This page has not been fully proofread.

शुकनासोपदेशः ]
 
बाध्यमानाः, विविधविषयप्रासलालसैः पञ्चभिरण्यनेकसहस्रसंख्यैरिवेन्द्रियैरायास्यमानाः,
प्रकृतिचञ्चलतया लब्धेप्रसरेणैकेनापि शतसहस्रतामिवोपगतेन मनसाकुली क्रियमाणा विह्वल-
तामुपयान्ति । प्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते,
वायुनेव विडम्ब्यन्ते, पिशाचैरिव प्रस्यन्ते, मदनशरैर्मर्माहता इव मुखभङ्गसहस्राणि कुर्वते,
धनोष्मणा पच्यमाना इव विचेष्टन्ते, गाढप्रहाराहता इवाङ्गानि न धारयन्ति, कुलीरा इव
तिर्यक्परिभ्रमन्ति, अधर्मभन्नगतयः पचव इव परेण संचार्यन्ते, मृषावादविपाकसंजातमु
खरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छदतरव इव कुसुमरजोविकारैः पार्श्ववर्तिनां शिरः-
शूलमुत्पादयन्ति, आसन्नमृत्यव इव बन्धुजनमपि नाभिजानन्ति, उत्कम्पितलोचना इव
 
पूर्वभागः ।
 
२३१
 

 
केनेव । दोषेति । दोषं दुष्टं यदसृग्रक्तं तेनेव । तत्रापि रागो भवत्येवेति साम्यम् । विविधेति । विविधा
येऽनेके विषया गोचरास्त एव ग्रासा गुडेरकास्तत्र लालसैलम्पटैः । पञ्चभिरिति । पञ्चभिरपि प्राणप्रमितसं-
ख्यैरपि चक्षुरादिभिरपि शतसहस्रतां लक्षतामुपगतेन प्राप्तेन अनेकसहस्रसंख्यैरिन्द्रियैः करणैरायास्यमानाः परि
क्लिश्यमानाः । प्रकृतीति । प्रकृत्या स्वभावेन चञ्चलञ्चपलस्तस्य भावस्तत्ता तया लब्धः प्रसरोऽवकाशो येनैवं
भूतेनैकेन मनसा चित्तेनाकुलीक्रियमाणा विह्वलतामुत्पिञ्जलतामुपयान्ति गच्छन्ति । हैरिति । ग्रहैः शनै-
श्चरादिभिरिव गृह्यन्ते ग्रहणविषयी क्रियन्ते । भूतैः पिशाचैरिवाभिभूयन्ते । मन्त्रैरिति । मन्त्रा देवाधिष्ठातृका-
स्तैरिवावेश्यन्ते । मन्त्रेणान्यत्रावेशः क्रियते । यथा भूतमन्यत्र प्रवेश्यते । सत्त्वैरिव दुष्टप्राणिभिरिवावष्टभ्यन्ते
हठेन गृह्यन्ते । वायुनेव पवनेनेव विडम्ब्यन्त इतस्ततो विक्षिप्यन्ते । पिशाचैरिव राक्षसैरिव ग्रस्यन्ते भक्ष्यन्ते ।
मदनेति । मदनशरैः कामबाणैर्मर्मस्थलं आहतास्ताडिता इव मुखभङ्गसहस्राण्यानन विकृतिसहस्राणि
कुर्वते घटयन्ति । धनेति । धनस्य द्रव्यस्योष्मा तापस्तेन पच्यमानाः पाकविषयीक्रियमाणा इव विचेष्टन्ते ।
विविधां चेष्टां कुर्वन्तीत्यर्थः । गाढेति । गाढस्तीव्रो यः प्रहारो लगुडादिना कुल्लण्टनं तेनाहता इवाङ्गानि हस्त •
पादादीनि न धारयन्ति न धर्तुं शक्नुवन्तीत्यर्थः । कुलीरेति । कुलीरा इव कर्कटा इव तिर्यक्तिरश्चना एव
परिभ्रमन्ति परिभ्रमणं कुर्वन्ति । अधर्मेति । अधर्मेणासदाचरणेन भग्ना भङ्गं प्राप्ता गतिर्गमनं सत्कर्मणि वृत्तिश्च
येषामेवंभूताः पङ्गव इव खजा इव परेणान्येन संचार्यन्ते संचरणशीलाः क्रियन्ते । मृषेति । मृषावादोऽस
त्यभाषणं तस्य विपाकः परिणामस्तेन संजातः समुत्पन्नो मुखरोगो येषामेतादृश इवातिकृच्छ्रेणातिकष्टेन
जल्पन्ति ब्रुवन्ति । सप्तेति । सप्तच्छदतरव इव विषमच्छदवृक्षा इव कुसुमानि नेत्राणि तेषां ये रजोभिर्गुणै-
र्विकारा विकृतैयस्तैः । पक्षे कुसुमरजोविकारैः पुष्परागविकृतिभिः । 'कुसुमं स्त्रीरजो नेत्रे' इत्यनेकार्थः ।
पार्श्ववर्तिनां समीपस्थायिनां शिरःशूलं मस्तकव्यथामुत्पादयन्ति जनयन्ति । सप्तपर्णकुसुमरजसः शिरःशूलो-
त्पादकत्वं वैद्यके प्रसिद्धम् । आसन्नेति । आसन्नः समीपवर्ती मृत्युर्येषां त एवंविधा इव बन्धुजनमपि
खजनमपि नाभिजानन्ति नोपलक्षयन्ति । उदिति । उत्प्राबल्येन कम्पितं धूतं लोचनं नेत्रं येषामेवंविधा इव
 
टिप्प० - 1 उपगतैरिति वाच्यम् । 2 सर्वैः सह कौटिल्यमाचरन्तीत्यर्थः । 3 कुसुमरजसां विकारैः
( तत्संपर्कजनितवायुविकारैः ) सप्तपर्णतरवो यथा शिरोवेदनामुत्पादयन्ति, तथा इमे कुसुमानि ( नेत्र-
रोगाः ) एव रजोविकारा रजोगुणपरिणामास्तैः भासन्नवर्तिनां शिरःशूलजन्य पीडामिवोत्पादयन्तीति तात्प
र्यम् । टीकातो व्याख्यामात्रमवगन्तव्यम् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ।' इति हैमस्य शुद्धः
पाठः । 4 इदमपि घोरमज्ञानम् । 'उस्कुपितलोचना इव' इत्येव पाठः । उत्कुपितलोचना रुग्णनेत्रा इति /
तदर्थः । यस्य नेत्रपीडा भवति स तेजस्त्रिपदार्थ न शक्नोति यीक्षितुम् ।
 
पाठा० -१ विषयरसग्रास. २ प्रसारण. ३ अभिहताः ४ राभिहता: ५ विषपाक ६ आसन्नवर्तिनाम्.
७ पुरः स्थितं बन्धुजनम् ८ उत्कुपित.