2024-03-19 12:21:43 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासोपदेशः दर्शन [^१]
 
पूर्वभागः ।
 
२१५
 
दर्शन
प्रदानमध्प्यनुग्रहं गणयन्ति । दृष्टिपातसंप्युपकारपक्षे स्था- पयन्ति । संभाषणमपि संवि-
भागमध्ये कुर्वन्ति । आशाज्ञामपि वरप्रदा- नं मन्यन्ते । स्पे[^२]स्पर्शमपि पावनमाकलयन्ति । मिथ्या-
माहात्म्य- गर्वनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति [^३]द्विजातीन्, न मानयन्ति
मान्यान् नार्चयन्त्यर्चनीयान्, नांभिवादयन्त्यभिवादनान्, नाभ्युत्तिष्ठन्ति गुरून् ।
अनर्थंकाया सान्तरितो [^४]पभोगसुखमि- त्युपहसन्ति विद्व [^५]ज्जैनम्, जरावैकुक्लव्यप्रलपितमिति [^६]पश्यन्ति
न्ति [^७]वृद्धोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदे- शाय, कुप्यन्ति हितवादिने । सर्वथा
तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते,
तस्मै ददति, [^८]'तं मित्रता [^९]मुपजनयन्ति, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते,
तमाप्ततामापाद [^१०]यन्ति, थोयोऽहर्निशमन - मनवरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्य कर्तव्यः
 
9
 

 
[ टि ]-- स्वल
लाटं निजालिकमाशङ्कन्त आरेकाविषयी कुर्वते । दर्शेति । लोकानां दर्शनप्रदानं स्वात्मप्रकटनमनुग्रहं
प्रसादं गण- यन्ति मन्यन्ते । दृष्टीति । दृष्ट्याश्चक्षुषः पातमवलोकनं तदप्युपका- रपक्ष उपकृतिपक्षे स्थापयन्ति
निक्षिपन्ति । संभाषेति । संभाषणं जल्पनं तदपि संविभागः पारितोषिकं दानं तन्मध्ये कुर्वन्ति । पारितोषि-
कतुल्यं गणयन्तीत्यर्थः । आशाज्ञामिति । आज्ञामपि निदेश- मपि वरप्रदानं समीहितप्रदानं मन्यन्ते जानन्ति ।
स्पर्श: संश्लेष- स्तदपि पावनं पूतं पवित्रमाकलयन्ति विचारयन्ति । मिथ्येति । सिध्मिथ्या वृथा यो माहात्म्य-
गर्योवो माहात्म्याभिमानस्तेन निर्भरा भृता देवताभ्योऽर्हच् [^1]भ्द्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजेति ।
द्विजातींस्त्रयीमुखान्न पूजयन्ति वस्त्रपात्रादिप्रदानेन न सत्कुर्वन्ती- त्यर्थः । मान्यानिति । मान्यान्माननीया
न्नमानयन्ति न संमानं ददते । नेति । अर्चनीयानर्चायोग्यानार्चयन्ति नार्चाचां कुर्वन्ति । नेति । अभि-

वादनार्हानुपसंग्रहयोग्यान्नाभिवादयन्ति न पादग्रहणं कुर्वन्ति । नेति । गुरून्हिताहितप्राप्तिपरिहारोपदेशन
ष्टॄन् न अभ्युत्तिष्ठन्ति नाभ्युत्थानं कुर्वन्ति । अनर्थकेति । अनर्थको निष्फलो य आयासः प्रयासः श्रौतस्मात-

कर्मणि क्लेशस्तेनान्तरितं व्यवहितमुपभोगोऽङ्गनादिकस्त जनितं सुखं सातं यस्येति कृत्वा विद्वज्जनं

विबुधजनमुपहसन्त्युपहासं कुर्वन्ति । जरेति । जरा विससा तस्या वैक्लव्यं विकलता तेन प्रलपितं जल्पित

मिति कृत्वा वृद्धानां स्थविराणामुपदेशं शिक्षां पश्यन्ति । जानन्तीत्यर्थः । आत्मेति । आत्मनः स्वस्य या

प्रज्ञा बुद्धिस्तस्याः परिभवः पराभव इति कृत्वा सचिवोपदेशाय प्रधानशिक्षाया असूयन्त्यसूयां कुर्वन्ति ।

हितेति । हितवादिने यथास्थितवादिने कुप्यन्ति कोपं कुर्वन्ति । सचिवोपदेशाय हितवादिन इति चतुर्थी-

द्वयमपि 'कुधद्रुह' इत्यादिना संप्रदानसंज्ञायां सत्यां ज्ञेयम् । एतादृशं पुरुषं सर्वथा स्तुवन्तीत्याशयेनाह -

तमिति । तं पुरुषं सर्वथा सर्वप्रकारेणाभिनन्दन्ति प्रशंसन्ति । तमालपन्त्यालापं कुर्वन्ति । तं पुरुषं पार्श्वे

समीपे कुर्वन्ति रक्षन्ति । तं संवर्धयन्ति वृद्धि प्रापयन्ति । तेनेति । तेन पुरुषेण सह् सुखं यथा स्यात्तथाव-

तिष्ठन्तेऽवस्थानं कुर्वन्ति । तस्मायिति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तमिति । तं पुरुष प्रति मित्रतां

सुहृद्भावतामुपजनयन्ति निष्पादयन्ति । तस्येति । तस्य पुरुषस्य वचनं वाक्यं शृण्वन्ति । तत्रेति । तस्मिन्पुंसि

वर्षन्ति पुनःपुनः प्रदानं कुर्वन्ति । तं पुरुषं बहु मन्यन्ते । अत्युत्कृष्टतया जानन्तीत्यर्थः । तमिति । तं प्रत्याप्ततां

शिष्टतामापादयन्ति प्रतिपादयन्ति । तच्छब्दस्य यच्छन्दसापेक्षत्वादाह

- य इति । यः पुमानहर्निशमहोरात्रं

अनवरतं निरन्तरं विगतमन्यकर्तव्यं यस्यैवंभूत उपरचिताञ्जलिः संयोजितकरपुटोऽधिदैवतमिवेष्टदेवता-

टिप्प० – 1 इति तु टीकाकारस्य कृपा हरिहरादिदेवेभ्य इत्यर्थः । वस्तुतस्तु 'तं मित्रतामुप●

नयन्ति' तं जनं मित्रत्वं प्रापयन्तीति पाठः, तदर्थश्च ।
 

 
पाठा०-

- १ प्रदाने. २ संस्पर्शनम् ३ द्विजान्. ४ विषयोपभोग. ५ विद्वज्जनशीलम् ६ नं पश्यन्ति

७ वृद्धजनोपदेशम् ८ तस्य मन्त्रिताम् ९ उपनयन्ति. १० तमारमनापादयन्ति तस्माद्विभ्यति.