कादम्बरी /267
This page has not been fully proofread.
२३४
कादम्बरी ।
[ कथायाम्-
पराभवसहत्वं क्षमेति, स्वच्छन्दतां प्रभुत्वमिति, देवावमाननं महासत्त्वतेति, बन्दिजन-
ख्याति यश इति, तैरलतामुत्साह इति, अविशेषज्ञतामपक्षपातित्वमिति दोषानपि गुणप-
क्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तेरै मानुषलोको चिताभिः स्तुतिभिः
प्रतार्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवेत्यात्मन्यारोपितालीकाभिमांना मर्त्यधर्मा-
णोsपि दिव्यांशावतीर्णमिव सदैवतमिवांतिमानुषमात्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचित -
चेष्टानुभावाः सर्वजनस्योपहास्यतामुपयान्ति । आत्मविडम्बनां चानुजीविना जनेन क्रिय-
माणामभिनन्दन्ति । मनसा देवताभ्यारोपणविप्रतारणादसद्भूतसंभावनोपहताश्चान्तः प्रविष्टा-
परभुजद्वयमिवात्मबाहुयुगलं संभावयन्ति । त्वगन्तरिततृतीय लोचनं स्वललाटमाशङ्कन्ते ।
भावता महाधर्मिष्ठता । अदातृत्ववशात् मागधादिभिर्विहितस्य गालिप्रदानादिपराभवस्य तिरस्कृतेः सहत्वं
क्षमेति क्षान्तिः । स्वच्छन्दतां निरवग्रहतां प्रभुत्वमैश्वर्यम् । देवेति । देवा अर्हदादयस्तेषामवमाननमवगणनं
महासत्त्वता महाधैर्यता । बन्दीति । बन्दिजना मागधादय स्तेषां ख्यातिं प्रसिद्धिम् । यशःश्लोक ( ? ) इति ।
एतेन पण्डितजनप्रदानं न श्लोकजनकमिति भावः । तरलतां चपलतामुत्साहः प्रगल्भता इति । अवीति ।
अविशेषज्ञतां विशेषाविशेषानभिज्ञतामपक्षपातित्वं माध्यस्थ्यमिति । अत्र 'द्यूतम्' इत्यारभ्य पूर्वपूर्वस्योद्देश्य
तयोत्तरोत्तरस्य बाध्यमानतया पूर्वस्मिन्दोष उत्तरस्य गुणस्यारोपः प्रशंसन मेवाध्यारोपः । अत्राध्यारोपकलक्षणे
रूपकव्यासङ्गजनकत्वं सातिशयसुखजनकत्वादिकं साम्यं स्वयमूहनीयम् । अथ धूर्तान्विशेषयन्नाह-अन्त इति ।
अन्तर्मध्ये स्वयमप्यात्मनापि विहसद्भिर्हास्यं कुर्वद्भिः । अस्मद्विप्रतारणानभिज्ञ इति हास्यनियामकम् । प्रतारणा
वञ्चना तत्र कुशलैरभिज्ञैः । किं क्रियमाणा धनिनः । अमानुषलोको देवलोकस्तस्योचिताभिर्योग्याभिः । स्तुतेर्वि-
शेषणम् । वित्तेति । वित्तस्य द्रव्यस्य मदस्तेन मत्तं चित्तं येषां ते तथा । अत एव निश्चेतनतया निर्गता चेतना
ज्ञानं यस्मात्तस्य भावस्तत्ता तया । तथैवेति । यथा यथा प्रतार्यमाणास्तथैवेत्यर्थः । आत्मन्यारोपितं स्थापित-
मलीकं मिथ्याभिमानं, यैस्ते तथा मर्त्यधर्माणोऽपि मर्त्यस्य मनुष्यस्य धर्मा गमनादयो येषामेवंविधा अपि ।
दिव्येति । दिव्या देवसंबन्धिनो येऽशा भागास्तैरवतीर्णमुत्पन्नमिव सदैवतमिव देवताधिष्ठितमिवातिमानुषं
कर्मातिक्रम्य वर्तमानमात्मानमुत्प्रेक्षमाणा मन्यमानाः । प्रारब्धेति । प्रारब्धा या दिव्योचिता देवजनयोग्या-
श्रेष्ठाः क्रियास्ताभिरनुभावो माहात्म्यं येषां ते तथा । अन्वयस्तु प्रागेवोक्तः । अनुजीविना जनेन सेवकजनेन
क्रियमाणां विधीयमानामात्मविडम्बना मसद्गुणारोपलक्षणामभिनन्दन्ति प्रशंसन्ति । चकारः पूर्वोक्तसमु
चयार्थः । विभूतिमतां राज्ञां पुनर्दोषान्तरमाह- मनसेति । देवताया हरिहरादेरध्यारोपणं आरोपणं तेन
विप्रतारणं वञ्चनं तस्मादिति । असदिति । असद्भूतासद्रूपा या संभावना देवरूपत्वेन निश्चयस्तेनोपहता विन-
ष्ठबुद्धयः । देवत्वाध्यारोपत्वनिमित्तमूलानि प्रदर्शयन्नाह - अन्तरिति । अन्तर्मध्ये प्रविष्टमपरमन्यद्भुजद्वयं
यस्मिन्नेवंविधमिवात्मनो बाहुगुगलं स्वकीयं भुजयुगं संभावयन्ति संभावनाविषयीकुर्वन्ति । एतेन स्वस्मि॒िश्चतु-
र्भुजत्वं ख्यापितम् । त्रिनेत्रत्वमप्याह - त्वगिति । त्वकृत्तिस्तयान्तरितं पिहितं तृतीयं लौचनं यस्मिन्नेतादृशं
टिप्प० - 1 आस्मनि अविद्यमाना अपि ये गुणास्तदारोपणरूपां विडम्बनाम् । 2 धूर्ते: कृतं देवत्वा •
sप्यारोपणमेव प्रतारणं तस्मात् असद्भूता मिथ्याभूता या संभावना आत्मनो देवत्वेन निश्चयस्तेन उपहता
नाशितंबुद्धय इति व्याख्या । 'वस्तुतस्तु अध्यारोपप्रतारणाऽसंभूत' इत्येव पाठः । देवस्वारोप एव प्रता
रणा तयाऽसंभूता या संभावना आत्मनि देवत्वभानं तेन उपहता इति तन्त्र व्याख्या ।
पाठा० -१ परभवसत्वम् ; परिभवसत्वम् २ खच्छन्दता. ३ आख्यातिम्; ख्यातिः. ४ तदलतां. ५ अवि-
शेषशता. ६ अमानुषोचिताभिः ७ मत्तनिश्चयेन. ८ तथेति; यथेति. ९ आत्मारोपित १० अतिमानुष्यकम्.
११ प्रतारणादसत; प्रतारणासंभूतः प्रतारणासद्भुत.
●