This page has not been fully proofread.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
૨૨૭
 
प्रयत्नविधृतापि परमेश्वरगृहेषु विविधगन्धगजगण्डमधुपानमत्तेव परिस्खलति । पारुष्यमिवो-
पशिक्षितुमसिधारासु निवसति । विश्वरूपत्वमिव ग्रहीतुमाश्रिता नारायणमूर्तिम् । अप्रत्यय-
बहुला च दिवसान्तकमलमिव समुपचितमूलदण्डकोशमण्डलमपि मुञ्चति भूभुजम् । लतेव
विटपकानध्यारोहति । गङ्गेव वसुजनन्यपि तरंगबुदचञ्चला। दिवसकरगतिरिव प्रकटित-
विविधसंक्रान्तिः । पातालगुहेव तमोबहुला । हिर्डेम्बेव भीमसाहसैकहार्यहृदया। प्रावृडि
वाचिरयुतिकारिणी । दुष्टपिशाचीव दर्शितानेकपुरुषोच्छ्राया स्वरूपसत्त्वमुन्मत्तीकरोति । सर-
स्वती
परिगृहीत मीयेयेव नालिङ्गति । जनं गुणवन्तमपवित्रमिव न स्वशति । उदारसत्वम-
.
 

 
न्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं भवतु परं साधुगृहेष्वपरिस्खलिता कुतो न तिष्ठतीत्यत आह -
पारुष्यमिति । पारुष्यं क्रूरत्वमिवोपशिक्षितुमभ्यसितुमसिधारासु खङ्गधारासु निवसति निवासं करोति ।
ययासिधारासु क्रौर्यशिक्षणं कृतं सा क्रूरा साधुगृहेषु कथं तिष्ठतीति भावः । विश्वं प्रविष्टं यस्मिन्रूपे तत् । अथवा
विश्वेन रूप्यते निरूप्यते यद्रूपं तद्विश्वरूपं तस्य भावस्तत्त्वं तदिव ग्रहीतुं नारायणमूर्ति जनार्दन शरीर-
माश्रिताधिगता । अप्रत्ययेति । अप्रत्ययोऽविश्वासो बहुलो यस्यामेवंभूता सती । दिवसान्ते यथा कमलं
स्वाश्रयं मुञ्चति तथा स्वाश्रयीभूतं भूभुजमपि । तत्रोभयोः साम्यमाह - समिति । सम्यक्प्रकारेणोपचितानि
वृद्धिं प्राप्तानि । अथ च समुपचितं वर्धमानं मूलं मित्रादिमूलकन्दः, दण्डो नालम्, कोशः कमलाभ्य-
न्तरम्, मण्डलं पारिमाण्डल्यम्, एतानि यस्येति विग्रहः । दण्डः करः, कोशो भाण्डागारः, मण्डलं देशो
यस्य । 'मण्डलं द्वादशराजकम्' इत्येकस्य । 'विजिगीषुरुदासीनो मध्यमश्चेति राजकम् । गुणानां विषयं वृद्धा
जगुः प्रकृतिमण्डलम् । पाणिराकन्द आसारः' इत्यपि । 'तदेवं शक्रमित्यादिभेदा द्वादश इष्यते । मण्डलं
द्वादशराजकम्' इत्यन्ये । लता वल्ली सेव विटा भण्डादयस्तान्पान्तीति विटपाः । विटपा एव विटपकाः ।
स्वार्थे कप्रत्ययः । पक्षे विटपा वृक्षाः । विटपान्ध्यारोहव्याश्रयणं करोति । गङ्गा स्वर्धुनी सेव वसु द्रव्यं तज्जनन्यपि
तरंगा भङ्गाः बुद्बुदः स्थासकस्तद्वच्चञ्चला चपला । पक्षे वसोर्भीष्मस्य (जननी) तरंगबुद्रुदाभ्यां चाञ्चल्यवती च ।
दिवसकर: सूर्यस्तस्य या गतिर्गमनं सेव प्रकटिताविष्कृता विविधानेकप्रकारा संक्रान्तिर्वस्तुनेच्छासंबन्धो यया
सा । पक्षे राशिषु सूर्यसंबन्धः । पातालं वडवामुखं तस्य गुहा कन्दरा सेव तमोगुणस्तेन बहुला दृढा पक्षे
तमोऽन्धकारः । हिडम्बेव घटोत्कच प्रसूरिव भीमसाहसेनाति कठिनकर्मणैकमद्वितीयं हार्द ( ) हृदयं यस्याः । पक्षे
भीमस्य वृकोदरस्य यः साहसगुणः । प्रावृडिति । प्रावृर्षाकाल: सेवाचिरा स्वल्पकालीना या द्युतिः प्रकाश-
स्तत्कारिणी । पक्षेऽचिरद्युतिर्विद्युत् । दुष्टेति । दुष्टा क्रूरा या पिशाची राक्षसी सेव दर्शितः प्रकटीकृतोऽनेक-
पुरुषाणामुच्छ्रायोऽभ्युँन्नतिर्यया सा । पक्ष ऊर्ध्वंकृतभुजपाणिनरमानं पुरुषः । अनेक पुरुषाणामुच्छ्राय उच्चता ।
एवंभूता लक्ष्मीः स्वल्पसत्त्व मल्पसाहसं नरमुन्मत्तीकरोत्युन्मत्ततां नयति । सरस्वतीति । सरस्वती भारती
तया परिगृहीतं स्वीकृतं नरमीर्ष्ययेव मत्सरेणेव नालिङ्गति नाश्लिष्यति । गुणवन्तं शौर्यादिगुणोपयुक्तं जनं नरम-
पवित्रमिवापावनमिव न स्पृशति न स्पर्श करोति । उदारेति । उदारं स्फारं सत्त्वं यस्यैवंविधं पुरुषममङ्ग
लमिव न बहु मन्यते नादरं करोति । सुजनं शुभजननिमित्तमिवै निष्फलमिव न पश्यति नावलोकयति ।
 
टिप्प० - 1 कदाचिद्वयापारिणां गृहे वाणिज्यलक्ष्मीरूपेण, कदाचिद्वीराणां राज्ञां राजलक्ष्मीरूपेणे-
त्यादिनानारूपधारणं विश्वरूपधारकस्य विष्णोः सकाशाद् गृहीतमित्युत्प्रेक्षा । 2 प्रकटिता विविधेषु
( जनेषु ) संक्रान्ति: संचारो यया सेति स्पष्टोर्थोपि प्रहेलिकायां परिणमितः । 3 अनेकेषां पुरुषाणामभ्यु.
दयो दर्शितः (लक्ष्म्या), अनेक पुरुषपरिमिता उच्चता दर्शिता (पिशाच्या) इति स्फुटोऽर्थः । 4 उल्का-
पातादि दुर्लक्षणमित्यर्थो वक्तव्यः ।
 
पाठा० - १ दिवसावसानकमलम्. २ हिडिम्बेव.