कादम्बरी /266
This page has been fully proofread once and needs a second look.
पूर्वभागः ।
२३३
अपरे तु स्वार्थनिष्पादनपरैर्धनपिशित
स्व
श्
[ टि ]-- भ्रियमाणा इवाध्मातमूर्तयः स्थूलदेहा भवन्ति । तदिति । सैवावस्था येषां ते तदवस्थाः । चः समुच्चयार्थः ।
मुपयान्ति प्राप्नुवन्तीत्यन्त्रयः । कीदृशैर्धूर्तेः । खेति । स्वस्यात्मनो योऽर्थः प्रयोजनं तस्य निष्पादनं करणं
तत्र परैस्तत्परैः । धनमिति । धनं द्रव्यं तदेव पिशितं मांस तस्य प्रासो ग्रहणं तस्मिन् गृधैर्दूरदृग्भिर्यथा
तथा द्रव्यार्जनपरैरित्यर्थः । आस्थानेति । आस्थानं नृपोपवेशनस्थलं तदेव नलिनी कमलिनी तस्यां बकै-
धूर्तेः । यथा बका नलिनीमाश्रित्य तदाश्रयबलेन खात्मानमाच्छाद्य येन केन प्रकारेण परान्वञ्चयित्वाकस्मादेव
परान्भक्षयन्ति तद्वदास्थानबलेन परान्वञ्चयित्वा स्वानि भक्षयन्ति । इतिशब्दार्थमाह -- द्यूतमिति । द्यूतं
दुरोदरं विनोदः क्रीडामात्रम् । न चैतद्विहिते किंचित्पातकमस्तीति भावः । परेति । परदाराः परस्त्रिय-
स्तेषामभिगमनं संभोगो वैदग्ध्यमिति चातुर्यमित्यर्थः । मृगयेति । मृगयां मृगव्यां श्रम इति । 'अभ्यासः
खुरलीतिमो योगाभ्यासः' इति कोशः । न तु परप्राणव्यापादनजनितं किमपि पातकमस्तीति भावः ।
पानमिति । पानं मयादीनां । विलास इति । विलसितमित्यर्थः । प्रमत्ततामिति । प्रमत्ततां क्षीबतां
शौर्य सुभटकृत्यमिति । खेति । स्वस्य दाराः स्त्री तस्याः परित्यागं त्यजनमव्यसनितानासक्तिता इति । नतु
धर्माधिक्यम् । गुरुरिति । गुरुर्हिताहितप्राप्तिपरिहारोपदेष्टा तस्य वचनं वचस्तस्यावधीरणमुहद्धनमपैर-
प्रणेयत्वमन्यवश्यत्वम् । 'वश्यः प्रणेयः' इति कोशः । गुरुवचनावधीरणेन क्रूरोऽयं प्रभुरिति भियापरे साम-
•न्तादयो वश्यत्वं प्रतिपद्यन्त इति तेषामाशयः । अजितेति । शिक्षार्थं ताडिता भृत्या यस्य राज्ञः सम्यक् सेवां
कुर्वन्ति स जितभृत्योऽन्यस्त्वजितभृत्यस्तस्य भावस्तत्ता ताम् । इदं च नृपतेर्दूषणम् । वैगुण्ये भृत्यानामवश्यं
शिक्षा प्रदातव्येति राजचिह्नम् । तदुक्तम्- 'शठदमनमशठपालनमाश्रितभरणं च राजचिह्नानि' इति । तस्मि-
न्सुखोपसेव्यत्वं सुखेनोपसेवितुं योग्यः सुखोपसेव्यस्तस्य भावस्तत्त्वम् । सुखोपसेव्योऽयं नृप इति लोके ख्याति
मात्रं गुण आरोप्यते । नृत्येति । नृत्यं नाट्यम्, गीतं गानम्, वाद्यमातोद्यम्, वेश्या बारवध्वः, तास्वभिसक्ति-
मत्यासक्तचित्ततां रसिकता रसाभिज्ञता इति । महेति । महापराधानां कौरवयुद्धादीनामवकर्णनं श्रवणं महानु-
।
।
टिप्प० – 1 उयीकाकृतमृत्तिकास्तूपः ( कीटविशेषेण निःसारितमृत्तिकाराशि:) तन्त्रोत्पन्नतृणामे
स्थिता जलबिन्दव इव । पातित्येन युक्तमात्मानं मोहान जानन्ति । वल्मीके पतिता जलबिन्दवस्तु शुष्क -
स्वाज प्रतीयन्त इत्याशयः । 2 धर्मादअंश इति वक्तव्यम् । 3 न परप्रणेय (चश्य) त्वम्, स्वाधीनता.
सूचनारस्वास प्रयमित्यर्थः । 4 'महापराधानाकर्णनम्' इत्येव पाठः । महतोऽप्यपराधस्य 'अकिञ्चित्करमि-
वम्' इति उपेक्षावशादनाकर्णनम् । वस्तुतस्त्वयमविचारो दोष एव ।
पाठा-
-१ गुणाग्रस्मिताः २ नलिनीवकैः ३ मृगया. ४ प्रमत्तता. ५ स्खदारपरित्यागः; स्खदारपरित्यागेवु.
६ मुलता. ७ नृत्त. ८ अभिसक्ति: • ९ रसिकतामिति १० अनाकर्णनम् : अनबकर्णनम्.
३० का०