This page has not been fully proofread.

२२८
 
कादम्बरी ।
 
[ कथायाम्-
मङ्गलमिव न बहु मन्यते । सुजनमनिमित्तमिष न पश्यति । अभिजातमहिमिव लक्ष्यति ।
शूरं कण्टकमिव परिहरति । दातारं दुःस्वप्नमिव न स्मरति । विनीतं पातकिनमिव नोपैस-
र्पति । मनस्विनमुन्मत्तमिवोपसति । परस्परविरुद्धं चेन्द्रजालमिव दर्शयन्ती प्रैकटयति
जगति निजं चरितम् । तथाहि । संततमूष्माणमुपजनयन्त्यपि जाड्यमुपजनयति । उन्नति-
मादधानापि नीचस्वभावतामाविष्करोति । तोर्थराशिसंभवापि तृष्णां संवर्धयति । ईश्वरत
दधानाप्य शिवप्रकृतित्वमातनोति । बलोपचयमाहरन्त्यपि लघिमानमापादयति । अमृतस-
होदरापि केंटुकविपाका विग्रहवत्यप्य प्रत्यक्षदर्शना । पुरुषोत्तमरतापि खलजनप्रिया । रेणु-
मयीव स्वच्छमपि कलुषीकरोति । यथायथा चेयं चपला दीप्यते तथातथा दीपशिखेव
कज्जलमलिनमेव कर्म केवलमुद्रमति । तथाहि । इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम्,
व्याघगीतिरिन्द्रिय मृगाणाम् परामर्शधूमलेखा सच्चरितचित्राणांम्, विभ्रमशय्या मोहदीर्घ-
."
 
अभिजातं कुलीनमहिमिव सर्पमिव लङ्घयत्युत्क्रामयति । शूरमिति । शूरं शौर्यगुणोपेतं कण्टकमिव परिहरति
दूरतस्त्यजति । दातारमिति । दातारं बहुप्रदं दुःस्वप्नमिवाशुभस्वप्नमिव न स्मरति न स्मृतिविषयीकरोति ।
विनीतमिति । विनीतं विनयगुणोपेतं पातकिनमिव पापकारिणमिव नोपसर्पति न पार्श्वे प्रयाति । मन इति ।
मनस्विनं पण्डितमुन्मत्तमिव ग्रथिलमिवोपहसत्युपहास्यं करोति । इन्द्रेति । इन्द्रजालमिव कुहकमिव
परस्परविरुद्धमन्योन्यासंबद्धं दर्शयन्ती प्रकाशयन्ती निजमात्मीयं चरितं वृत्तं जगति लोके प्रकटयत्याविष्क-
रोति । तदेव दर्शयति — तथाहीति । संततं निरन्तरमूष्माणं तापमुपजनयन्त्यपि कुर्वत्यपि जाड्यं शैत्यमुप
जनयतीति विरोधः शाब्दः । तत्परिहारस्तूष्माणं दर्प शैल्यं जाड्यमित्यर्थात् । उन्नतिमादधानापि धारयन्त्यपि
नीचस्वभावतामाविष्करोतीति विरोधः । तत्परिहारस्तून्नतिमुत्कर्ष नीचस्वभावोऽकर्तव्यं कर्मेत्यर्थात् । तोयराशिः
समुद्रस्तस्मात्संभवापि समुत्पन्नापि तृष्णां संवर्धयतीति विरोधः । तत्परिहारस्तु तृष्णां गार्ध्यमित्यर्थात् । ईश्वरतां
दधानाप्यशिवप्रकृतित्वमनीश्वरप्रकृतित्वमातनोतीति विरोधः । तत्परिहारस्त्वीश्वरतां प्रभुतामशिवमशुभमित्य-
र्थात् । बलोपचयमाहरन्त्यप्यानयन्त्यपि लघिमानमापादयतीति विरोधः । तत्परिहारस्तु बलोपचयं सैन्य समूहं
लघिमानं कार्पण्यमित्यर्थात् । अमृतसहोदराप्यमृतेन सहोत्पन्नापि कटुकरसोपेतो विपाको यस्या इति विरोधः ।
तत्परिहारस्तु कटुको दुःखदायीत्यर्थात् । विग्रहवत्यपि मूर्तिमत्यप्यप्रत्यक्षमगम्यं दर्शनं यस्या इति विरोधः ।
तत्परिहारस्तु विग्रहवती कलहवतीत्यर्थात् । पुरुषोत्तमरतापि खला ये दुर्जना जनास्ते प्रिया यस्या इति विरोधः ।
तत्परिहारस्तु पुरुषोत्तमे कृष्णे रतं मैथुनं यस्या एवंविधापि खलजनानां प्रिया वल्लभेत्यर्थात् । रेणुमयीव
रजोगुणमयीव स्वच्छमपि निर्मलमपि कलुषीकरोति मलिनीकरोति । यथेति । यथायथेयं लक्ष्मीश्चपला चञ्चला
दीप्यते दीप्ता भवति तथातथा केवलं दीपशिखेव कज्जलवन्मलिनं कश्मलं कर्मोद्वमत्युद्गिरति । दीपशिखापि
कज्जललक्षणं यन्मलिनं कर्म तदेवोद्वमति । तदेव दर्शयति — तथाहीति । तृष्णा लोभस्तलक्षणानां विष -
वल्लीनां संवर्धने विस्तारणे वारिधारा जलश्रेणिः । अत्र श्रीजलधारयोर्वृद्धि हेतुत्वेन साम्यम् । छेद योग्यतया
तृष्णावल्लयोः साम्यम् । व्याधेति । व्याधगीतिर्मृगवधजीविगानमिन्द्रियमृगाणामक्षहरिणानाम् । अत्र नाश-
कत्वसाम्याच्छ्रीगीत्योः साम्यम् । नाश्यत्वसाम्याच्चाक्षमृगयोः साम्यम् । गानलुब्धाश्च मृगा हन्यन्त इति सर्व-
प्रसिद्धम् । सच्चरितानि सदाचरणानि तान्येव चित्राणि तेषां परामर्श आमर्शनं तदर्थ या धूमलेखा धूमपङ्किः ।
 
टिप्प० - 1 टीकाकारस्यापि जाड्यम् । जाड्यम् ( जडत्वम् ) सदसद्विवेकरा हित्यरूपं मौढ्यमित्यर्थो
वाच्यः । 2 समुद्रः संभवः ( उत्पत्तिस्थानं ) यस्याः इत्युचितोर्थः । 3 प्रोञ्छनम्, आवरणमित्यादिरर्थ
उचितः ।
 
.
 
पाठा० -- १ इव पश्यति. २ दुःखस्वप्नम् ३ नापसर्पति ४ हसति ५ प्रकटयति निजम्. ६ सततम्.
७ आरोपगन्त्यपि. ८ राशिरिव ९ कटुविपाका.