2024-02-08 11:17:12 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२२८
 
कादम्बरी ।
 
[ कथायाम्-
मङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमि न पश्यति । अभि- जातमहिमिव लक्ष्यति ।
शूरं कण्टकमिव परिहरति । दातारं [^२]दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपै [^३]पस-

र्पति । मनस्विनमुन्मत्तमिवोप [^४]हसति । परस्परविरुद्धं चेन्द्र- जालमिव दर्शयन्ती प्रै[^५]प्रकटयति
जगति निजं चरितम् । तथाहि । [^६]संततमूष्माणमुपज [^७]नयन्त्यपि जाड्यमुपजनयति । उन्नति-
मादधानापि नीचस्वभावतामाविष्करोति । [^८]तोर्थराशि- संभवापि तृष्णां संवर्धयति । ईश्वर
तां दधानाप्य शिवप्रकृतित्वमात- नोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतस-
होद- रापि कें[^९]कटुकविपाका विग्रहवत्यप्य प्रत्यक्षदर्शना । पुरुषोत्तम- रतापि खलजनप्रिया । रेणु-
मयीव स्वच्छमपि कलुषीकरोति । यथा- यथा चेयं चपला दीप्यते तथातथा दीपशिखेव
कज्जलमलिनमेव कर्म केवलमुद्रमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषव- ल्लीनाम्,
व्यागीतिरिन्द्रिय मृगाणाम्, परामर्शधूमलेखा सच्चरित- चित्राणांणाम्, विभ्रमशय्या मोहदीर्घ-
."
 

 
[ टि ]--
अभिजातं कुलीनमहिमिव सर्पमिव लङ्घयत्युत्क्रामयति । शूरमिति । शूरं शौर्यगुणोपेतं कण्टकमिव परिहरति
दूरतस्त्यजति । दातारमिति । दातारं बहुप्रदं दुःस्वप्नमिवाशुभस्वप्नमिव न स्मरति न स्मृतिविषयीकरोति
विनीतमिति । विनीतं विनयगुणोपेतं पातकि- नमिव पापकारिणमिव नोपसर्पति न पार्श्वे प्रयाति । मन इति ।

मनस्विनं पण्डितमुन्मत्तमिव ग्रथिलमिवोपहसत्युपहास्यं करोति । इन्द्रेति । इन्द्रजालमिव कुहकमिव
परस्परविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकट- यत्याविष्क-
रोति । तदेव दर्शयति — तथाहीति । संततं निरन्तरमू- ष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्यमुप
जनयतीति विरोधः शाब्दः । तत्परिहारस्तूष्माणं दर्प [^1]शैल्त्यं जाड्यमित्य- र्थात् । उन्नतिमादधानापि धारयन्त्यपि
नीचस्वभावतामाविष्करोती- ति विरोधः । तत्परिहारस्तून्नतिमुत्कर्षं नीचस्वभावोऽकर्तव्यं कर्मे- त्यर्थात् । तोयराशिः
समुद्रस्तस्मात्संभ [^2]वापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ध्यमित्यर्थात् । ईश्वर- तां
दधानाप्यशिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः । तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभमित्य-
र्थात् । बलोपचयमा- हरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्य समूहं
लघिमानं कार्पण्यमित्यर्थात् । अमृतसहोद- राप्यमृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति विरोधः ।
तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् । विग्रहवत्यपि मूर्तिमत्य- प्यप्रत्यक्षमगम्यं दर्शनं यस्या इति विरोधः
तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति विरोधः
तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवंविधापि खलजनानां प्रिया वल्लभेत्यर्थात् । रेणुमयीव
रजोगुण- मयीव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति । यथेति । यथायथेयं लक्ष्मीश्चपला चञ्चला
दीप्यते दीप्ता भवति तथातथा केवलं दीपशिखेव कज्जलवन्मलिनं कश्मलं कर्मोद्वमत्युद्गिरति । दीपशिखापि
कज्जललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शयति — तथाहीति । तृष्णा लोभस्तलक्षणानां विष -
वल्लीनां संव- र्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धि हेतुत्वे- न साम्यम् । छेद योग्यतया
तृष्णावल्लयोः साम्यम् । व्याधेति । व्याध- गीतिर्मृगवधजीविगानमिन्द्रियमृगाणामक्षहरिणानाम् । अत्र नाश-
क- त्वसाम्याच्छ्रीगीत्योः साम्यम् । नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् । गानलुब्धाश्च मृगा हन्यन्त इति सर्व-
प्रसिद्धम् । सच्चरितानि सदाच- रणानि तान्येव चित्राणि तेषां परामर्श [^3]आमर्शनं तदर्थं या धूम- लेखा धूमपङ्किः ।
 
टिप्प० -
क्ति: ।
 
[^
1]F. टीकाकारस्यापि जाड्यम् । जाड्यम् ( जडत्वम् ) सदसद्वि- वेकरा हित्यरूपं मौढ्यमित्यर्थो
वाच्यः ।
[^
2]F. समुद्रः संभवः ( उत्पत्तिस्थानं ) यस्याः इत्युचितोर्थः ।
[^
3]F. प्रोञ्छनम्, आवरणमित्यादिरर्
थं उचितः ।
 

 
[^१]G
.
 
पाठा० -- १
इव पश्यति.
[^
]G. दुःखस्वप्नम् .
[^
]G. नापसर्पति .
[^
]G. हसति .
[^
]G. प्रकटयति निजम्.
[^
]G. सततम्.

[^
]G. आरोपन्त्यपि.
[^
]G. राशिरिव .
[^
]G. कटुविपाका.