2023-09-05 09:56:14 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

कादम्बरीसारः ।
 
२१
 
चन्द्रापीडश्चिरवियुक्तस्य प्रियसुहृदो वैशम्पायनस्य मार्ग एव प्रत्युद्गमनाय पितृभ्यां शुकनासा-
च्चानुमतिमा चकाङ्क्ष । तारापीडश्चन्द्रापीडस्य यौवनारोहमालोक्य विवाहस्य प्रस्तावमाकलयन्
शुकनासमुखेन प्रत्युद्गमनानुमतिं ददौ । अथ चन्द्रापीडस्तुरगसैन्यमादाय वैशम्पायनाभिमुखं
प्रतस्थे । मार्गे च निजं स्कन्धावारमागच्छन्तमालोकयत् । सुहृदर्शन द्दर्शनप्रत्याशया तत्र गतोपि शुश्राव
यत् "वैशम्पायनोऽच्छोदसरस्तटे आगत्य सहसैत्र विकृतचित्तोऽभवत्स्नानभोजनादिकं परित्यज्य
लतामण्डपैकदत्त- दृष्टिरस्मान् गन्तुमाज्ञापयत । आगमनाय कृतानुरोधस्तु सोत्तेजनमवादीत्-
'नाहं गन्तुं शक्नोमि । न मे देहो मनो वा वशे । अत एव कुमारस्य कार्यो परोधहरणाय यूयं
गच्छत' इति । दिनत्रयं तत्सान्त्वनचेष्टायां निष्प्रत्याशाः संप्रति वयं तत्प्रबन्धं तत्रैव विधाय कुमार-
सूचनाय परावृत्ताः स्मः" इति ।
 

 
कथमकस्मादिदं तस्य चित्तवैकृत्यमभूदिति विषण्णचित्तो बहुधा विकल्पयँस्तुरङ्गसैन्येनोज्जयिनीं
पराववृते कुमारः । तारापीडो वैशम्पायन वैराग्ये चन्द्रापीडस्य कञ्चिदपराधमाशशङ्के, किन्तु शुक-
नासः सर्वमिदमपममोमार्ज । परतस्तु –वैशम्पायनानयना अच्छोदतटे गमनानुज्ञामयाचञ्च्चन्द्रापीडः ।
प्रवासाय प्रेषयन्ती माता हृदयेऽभूतपूर्व विषादमकस्मादनुभूय अतिशीघ्रमागन्तुमाज्ञाप्य यथाक-
धं
थञ्चिद्विससर्ज । मनसि नानामनोरथानावर्तयंश्चन्द्रापीडो मार्गे यात्राविघ्नकरं प्रावृट्कालं यापया-
मास । त्रिभागमात्रावशिष्टे चाध्वनि अच्छोदाम्त्परावर्तमानं मेघनादम् ( सेनाध्यक्षम् ) अलोक-
यत् । उत्कण्ठितेन चन्द्रापीडेन – 'अच्छोदसरस्तटे दृष्टस्त्वया वैशम्पायनः ?' इति पृष्टः सेनाध्यक्षो
व्यजिज्ञपत्
– 'अच्छोदसरः समीपे वैशम्पायनागमनस्य कथैव न श्रुता मया । विशेषतश्च पत्र-

लेखाकेयूरकाभ्यामहमुज्जयिनीं विसर्जितो यत्त्वरितमागमनाय कृतप्रतिज्ञोपि कुमारः प्रावृष्यस्यां न
राजदम्पतिभ्यां प्रेषितः । तत्तवानुपदमावामप्यागतावेव' इति ।
 

 
चन्द्रापीडस्तु विरह विकलायाः कादम्बर्याः का दशा स्यादस्यां प्रावृषि, इति नानाविचार-
संतप्तो यथाकथंचिदच्छोदमासाद्य तत्र च सर्वतो विचिन्वन्नपि वैशम्पायनमनासाद्य तद्वृत्तान्तोप-
लम्भाशया महाश्वेतामुपजगाम । तत्र च तरलिकया यथाकथंचिदवस्थाप्यमान शरीरामति विकलां
तां ददर्श । 'हन्त न किञ्चिदनिष्टं स्याद्देव्याः कादम्बर्याः' इति मनसि विषीदन्कुमारो वैकल्यस्य
,
कारणं पप्रच्छ । गद्गदकण्ठा सा जगाद - "महाभाग, मन्दभाग्याहं हेमकूटाद्यावदिह परावृत्ता
तावदेव भवत्तुल्याकृतिमेकं ब्राह्मणयुवानं प्रनष्टमिव किञ्चिद्विचिन्वन्तमितस्ततो व्यलोकयम् । स तु
मां दृष्ट्वैव परिचित इव स्निग्धया दृष्ट्या विलोकयन्, भूयसा निवार्यमाणोपि चाटूनि वदन्
कामाकूतेन मुहुरम्भ्यसरत् । अहं तु तमनभि- वीक्ष्यैवोपेक्षयाऽन्यतोऽगच्छम् । अथैकदा ज्योत्स्ना-
पूरप्लावितायां गाढयामिन्यां सर्वेषु सुप्तेषु नित नभृतपदसंचारी मदनाविष्टतया युक्तायुक्तविचार-
शून्योसौ मामागत्य – 'चन्द्रमुखि ! हन्तुमुद्यतो मामेष कुसुमशरसहायश्चन्द्रमाः । तत्त्वां शरण-
मागतोऽस्मि' इत्यादि शुक इव नाना प्रलपन् मुहुर्निवार्यमाणोपि यदा न व्यरमत्तदा प्रियतमशो-
कोद्दीप्तमन्युश्चन्द्राभिमुखी भूत्वा 'सकलभुवनचूडामणे ! यदि मया देवस्य पुण्डरीकस्य दर्शना-

 
कादंबरी प्र. ४
 
"