2024-03-19 12:05:44 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२३४
 
कादम्बरी ।
 
[ कथायाम्-
[^१]पराभवसहत्वं क्षमेति, [^२]स्वच्छन्दतां प्रभुत्वमिति, देवावमा- ननं महासत्त्वतेति, बन्दिजन-
[^३]ख्यातितिं यश इति, तै[^४]तरलता- मुत्साह इति, [^५]अविशेषज्ञतामपक्षपातित्वमिति दोषानपि गुणप-

क्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तेरै[^६]र मानुषलोको चिताभिः स्तुतिभिः
प्रतार्यमाणा वित्तमद [^७]मत्तचित्ता निश्चेतनतया [^८]तथैवे [^९]त्यात्मन्यारोपितालीकाभिमांमाना मर्त्य- धर्मा-
णोsपि दिव्यांशावतीर्णमिव सदैवतमिवां [^१०]वातिमानुषमा- त्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचित -
चेष्टानुभावाः सर्वजनस्योपहा- स्यतामुपयान्ति । आत्मविडम्बनां चानुजीविना जनेन क्रिय-
माणा- मभिनन्दन्ति । मनसा देवताभ्यारोपण [^११]विप्रतारणादसद्भूत- संभावनोपहताश्चान्तः प्रविष्टा-
परभुजद्वयमिवात्मबाहुयुगलं संभाव- यन्ति । त्वगन्तरिततृतीय लोचनं स्वललाटमाशङ्कन्ते ।
 

 
[ टि ]--
भावता महाधर्मिष्ठता । अदातृत्ववशात् मागधादिभिर्विहि- तस्य गालिप्रदानादिपराभवस्य तिरस्कृतेः सहत्वं
क्षमेति क्षान्तिः । स्वच्छन्दतां निरवग्रहतां प्रभुत्वमैश्वर्यम् । देवेति । देवा अर्हदादय- स्तेषामवमाननमवगणनं
महासत्त्वता महाधैर्यता । बन्दीति । बन्दि- जना मागधादय स्तेषां ख्यातिं प्रसिद्धिम् । यशःश्लोक ( ? ) इति ।

एतेन पण्डितजनप्रदानं न श्लोकजनकमिति भावः । तरलतां चप- लतामुत्साहः प्रगल्भता इति । अवीति ।
अविशेषज्ञतां विशेषाविशे- षानभिज्ञतामपक्षपातित्वं माध्यस्थ्यमिति । अत्र 'द्यूतम्' इत्यारभ्य पूर्वपूर्वस्योद्देश्य
तयोत्तरोत्तरस्य बाध्यमानतया पूर्वस्मिन्दोष उत्तरस्य गुणस्यारोपः प्रशंसन मेवाध्यारोपः । अत्राध्यारोपकलक्षणे
रूपक- व्यासङ्गजनकत्वं सातिशयसुखजनकत्वादिकं साम्यं स्वयमूहनीयम् । अथ धूर्तान्विशेषयन्नाह-अन्त इति ।
अन्तर्मध्ये स्वयमप्यात्मनापि विहसद्भिर्हास्यं कुर्वद्भिः । अस्मद्विप्रतारणानभिज्ञ इति हास्यनिया- मकम् । प्रतारणा
वञ्चना तत्र कुशलैरभिज्ञैः । किं क्रियमाणा धनिनः । अमानुषलोको देवलोकस्तस्योचिताभिर्योग्याभिः । स्तुतेर्वि-
शेषण- म् । वित्तेति । वित्तस्य द्रव्यस्य मदस्तेन मत्तं चित्तं येषां ते तथा । अत एव निश्चेतनतया निर्गता चेतना
ज्ञानं यस्मात्तस्य भावस्तत्ता तया । तथैवेति । यथा यथा प्रतार्यमाणास्तथैवेत्यर्थः । आत्मन्यारोपि- तं स्थापित-
मलीकं मिथ्याभिमानं, यैस्ते तथा मर्त्यधर्माणोऽपि मर्त्य- स्य मनुष्यस्य धर्मा गमनादयो येषामेवंविधा अपि ।
दिव्येति । दिव्या देवसंबन्धिनो येयेंऽशा भागास्तैरवतीर्णमुत्पन्नमिव सदैवतमिव देवताधिष्ठितमिवातिमानुषं
कर्मातिक्रम्य वर्तमानमात्मानमुत्प्रेक्षमा- णा मन्यमानाः । प्रारब्धेति । प्रारब्धा या दिव्योचिता देवजनयोग्या-

श्रेष्ठाः क्रियास्ताभिरनुभावो माहात्म्यं येषां ते तथा । अन्वयस्तु प्रागे- वोक्तः । अनुजीविना जनेन सेवकजनेन
क्रियमाणां विधीयमाना- मात्मविडम्बनाम [^1]सद्गुणारोपलक्षणामभिनन्दन्ति प्रशंसन्ति । चकारः पूर्वोक्तसमु
च्चयार्थः । विभूतिमतां राज्ञां पुनर्दोषान्तरमाह- मनसेति । देवताया हरिहरादेरध्यारोपणं [^2]आरोपणं तेन
विप्र
विप्र- तारणं वञ्चनं तस्मादिति । असदिति । असद्भूतासद्रूपा या संभा- वना देवरूपत्वेन निश्चयस्तेनोपहता विन-
ष्बुद्धयः । देवत्वाध्यारोप- त्वनिमित्तमूलानि प्रदर्शयन्नाह - अन्तरिति । अन्तर्मध्ये प्रविष्टमपर- मन्यद्भुजद्वयं
यस्मिन्नेवंविधमिवात्मनो बाहुगुगलं स्वकीयं भुजयुगं संभावयन्ति संभावनाविषयीकुर्वन्ति । एतेन स्वस्मि॒िमिंश्चतु-
र्भुजत्वं ख्यापितम् । त्रिनेत्रत्वमप्याह - त्वगिति । त्वक्कृत्तिस्तयान्तरितं पिहितं तृतीयं लौचनं यस्मिन्नेतादृशं
 
टिप्प० -

 
[^
1]F. आस्मनि अविद्यमाना अपि ये गुणास्तदारोपणरूपां विड- म्बनाम् ।
[^
2]F. धूर्ते: कृतं देवत्वा
s
प्यारोपणमेव प्रतारणं तस्मात् असद्भूता मिथ्याभूता या संभावना आत्मनो देवत्वेन निश्चयस्तेन उपहता

नाशितंबुद्धय इति व्याख्या । 'वस्तुतस्तु अध्यारोपप्रतारणाऽसंभूत' इत्येव पाठः । देवस्वारोप एव प्रता
रणा तयाऽसंभूता या संभावना आत्मनि देवत्वभानं तेन उपहता इति तन्त्र व्याख्या ।
 
पाठा० -

 
[^
]G. परभवसत्वम् ; परिभवसत्वम् .
[^
]G. खच्छन्दता.
[^
]G. आख्यातिम्; ख्यातिः.
[^
]G. तदलतां.
[^
अवि-
]G. अविशेषशता.
[^
]G. अमानुषोचिताभिः .
[^
]G. मत्तनिश्चयेन.
[^
]G. तथेति; यथेति.
[^
]G. आत्मारोपित .
[^
१०]G. अतिमानुष्यकम्.

[^
११]G. प्रतारणादसद्भूत; प्रतारणासंभूतः प्रतारणासद्भुत.