः पण्डितैर्न शोच्यसे न शोकविषयीक्रियसे । यथा विटैरसदाचरणकारिभिर्न प्रकाश्यसे न
प्रक्टीक्रियसे । अकुशलैरनाचारादिभिर्न प्रतार्यसे न प्रतारणाविषयी क्रियसे । भुजङ्गैर्गणिकापतिभिर्नास्वाद्यसे
गणिका द्रव्यवितरणद्वारा नोपभोज्यसे । सेवकाः सपर्याकारिण एव वृका ईहामृगास्तैर्नावलुप्यसे नानिष्टे प्रस-
ज्यसे । नाकुलीक्रियस इत्यर्थः । धूर्तेः शरैर्न वञ्चयसे न प्रतार्यसे । वनिताभिः स्त्रीभिर्न प्रलोभ्यसे न प्रलोभना-
विषयः क्रियसे । लक्ष्म्या श्रिया न विडम्ब्यसे न विडम्बनायुक्तः क्रियसे । न परित्यज्यस इत्यर्थः । मदेनाधि-
पत्यजनिताहंकारेण न नर्त्यसे न नृत्यं कार्यसे । मदनेन मनोभवेन न उन्मत्तीक्रियसे न चित्तविलवतामापाद्यसे ।
विषयैरिन्द्रियार्थैर्नाक्षिप्यसे न प्रेर्यसे । रागेण स्नेहादिना न विकृष्यसे नाकृष्यसे । सुखेन सातेन नापहियसे न
 
टिप्प० - 1 चाणक्यादिप्रणीतं नीतिशास्त्रम् । 2 श्येनयागादिरूपपरवधजनकक्रूरकृत्यम् । 3 प्रता-
रणम् । 4 बिटै स्वसमानतया जनसमाजे न प्रकटीक्रियसे इति तात्पर्यम् । 5 'न प्रहस्से कुशलैः'
इत्येव पाठः । अकुशलानां प्रतारणसामर्थ्यमेव कथमिति नास्मिन्पाठे स्वारस्यम् ।
 
पाठा० -१ असांप्रतम्. २ प्रायोपदेश. ३ शास्त्रेषु. ४ एवंप्राये. ५ कुटिलकुचेष्टा; कुटिलचेष्टा. ६ मोद्दा
न्धकारिणि ७ तथातथा. ८ यथायथा. ९ जनेन. १० उपलभ्यसे. ११ प्रहस्यसे. १२ सर्ववनिताभिः•