2024-03-20 02:55:24 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दर्शन [^१]प्रदानमप्यनुग्रहं गणयन्ति। दृष्टिपातमप्युपकारपक्षे स्था- पयन्ति । संभाषणमपि संविभागमध्ये कुर्वन्ति । आज्ञामपि वरप्रदा- नं मन्यन्ते । [^२]स्पर्शमपि पावनमाकलयन्ति । मिथ्यामाहात्म्य- गर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति [^३]द्विजातीन्, न मानयन्ति मान्यान् नार्चयन्त्यर्चनीयान्, नांभिवादयन्त्यभिवादनान्, नाभ्युत्तिष्ठन्ति गुरून् । अनर्थकाया सान्तरितो [^४]पभोगसुखमि- त्युपहसन्ति विद्व [^५]ज्जनम्, जरावैक्लव्यप्रलपितमिति [^६]पश्य न्ति [^७]वृद्धोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदे- शाय, कुप्यन्ति हितवादिने । सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते, तस्मै ददति, [^८]'तं मित्रता [^९]मुपजनयन्ति, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते, तमाप्ततामापाद [^१०]यन्ति, योऽहर्निश- मनवरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्य कर्तव्यः
 
[ टि ]-- स्वललाटं निजालिकमाशङ्कन्त आरेकाविषयीकुर्वते । दर्शेति । लोकानां दर्शनप्रदानं स्वात्मप्रकटनमनुग्रहं प्रसादं गण- यन्ति मन्यन्ते । दृष्टीति । दृष्ट्याश्चक्षुषः पातमवलोकनं तदप्युपका- रपक्ष उपकृतिपक्षे स्थापयन्ति निक्षिपन्ति । संभाषेति । संभाषणं जल्पनं तदपि संविभागः पारितोषिकं दानं तन्मध्ये कुर्वन्ति । पारितोषिकतुल्यं गणयन्तीत्यर्थः । आज्ञामिति । आज्ञामपि निदेश- मपि वरप्रदानं समीहितप्रदानं मन्यन्ते जानन्ति । स्पर्श: संश्लेष- स्तदपि पावनं पूतं पवित्रमाकलयन्ति विचारयन्ति । मिथ्येति । मिथ्या वृथा यो माहात्म्यगर्वो माहात्म्याभिमानस्तेन निर्भरा भृता देवताभ्योऽर्ह [^1]भ्द्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजेति । द्विजातींस्त्रयीमुखान्न पूजयन्ति वस्त्रपात्रादिप्रदानेन न सत्कुर्वन्ती- त्यर्थः । मान्यानिति । मान्यान्माननीयान्नमानयन्ति न संमानं ददते । नेति । अर्चनीयानर्चायोग्यानार्चयन्ति नार्चां कुर्वन्ति । नेति । अभि-
वादनार्हानुपसंग्रहयोग्यान्नाभिवादयन्ति न पादग्रहणं कुर्वन्ति । नेति । गुरून्हिताहितप्राप्तिपरिहारोपदेष्टॄन् न अभ्युत्तिष्ठन्ति नाभ्युत्थानं कुर्वन्ति । अनर्थकेति । अनर्थको निष्फलो य आयासः प्रयासः श्रौतस्मात-
र्तकर्मणि क्लेशस्तेनान्तरितं व्यवहितमुपभोगोऽङ्गनादिकस्त - स्तज्जनितं सुखं सातं यस्येति कृत्वा विद्वज्जनं
विबुधजनमुपहसन्त्यु- पहासं कुर्वन्ति । जरेति । जरा विस्रसा तस्या वैक्लव्यं विकलता तेन प्रलपितं जल्पित
मिति कृत्वा वृद्धानां स्थविराणामुपदेशं शिक्षां पश्यन्ति । जानन्तीत्यर्थः । आत्मेति । आत्मनः स्वस्य या
प्रज्ञा बुद्धि- स्तस्याः परिभवः पराभव इति कृत्वा सचिवोपदेशाय प्रधानशिक्षाया असूयन्त्यसूयां कुर्वन्ति ।
हितेति । हितवादिने यथास्थितवादिने कुप्यन्ति कोपं कुर्वन्ति । सचिवोपदेशाय हितवादिन इति चतुर्थी-
द्वयमपि 'कुधद्रुह' इत्यादिना संप्रदानसंज्ञायां सत्यां ज्ञेयम् । एतादृशं पुरुषं सर्वथा स्तुवन्तीत्याशयेनाह -
तमिति । तं पुरुषं सर्वथा सर्व- प्रकारेणाभिनन्दन्ति प्रशंसन्ति । तमालपन्त्यालापं कुर्वन्ति । तं पुरुषं पार्श्वे
समीपे कुर्वन्ति रक्षन्ति । तं संवर्धयन्ति वृद्धिधिं प्रापयन्ति । तेनेति । तेन पुरुषेण सह् सुखं यथा स्यात्तथाव-
तिष्ठन्तेऽवस्थानं कुर्वन्ति । तस्मायिति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तमिति । तं [^2]पुरुषं प्रति मित्रतां
सुहृद्भावतामुपजनयन्ति निष्पादयन्ति । तस्येति । तस्य पुरुषस्य वचनं वाक्यं शृण्वन्ति । तत्रेति । तस्मिन्पुं- सि
वर्षन्ति पुनःपुनः प्रदानं कुर्वन्ति । तं पुरुषं बहु मन्यन्ते । अत्यु- त्कृष्टतया जानन्तीत्यर्थः । तमिति । तं प्रत्याप्ततां
शिष्टतामापादय- न्ति प्रतिपादयन्ति । तच्छब्दस्य यच्छन्दसापेक्षत्वादाह
- य इति । यः पुमानहर्निशमहोरात्रं
अनवरतं निरन्तरं विगतमन्यकर्तव्यं यस्यैवंभूत उपरचिताञ्जलिः संयोजितकरपुटोऽधिदैवतमिवेष्टदेवता-
टिप्प० –
[^
1]F. इति तु टीकाकारस्य कृपा हरिहरादिदेवेभ्य इत्यर्थः ।
[^2]F.
वस्तुतस्तु 'तं मित्रतामुप
नयन्ति' तं जनं मित्रत्वं प्रापयन्तीति पाठः, तदर्थश्च ।
 
पाठा०-
-
[^]G. प्रदाने.
[^
]G. संस्पर्शनम् .
[^
]G. द्विजान्.
[^
]G. विषयोपभोग.
[^
]G. विद्वज्जनशीलम् .
[^
नं]G. न पश्यन्ति.
[^]G. वृद्धजनोपदेशम् .
[^
]G. तस्य मन्त्रिताम् .
[^
]G. उपनयन्ति.
[^
१०]G. तमात्मनापादयन्ति तस्माद्विबिभ्यति.