This page has not been fully proofread.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
२१५
 
दर्शनप्रदानमध्यनुग्रहं गणयन्ति । दृष्टिपातसंप्युपकारपक्षे स्थापयन्ति । संभाषणमपि संवि-
भागमध्ये कुर्वन्ति । आशामपि वरप्रदानं मन्यन्ते । स्पेर्शमपि पावनमाकलयन्ति । मिथ्या-
माहात्म्यगर्वनिर्भराध न प्रणमन्ति देवताभ्यः, न पूजयन्ति द्विजातीन्, न मानयन्ति
मान्यान् नार्चयन्त्यर्चनीयान्, नांभिवादयन्त्यभिवादनान्, नाभ्युत्तिष्ठन्ति गुरून् ।
अनर्थंकाया सान्तरितोपभोगसुखमित्युपहसन्ति विद्वज्जैनम्, जरावैकुव्यप्रलपितमिति पश्यन्ति
वृद्धोपदेशम् आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय, कुप्यन्ति हितवादिने । सर्वथा
तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति तं संवर्धयन्ति, तेन सह सुखमवतिष्ठन्ते,
तस्मै ददति, 'तं मित्रतामुपजनयन्ति, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते,
तमाप्ततामापादयन्ति, थोऽहर्निशमन वरतमुपरचिताञ्जलिरधिदैवतमिव विगतान्य कर्तव्यः
 
9
 
खला निजालिकमाशङ्कत आरेकाविषयी कुर्वते । दर्शेति । लोकानां दर्शनप्रदानं स्वात्मप्रकटनमनुग्रहं
प्रसादं गणयन्ति मन्यन्ते । दृष्टीति । दृष्ट्याश्चक्षुषः पातमवलोकनं तदप्युपकारपक्ष उपकृतिपक्षे स्थापयन्ति
निक्षिपन्ति । संभाषेति । संभाषण जल्पनं तदपि संविभागः पारितोषिकं दानं तन्मध्ये कुर्वन्ति । पारितोषि-
कतुल्यं गणयन्तीत्यर्थः । आशामिति । आज्ञामपि निदेशमपि वरप्रदानं समीहितप्रदानं मन्यन्ते जानन्ति ।
स्पर्श: संश्लेषस्तदपि पावनं पूतं पवित्रमाकलयन्ति विचारयन्ति । मिथ्येति । सिध्या वृथा यो माहात्म्य-
गर्यो माहात्म्याभिमानस्तेन निर्भरा भृता देवताभ्योऽर्हच्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजेति ।
द्विजातींस्त्रयीमुखान्न पूजयन्ति वस्त्रपात्रादिप्रदानेन न सत्कुर्वन्तीत्यर्थः । मान्यानिति । मान्यान्माननीयाज
मानयन्ति न संमानं ददते । नेति । अर्चनीयानर्चायोग्यानार्चयन्ति नार्चा कुर्वन्ति । नेति । अभि-
वादनार्हानुपसंग्रहयोग्यान्नाभिवादयन्ति न पादग्रहणं कुर्वन्ति । नेति । गुरून्हिताहितप्राप्तिपरिहारोपदेशन
न अभ्युत्तिष्ठन्ति नाभ्युत्थानं कुर्वन्ति । अनर्थकेति । अनर्थको निष्फलो य आयासः प्रयासः श्रौतस्मात-
कर्मणि क्लेशस्तेनान्तरितं व्यवहितमुपभोगोऽङ्गनादिकस्त जनितं सुखं सातं यस्येति कृत्वा विद्वज्जनं
विबुधजनमुपहसन्त्युपहासं कुर्वन्ति । जरेति । जरा विससा तस्या वैक्लव्यं विकलता तेन प्रलपितं जल्पित
मिति कृत्वा वृद्धानां स्थविराणामुपदेशं शिक्षां पश्यन्ति । जानन्तीत्यर्थः । आत्मेति । आत्मनः स्वस्य या
प्रज्ञा बुद्धिस्तस्याः परिभवः पराभव इति कृत्वा सचिवोपदेशाय प्रधानशिक्षाया असूयन्त्यसूयां कुर्वन्ति ।
हितेति । हितवादिने यथास्थितवादिने कुप्यन्ति कोपं कुर्वन्ति । सचिवोपदेशाय हितवादिन इति चतुर्थी-
द्वयमपि 'कुधद्रुह' इत्यादिना संप्रदानसंज्ञायां सत्यां ज्ञेयम् । एतादृशं पुरुषं सर्वथा स्तुवन्तीत्याशयेनाह -
तमिति । तं पुरुषं सर्वथा सर्वप्रकारेणाभिनन्दन्ति प्रशंसन्ति । तमालपन्त्यालापं कुर्वन्ति । तं पुरुषं पार्श्वे
समीपे कुर्वन्ति रक्षन्ति । तं संवर्धयन्ति वृद्धि प्रापयन्ति । तेनेति । तेन पुरुषेण सह् सुखं यथा स्यात्तथाव-
तिष्ठन्तेऽवस्थानं कुर्वन्ति । तस्मायिति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तमिति । तं पुरुष प्रति मित्रतां
सुहृद्भावतामुपजनयन्ति निष्पादयन्ति । तस्येति । तस्य पुरुषस्य वचनं वाक्यं शृण्वन्ति । तत्रेति । तस्मिन्पुंसि
वर्षन्ति पुनःपुनः प्रदानं कुर्वन्ति । तं पुरुषं बहु मन्यन्ते । अत्युत्कृष्टतया जानन्तीत्यर्थः । तमिति । तं प्रत्याप्ततां
शिष्टतामापादयन्ति प्रतिपादयन्ति । तच्छब्दस्य यच्छन्दसापेक्षत्वादाह
- य इति । यः पुमानहर्निशमहोरात्रं
अनवरतं निरन्तरं विगतमन्यकर्तव्यं यस्यैवंभूत उपरचिताञ्जलिः संयोजितकरपुटोऽधिदैवतमिवेष्टदेवता-
टिप्प० – 1 इति तु टीकाकारस्य कृपा हरिहरादिदेवेभ्य इत्यर्थः । वस्तुतस्तु 'तं मित्रतामुप●
नयन्ति' तं जनं मित्रत्वं प्रापयन्तीति पाठः, तदर्थश्च ।
 
पाठा०-
- १ प्रदाने. २ संस्पर्शनम् ३ द्विजान्. ४ विषयोपभोग. ५ विद्वज्जनशीलम् ६ नं पश्यन्ति
७ वृद्धजनोपदेशम् ८ तस्य मन्त्रिताम् ९ उपनयन्ति. १० तमारमनापादयन्ति तस्माद्विभ्यति.