2024-02-10 14:56:05 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

विप्रलभते, श्रुताप्यभिसंधत्ते, चिन्तितापि वञ्चयति । एवंविधयापि चानया दुराचारया कथमपि [^१]दैववशेन परिगृहीता [^२]विक्ल- वा भवन्ति राजानः, सर्वाविनयाधिष्ठानतां च गच्छन्ति । तथाहि --अभिषेकसमय [^३]एव चैतेषां मङ्गलकलशजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव [^४]मलिनीक्रियते हृदयम्, पुरोहित- कुशाग्रसंमार्जनीभिरिवा [^५]पह्रियते क्षान्तिः, उष्णीष [^६]पट्ट- बन्धेने [^७]वाच्छाद्यते जरागमनस्मरणम्, आतपत्त्रमण्डलेने [^८]वापसार्यते परलोकदर्शनम्, चामरपवनैरिवापह्रियते सत्यवा- दिता, वेत्रदण्डैरिवोत्सार्यन्ते गुणाः, जयशब्द [^९]कलकलरवैरिव
तिरस्क्रियन्ते साधुवादाः। ध्वजपटपल्लवैरिव परामृश्यते यशः । तथाहि – के [^१०]चि [^११]च्छ्रमवशशिथिलशकुनि [^१२]गलपु-
टचटुलाभिः खद्योतोन्मेषमुहूर्तमनोहराभिर्मनस्विजनगर्हिताभिः संपद्भिः प्रलोभ्यमाना धनलवलाभावलेपविस्मृतजन्मानोऽनेकदोषो- पचितेन [^१३]दोषासृजेव रागावेशेन
 
[ टि ]-- करोति । श्रुताप्याकर्णिताप्यभिसंधत्ते [^1]संशयं करोति । चिन्तितापि वञ्चयति वञ्चनां करोति । एवंविधयापि पूर्वोक्तलक्ष- णलक्षितयाप्यनया श्रिया दुराचारया दुष्टाचरणया कथमपि महता कष्टेन दैववशेन भाग्यवशेन परिगृहीताः स्वीकृता राजानो विक्लवा विह्वला भवन्ति । सर्वेषामविनयानां दुर्बुद्धीनामधिष्ठानतामधिकर- णतां च गच्छन्ति प्राप्नुवन्ति । चकारः समुच्चयार्थः । तदेव दर्शयति - तथाहीति । अभिषेकसमये राज्याभिषेकक्षण एवैतेषां राज्ञां
मङ्गलकलशजलैरिव कल्याणकुम्भाम्भोभिरिव दाक्षिण्यमनुकूलता प्रक्षाल्यते धावनविषयीक्रियते । अग्नीति । अभिषेकानन्तरं होमस्य सद्भावादग्नीत्युक्तम् । अग्निकार्यं होमादि तस्य धूमेन हृदयं स्वान्तं मलिनीक्रियते । राज्ञामिति शेषः । पुरोहितेति । पुरोहितः पुरोधा- स्तस्य कुशाग्राणि दर्भाग्राण्येव संमार्जन्यो बहुकार्यस्ताभिरिव
क्षान्तिः क्षमापहियते दूरीक्रियते । उष्णीषेति । उष्णीषं मूर्धवेष्टनं तदेव पट्टबन्धस्तेनेव जरा विससा तस्याः आगमनमागमस्तस्य स्मरणं स्मृतिराच्छाद्यत आव्रियते । आतपत्रेति । आतपत्रं छत्रं तस्य मण्डलेन निस्तलेन परलोकस्य भवान्तरस्य दर्शनमवलोकनमप- सार्यते दूरीक्रियते । चामरेति । चामरं वालव्यजनं तस्य पवनै र्वीजनैरिव सत्यमवितथं वदतीत्येवंशीलः सत्यवादी तस्य भावस्त-
त्ता सा अपह्रियतेऽपहरणविषयीक्रियते । वेत्रेति । वेत्रदण्डैर्वैतस- यष्टिभिरिव गुणाः शौर्यादय उत्सार्यन्ते दूरीक्रियन्ते । जयेति । जय- शब्दस्य ये कलकलरवाः कोलाहलशब्दास्तैरिव साधुवादाः ख्यात- यस्तिरस्क्रियन्ते न्यक्क्रियन्ते । ध्वजेति । ध्वजा वैजयन्त्यस्तेषां पटा वस्त्राणि तेषां पल्लवैः प्रान्तैरिव यशः श्लोकः परामृश्यते परामर्शो लोपः स क्रियते । तदेव दर्शयति- तथाहीति । केचिन्म [^2]नुष्याः । श्रमेति । श्रमवशेन यासाधिक्येन शिथिल श्लथोऽदृढः शकुने- र्मयूरस्य अन्यस्य वा पक्षिविशेषस्य यो गलः कण्ठस्तस्य यत्पुटं तद्वच्चपलाभिः । मयूरस्य कण्ठः श्रमवशेन चात्यन्तं चपलः स्या- दिति तदुपमानम् । खद्योत इति । खद्योतो ज्योतिरिङ्गणस्तस्य य उन्मेषोऽवभासस्तद्वन्मुहूर्तं मनोहराभिश्चित्तहारिणीभिः । मनस्वीति । मनस्विजनाः पण्डितलोकास्तैर्गर्हिताभिर्निन्दिताभिरेवंविधाभिः
संपद्भिः समृद्धिभिः प्रलोभ्यमाना लोभं प्राप्यमाणाः। धनेति । धनस्य द्रव्यस्य यो लवो लेशस्तस्य लाभः प्राप्तिस्तस्माद्योऽवलेपोऽहंकार- स्तेन विस्मृतं विस्मरणं प्राप्तं जन्म येषां ते तथानेके [^3]दोषा दूषणानि तैरुपचितेन व्याप्तेन । रागावेशेनेति । राग इच्छारुण्यं च तेषामावेशस्तन्मयीभावस्तेन बाध्यमानाः पीड्यमानाः ।
 
टिप्प० - [^1]F. कपटव्यवहारं करोति ।
[^
2]F. राज्ञां प्रसङ्गे 'मनुष्याः' इति व्याख्या प्रमाद: । राजान
इत्युचितम् ।
[^
3]F. दोषैः वातपित्तकफविकारैः उपचितेन वृद्धिंगतेन दुष्टेन असृजा ( रक्तेन ) यथा पी-
ड्यमाना भवन्ति तथादोषैः कामक्रोधा- दिभिः प्रवृद्धेन रागावेशेन विषयासक्तिरूपेणाभिनिवेशेन अधरी-
क्रियमाणा इति व्याख्योचिता । इदं सर्व अवं भ्रममात्रम् । अत एव 'दुष्टासृजेव' इत्येव पाठः,
'दोषोपचितेन' इति पूर्व मुक्तत्वे न पौनरु- क्त्यप्रसङ्गात् ।
'दोषोपचितेन'
 
पाठा० –

[^
]G. दैवपरिगृहीता.
[^
]G. विक्लवीभवन्ति .
[^
]G. एवैषाम्; एव चैषाम् .
[^
]G. मलिनीभवति .
[^
]G. अपनीयते.
[^
]G. पद.
[^]G. अवच्छाद्यते, .
[^
]G. अपवार्य; अपवार्यते.
[^
]G. कलकलैः .
[^
१० ]G. क्वचित् .
[^
११]G. श्रम शिथिल, .
[^
१२]G. पक्षपुट, .
[^
१३]G. दुष्टासृजेव.