2024-01-27 09:55:50 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२२६
 
कादम्बरी ।
 
[ कथायाम्-
। मदजल-
विधृताप्यपक्रामति
 
न्द्रीकृतापि नश्यति । उद्दामदर्पभटसहस्रो [^१]ल्लासितासिलता- पञ्जर
विधृताप्यपक्रामति। मदजलदुर्दिनान्धकारगजघं [^२]घटित-
घन [^३]घटापरिपालितापि प्रपलायते । न परिचयं रक्षति । नाभि- जन-
मीक्षते । न रू॒[^४]रूपमालोकयते । न कुलक्रममनुवर्तते । न शीलं पश्यति । न वैदग्ध्यं गण-
यति । न श्रुतमाकर्णयति । न धर्म- मनुरुध्यते । न त्यागमाद्रियते । न विशेषज्ञतां विचार-
यति । नाचारं पालयति । न सत्यम [^५]नुबुध्यते । न लक्षणं प्रमाणीकरोति । [^६]गन्धर्वनगरले -
खेव पश्यत एव नश्यति । अद्याप्यारूढ मन्दर- परिवर्तावर्त भ्रान्तिजनित संस्कारेव परि [^७]भ्रमति ।
कमलिनी [^८]संचरणव्यतिकरलग्न नलिनना ले[^९]लकण्टकेव न कैं[^१०]क्व- चिदपि निर्भरमाबध्नाति पदम् । अति-

 

 
[ टि ]--
लीकृतापि नश्यति प्रपलायते । उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषामेवंभूता ये भटा योद्धारस्तेषां
सहस्रं तेन उल्ला- सिता ऊर्ध्वंवीकृता या असिलतांस्ता एव पञ्जरं तत्र विधृतापि स्थापि- ताप्यपक्रामत्यपसरति ।
मदेति । मदजलं दानवारि तदेव श्याम- त्वसाधर्म्याहुद्दुर्दिनान्धकारस्तद्युक्ता ये गजा हस्तिनस्तैर्घटिता निष्पादिता
या घे[^1]घना निबिडा घटा समूहस्तया परिपालितापि रक्षितापि प्रपलायते पलायनं करोति । नेति । परिचयं
संस्तवं न रक्षति न पालयति । नेति । अभिजनं कुलं नेक्षते नावलोकयति । नेति । रूपं सौन्दर्यं न आलोक-
यतेऽवलोकयति । नेति । कुलक्रमं कुलपरिपार्टीटीं नानुवर्तते नानुगच्छति । नेति । शीलमाचारं न पश्यति

नावलोकयति । नेति । वैदग्ध्यं पाण्डित्यं न गणयति न विचारयति । नेति । श्रुतं शास्त्रं नाकर्णयति न शृणोति
नेति । धर्मं वृषं नानु- रुध्यते धर्मानुरोधेनैव न प्रवर्तते । अधर्मवतामपि गृहे तद्दर्शनात् । नेति । त्यागं दानं
प्रति नाद्रियते नादरं करोति । कृपणसद्मन्यपि दर्शनात् । नेति । विशेषज्ञतां विशेषेण सर्वार्थवेदितां न
विचारयति न विचारणां करोति । यत एव विद्वांसो दरिद्रोपद्रुताः स्युरिति प्रसिद्धिः । नेति । आचारं शिष्टानु-
चरितं मार्गं न पालयति न रक्षति । लक्ष्मीवतोऽपि प्रायः ( अ ) शिष्टाचरणदर्शनात् नेति । सत्यमवितथं

नानुबुध्यते न जानाति । असत्यवतोऽपि गृहे बाहुल्येन दर्शनात् । नेति । लक्षणं मषीतिलकादि सामुद्रिक -
शास्त्रप्रतिपादितं न प्रमा- णीकरोति । लक्षणसत्त्वेऽपि तस्या अभावदर्शनात् । गन्धर्वेति । गन्धर्वनै [^2]नगरलेखा
हरिश्चन्द्रपुरीति यस्याः प्रसिद्धिः । असद्वस्तु- भ्रमो वा । तद्वदेव पश्यत एवावलोकयत एव पुरुषस्य नश्यति

विनश्यति । अद्यापीति । अद्यापि इदानीमप्यारूढः प्राप्तो यो मन्दरेण मेरुणा परिवर्तः परिभ्रमस्तज्जनितो
य आवर्तः पयसां भ्रमस्तस्माद्या भ्रान्तिर्भ्रमिस्तज्जनितः संस्कारो वेगाख्यो यस्या एवं- विधेव परिभ्रमति परि-
भ्रमणं करोति । क्वचिदपीति । क्वापि स्थले निर्भरं निश्चलं पदं नावबध्नाति न निदधाति । अत एवोत्प्रे-
क्षते – लक्ष्म्याः कमलवासस्य प्रसिद्धत्वात्कमलिनीषु संचरणव्यतिकरः संबन्धस्तेन लग्ना नलिननालकण्टकां
यस्याः सैवंविधेव । यथा भग्नकण्टका भूमौ निश्चलपदं न दत्ते तथेयमपीत्यर्थः । अतिप्रयत्ने- नातिप्रयासेन विधू-
तापि स्थिरीकृतापि परमेश्वरगृहेषूत्कृष्टे [^3]भ्य- सद्मसु परिस्खलति स्खलनां प्राप्नोति । विविधा ये गन्धगजा गन्धे-

भास्तेषां गण्डाः कटास्तेषां मधु मदस्तस्य पानमास्वादस्तेन मत्तेव क्षीबेव । ननु परमेश्वरगृहे गजास्तिष्ठ-
टिप्प० --

 
[^
1]F. इदमपि रूपकालंकारविध्वंसित्वादशुद्धम् । मदजलरूपै- र्दुर्दिनैः ( वृष्टिभिः ) अन्धका-
रिणो ये गजास्त एव घनघटा मेघसमू- हास्तैः परिपालितेत्यर्थ उचितः । दुर्दिनत्वारोपो गजेषु मेघत्वारोपे

कारणमिति परम्परितरूपकम् । परिपालितापि पलायते इति विभावना - विशेषोत्तक्त्त्योः संदेहसंकर श्चेति
द्वयोरङ्गाङ्गिभावसंकरः ।
[^
2]F. भूतयोनिविशेषाणां रात्रावेव दृश्यमानं यद् नगरं तत्पतिः । दृष्टिभ्रमाद् गगने
दृश्यमाना नगराकारा रेखा वा । यथा बृहत्संहि- ता-'गन्धर्वनगर मुत्थितमापाण्डुरमशनिपातवातकरम्'
इति ।
[^
3]F. अतिधनिक गृहेषु । 'इभ्य आढ्यो धनी स्वामी' ।
 
पाठा०-
-

 
 
[^
]G. उल्लसित .
[^
]G. गन्धगज .
[^
]G. घटाटोप.
[^
]G. आलोकयति .
[^
]G. अवबुध्यते .
[^
]G. गन्धर्वलेखेव, .
[^
]G. भ्रमति,
.
[^
]G. संचार.
[^
]G. कण्टकक्षतेव; कण्टकेत्येव.
[^
१०]G. क्वचिन्निर्भरम्,
 
.