2024-02-16 08:17:45 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तेजस्विनो नेक्षन्ते, कालदष्टा इव महामन्त्रैरपि न प्रतिबुध्यन्ते, जातु- [^१]षाभरणानीव सोष्माणं न सहन्ते, दुष्टवारणा इव [^२]महामा-
नस्तम्भनिश्चली [^३]कृता न गृह्णन्त्युपदेशम्, [^४]तृष्णाविषमू-
र्च्छिताः कनकमयमिव सर्वं पश्यन्ति, [^५]इषव इव पानवर्धिततै-
[^६]क्ष्ण्याः परप्रेरिता विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डविक्षेपैर्महाकुलानि शातयन्ति, अकालकुसुमप्रसवा इव
मनो- हराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इवातिरौद्रभूतयः, तैमिरिका इवादूर-
दर्शिनः, उपसृष्टा इव क्षुद्राधिष्ठितभवनाः, श्रूयमा- णा अपि प्रेतपटहा इवोद्वेजयन्ति, चिन्त्य-
माना अपि महापातकाध्य- वसाया इवोपद्रवमुपजनयन्ति। अनुदिवसमापूर्यमाणाः पापेने-

[ टि ]--
तेजस्विनः प्रतापवन्तः पुरुषान्निः स्पृहान्नेक्षन्ते नावलोकय- न्ति । पक्षे तेजस्विनः सूर्यादिकान् । कालदष्टेति ।
निषिद्धकाले संध्यादिरूपे दष्टा भक्षिताः । सर्पेणेति शेषः । एवंविधा इव महामन्त्रै- र्जाङ्गलीप्रभृतिभिः षाड्गुण्यादि-
भिरपि न प्रतिबुध्यन्ते न बोधं प्राप्नु- वन्ति । जातुषेति । जातुषाभरणानि लाक्षानिष्पन्नभूषणानीव सोष्मा- णं
तेजस्वि॑ि [^1]स्विनं पुरुषं न सहन्ते न मृष्यन्ति । दुष्टेति । दुष्टवारणा इव मदोन्मत्तगजा इव महानत्युत्कृष्टो यो
मानोऽहंकारस्तल्लक्षणो यः स्तम्भः स्थूणा तेन निश्चलीकृताः स्तब्धतां प्रापिताः सन्त उपदेशं शिक्षां न
गृह्णन्ति नाददते । 'गजपक्षे महन्मानं यस्यैवंविधो यः स्तम्भ आलानस्तम्भस्तेन निश्चलीकृता नद्धाः सन्त उप-
देशं हस्तिपकवाक्यं न गृह्णन्ति । अवगणयन्तीत्यर्थः । तृष्णेति । तृष्णैव विषं गरलं तेन मूर्च्छिता भ्रान्ताः
कनकमयं सुवर्णमयमिव सर्वं पश्यन्ति विलोक- यन्ति । इषव इति । पानं मधुपानं निशानघर्षणं च ताभ्यां
वर्धितं तैक्ष्ण्यं मदक्रौर्य प्रहारशक्तिश्च येषामेवंविधा इषव इव बाणा इव परोऽन्यो मन्त्री च ताभ्यां प्रेरिता
नोदिता विनाशयन्ति विनाशं जनयन्ति । दण्डो यष्टिर्भागधेयंश्च तयोर्विक्षेपाः प्रहारा दुर्दिनानि च तैर्दूर-
स्थितान्यपि दविष्ठदेशवतन्यपि फलानीव सस्यानीव महाकुलानि महाभिजनानि शातयन्ति पीडयन्ति
पातयन्त्यपि च । अकालेति । मनोहराश्चित्तहारिण्य आकृतय आकारा येषामेवंविधा अपि राजानो लोक-
विनाशहेतवो भवन्ति । सदाकृतिसाम्यादुपमानान्तरमाह - अकालेति । अकालेऽऋतौ कुसुमप्रसवा इव ।
तदुक्तम् –'द्रुमौषधिविशेषाणामकाले कुसुमोद्गमः । फलप्रसवयोर्बन्धं महोत्पातं विदुर्बुधाः । श्मशानाग्नय
इति । श्मशानं प्रेतवनं तस्यानय इवातिरौद्रा अन्येषां भयोत्पादिका भूतिः संपयेषां ते तथा । पक्रूरा
भूतिर्भस्म येषु । तैमिरिकेति । तिमिरं नेत्ररोगः स संजातो येषां ते तैमिरिकास्त इवादूरदर्शिनः ।
भाविनं दोषं न पश्यन्तीत्यर्थः । दूरं परलोकं न पश्यन्तीत्यर्थो वा । पक्षेऽदूरदर्शिनः समीपस्थितवस्तुविलो.
किनः । उपसृष्टेति । उपसृष्टा बहिःकृता इव क्षुद्रैर्विटैरधिष्ठितमाश्रितं भवनं गृहं येषां ते तथा । श्रूयमाणा
इति । श्रयमाणा आकर्ण्यमाना उद्वेजयन्त्युद्वेगं जनयन्ति । कइव । प्रेतपटहा इव यथा मृतकवाद्यानि
निर्वेदमन्येषां समुत्पादयन्तीत्यर्थः । कस्मिंश्चिद्देशे मृतकानां पुरस्ताद्वाद्यानि वाद्यन्त इति देशाचारः ।
चिन्त्येति । चिन्त्यमाना अपि चेतसि स्मर्यमाणा अपि महापातकं स्त्रीहत्यादि तदध्यवसाया इव तदभिप्राया
इवोपद्रवं वञ्चकादिर्दुःखमुपजनयन्ति निष्पादयन्ति । अन्विति । अनुदिवसं प्रतिदिवसं पापेनैनसापूर्यमाणा
 
टिप्प० -1 भूषणपक्षे अग्निम् । राजपक्षे -
ईवशादसहनम् । जातुषपक्षे -- विगलनवशादित्यर्थः
2 सामदानभेददण्डा इति ऋतुर्थोपाय इति व्याख्योचिता । 3 रति-संलभा वाराङ्गना इष क्षुः नीचे.
लौकै:, पक्षे विटैरधिष्ठितानि भवनानि येषां ते । 'उपसृष्टं तु मैथुनम्' इति त्रिकाण्डशेषः । 4 चित्त-
स्याऽशान्तिम् ।
 
.
 
पाठा -१ आतुषा इत्र. २ महालान; महानाल ३ कृता अपि न. ४ अतितृष्णाविषवेग; तृष्णावेश ५ असयः;
अयः, असवः ६ पारुष्या: •