2024-02-10 15:11:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासोपदेशः ]
 
बाध्यमानाः, विविध [^१]विषयप्ग्रासलालसैः पञ्चभिरण्प्यनेकसहस्र- संख्यैरिवेन्द्रियैरायास्यमानाः,
प्रकृतिचञ्चलतया [^२]लब्धेप्रसरेणै-केनापि शतसहस्रतामिवोपगतेन मनसाकुली क्रियमाणा विह्वल-

तामुपयान्ति । प्ग्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते,
वायुनेव विडम्ब्यन्ते, पिशाचैरिव प्ग्रस्यन्ते, मद- नशरैर्मर्मा [^३]हता इव मुखभङ्गसहस्राणि कुर्वते,
धनोष्मणा पच्य माना इव विचेष्टन्ते, गाढ [^४]प्रहाराहता इवाङ्गानि न धारयन्ति, कुलीरा इव
तिर्यक्परिभ्रमन्ति, अधर्मभन्नगतयः पङ्गव इव परेण संचार्यन्ते, मृषावाद [^५]विपाकसंजातमु
खरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारैः [^६]पार्श्ववर्तिनां शिरः-
शूलमुत्पादयन्ति, आसन्नमृत्यव इव [^७]बन्धुजनमपि नाभि- जानन्ति, [^८]उत्कम्पितलोचना इव
 
पूर्वभागः ।
 
२३१
 

 

 
[ टि ]--
केनेव । दोषेति । दोषं दुष्टं यदसृग्रक्तं तेनेव । तत्रापि रागो भवत्येवेति साम्यम् । विविधेति । विविधा
येऽनेके विषया गोचरास्त एव ग्रासा गुडेरकास्तत्र लालसैलम्पटैः । पञ्चभिरिति । पञ्चभिरपि प्राणप्रमितसं-
ख्यैरपि चक्षुरादिभिरपि शतसहस्रतां लक्षतामुपगते- [^1]न प्राप्तेन अनेकसहस्रसंख्यैरिन्द्रियैः करणैरायास्यमानाः परि
-
क्लिश्यमानाः । प्रकृतीति । प्रकृत्या स्वभावेन चञ्चलञ्श्चपलस्तस्य भावस्तत्ता तया लब्धः प्रसरोऽवकाशो येनैवं
भूतेनैकेन मनसा चित्तेनाकुलीक्रियमाणा विह्वलतामुत्पिञ्जलतामुपयान्ति गच्छन्ति ।
ग्र
हैरिति । ग्रहैः शनै-
श्चरादिभिरिव गृह्यन्ते ग्रहणविषयी क्रियन्ते । भूतैः पिशाचैरिवाभिभूयन्ते । मन्त्रैरिति । मन्त्रा देवाधिष्ठातृका-
स्तैरिवावे- श्यन्ते । मन्त्रेणान्यत्रावेशः क्रियते । यथा भूतमन्यत्र प्रवेश्यते । सत्त्वैरिव दुष्टप्राणिभिरिवावष्टभ्यन्ते
हठेन गृह्यन्ते । वायुनेव पवने- नेव विडम्ब्यन्त इतस्ततो विक्षिप्यन्ते । पिशाचैरिव राक्षसैरिव ग्रस्य- न्ते भक्ष्यन्ते ।
मदनेति । मदनशरैः कामबाणैर्मर्मस्थलं आहतास्ता- डिता इव मुखभङ्गसहस्राण्यानन विकृतिसहस्राणि
कुर्वते घटयन्ति । धनेति । धनस्य द्रव्यस्योष्मा तापस्तेन पच्यमानाः पाकविषयी- क्रियमाणा इव विचेष्टन्ते ।
विविधां चेष्टां कुर्वन्तीत्यर्थः । गाढेति । गाढस्तीव्रो यः प्रहारो लगुडादिना कुल्लण्टनं तेनाहता इवाङ्गानि हस्त
पादादीनि न धारयन्ति न धर्तुं शक्नुवन्तीत्यर्थः । कुलीरेति । कुलीरा इव कर्कटा इव तिर्यक्तिर [^2]श्चीना एव
परिभ्रमन्ति परिभ्रमणं कुर्वन्ति । अधर्मेति । अधर्मेणासदाचरणेन भग्ना भङ्गं प्राप्ता गतिर्गमनं सत्कर्मणि वृत्तिश्च
येषामेवंभूताः पङ्गव इव खञ्जा इव परेणान्येन संचार्यन्ते संचरणशीलाः क्रियन्ते । मृषेति । मृषा- वादोऽस
त्यभाषणं तस्य विपाकः परिणामस्तेन संजातः समुत्पन्नो मुखरोगो येषामेतादृश इवातिकृच्छ्रेणातिकष्टेन
जल्पन्ति ब्रुवन्ति । सप्तेति । सप्तच्छदतरव इव विषमच्छदवृक्षा इव कुसुमानि नेत्राणि तेषां ये रजोभिर्गुणै-
र्विकारा [^3]विकृतैयस्तैः । पक्षे कुसुमरजो- विकारैः पुष्परागविकृतिभिः । 'कुसुमं स्त्रीरजो नेत्रे' इत्यनेकार्थः ।

पार्श्ववर्तिनां समीपस्थायिनां शिरःशूलं मस्तकव्यथामुत्पादयन्ति जनयन्ति । सप्तपर्णकुसुमरजसः शिरःशूलो-
त्पादकत्वं वैद्यके प्रसिद्धम् । आसन्नेति । आसन्नः समीपवर्ती मृत्युर्येषां त एवंविधा इव बन्धुजनमपि
स्वजनमपि नाभिजानन्ति नोपलक्षयन्ति । उदिति । उत्प्राबल्येन [^4]कम्पितं धूतं लोचनं नेत्रं येषामेवंविधा इव
 
टिप्प० -

 
[^
1]F. उपगतैरिति वाच्यम् ।
[^
2]F. सर्वैः सह कौटिल्यमाचरन्तीत्यर्थः ।
[^
3]F. कुसुमरजसां विकारैः
( तत्संपर्कजनितवायुविकारैः ) सप्त- पर्णतरवो यथा शिरोवेदनामुत्पादयन्ति, तथा इमे कुसुमानि ( नेत्र-

रोगाः ) एव रजोविकारा रजोगुणपरिणामास्तैः भासन्नवर्तिनां शिरः- शूलजन्य पीडामिवोत्पादयन्तीति तात्प
र्यम् । टीकातो व्याख्यामात्र- मवगन्तव्यम् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ।' इति हैमस्य शुद्धः
पाठः ।
[^
4]F. इदमपि घोरमज्ञानम् । 'उस्त्कुपितलोचना इव' इत्येव पाठः । उत्कुपितलोचना रुग्णनेत्रा इति /
तदर्थः । यस्य नेत्रपीडा भवति स तेजस्त्रिविपदार्थं न शक्नोति यीवीक्षितुम् ।
 
पाठा० -

 
[^
]G. विषयरसग्रास.
[^
]G. प्रसारेण.
[^
]G. अभिहताः
[^
]G. राभिहता:
[^
]G. विषपाक
[^
]G. आसन्नवर्तिनाम्.

[^
]G. पुरः स्थितं बन्धुजनम्
[^
]G. उत्कुपित.