2024-01-27 09:34:46 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

[^१]दर्पाश्च पृथुस्थगितश्रवणविवराश्चो [^२]पदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गजनिमीलिते [^३]नावधीरयन्तः खेद- यन्ति हितोपदेशदायिनो गुरुन् । अहंकारदाहज्वरमूर्च्छान्धकारिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीणि धनानि, राज्यवि [^४]षविकारतन्द्राप्रदा [^५]राजलक्ष्मीः ।
 
आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि [^६]खङ्गमण्डलोत्पलवनवि [^४]श्रमभ्रमरी लक्ष्मीः क्षीरसागरा- त्पारिजातपल्लवेभ्यो रागम्, इन्दुशकलादेकान्तवक्रताम्, उच्चैः- श्रवसश्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौ- स्तुभ [^८]मणेर्नैष्ठुर्यम्, इत्येतानि सहवासपरिचयवशाद्विरहविनो- दचिह्नानि गृहीत्वैवो [^९]द्गता । न ह्येवं [^१०]विधमपरिचितमिह
जगति किंचि [^११]दस्ति यथे [^१२]यमनार्या । लब्धापि खलु दुःखेन परिपाल्यते । दृढ [^१३]गुणसंदाननिस्प-
 
[ टि ]-- च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उपदिश्यमानमपि कथ्यमानमपि हितोपदेशमपि न शृण्वन्ति नाकर्णयन्ति । कदाचि- च्छृण्वन्तोऽप्याकर्णयन्तोऽपि गजो हस्ती तस्य यन्निमीलितं नेत्रसं- कोचरतद्वन्निमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदा- यिनः शिक्षाकथकान्गुरून्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी राज- प्रकृती राज्ञां स्वभावो विह्वला व्याकुला । अहमिति । अहंकार एव दाहज्वरस्तीव्रतापस्तद्धेतुका या मूर्च्छा मोहस्तयान्धकारितान्धकार इवाचरिता । धनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह – अलीकेति । अलीकोऽवास्तवो योऽभिमानोऽहंकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्रव्याणि । राज्यमिति । राज्यमेव विषं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राजश्रीः ।
 
नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह - आलोकयत्विति । कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यैवंभूतस्त्वं तावदादौ लक्ष्मीमेव प्रथम- मालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति । हि निश्चितम् । इयं प्रत्यक्षोपलभ्यमाना खड्गानां कौक्षेयकाणां यन्मण्डलं संघा- तस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र [^1]विश्रमोऽवस्थितिस्तस्मिं- श्चञ्चलत्वसाम्याद्भ्रमरी मधुकरी लक्ष्मीः । पुनर्दोषान्तरं प्रदर्शयन्ना - क्षीरेति । यदा कश्चिद्दूरदेशान्तरं गन्तुमीहते तदासौ च सहवासि- स्मृतिहेतोस्तदीयं किंचिद्वस्त्वादायैव गच्छति, तथेयमपि सहवास- जनितो यः परिचयः संबन्धविशेषस्तद्वशात्सहवासिपारिजातादीना- मित्येतानि वस्तूनि गृहीत्वैवादायैव क्षीरसागराद्दुग्धा-
म्बुधेरुद्गता- प्रादुर्भूता । कीदृशानि । विरहः सहवासिभिरसंबन्धस्तस्मिन्विनोद- चिह्नानि चित्तालम्बनलक्षणानि
एतानि कानीत्यपेक्षायामाह - पारी- ति । पारिजात पल्लवेभ्यो मन्दारकिसलयेभ्यो रागं विषयलिप्सामा- रुण्यं च ।
इन्दुशकलाच्चन्द्रलेखा(याः ) देकान्तवक्रतां कुटिलतां प्रातिकूल्यं च । उच्चैःश्रवस इन्द्राश्वाच्चञ्चलतां चित्तास्थैर्
यं चाञ्चल्यं च । कालकूटात्कालकूटनाम्म्रोनो विषान्मोहनशक्तितिं मूर्च्छत्पादकशक्ति- मन्यवशीकरणशक्तिं च । मदिरायाः
कादम्बर्या मदमुन्मादकत्वमु- न्मोहसंभेदलक्षणं च । कौस्तुभमणेर्नैष्टुर्यठुर्यं काठिन्यं निर्दयत्वं चेति । अथ लक्ष्म्यास्त -
त्सहितस्यापि राज्ञो निन्दां कुर्वन्नाह - नहीति । इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति
यथेयमना- र्याऽश्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लब्धापि महता कष्टेन प्राप्तापि दुःखेन खलु परि-
पाल्यते परिपालनविषयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तलक्षणं यत्संदानं बन्धनं तेन निस्पन्दी- कृतापि निश्च-
-
 
टिप्प० -

[^
1]F. विभ्रमभ्रमरीत्येव ग्रन्थानुकूलः पाठः । भ्रमणमेव भ्रमरस्व- भावो, विश्रमस्तु सर्वेषामेव ।
 
पाठा० - [^]G. दर्पश्वयथुस्थगित; दर्पाश्चर्यसंस्थगित .
[^
]G. उपदिश्यम् .
[^
]G. अवधारयन्तः .
[^
]G. विषविकारतन्द्री; विषतन्द्री;
 
D
 
विषयविकारतन्द्रा.
[^
]G. राज्यलक्ष्मीः .
[^
]G. सुभटखन्न ड्ग.
[^
]G. विभ्रम .
[^
]G. अतिनैष्ठुर्यम्.
[^
]G. इव.
[^
१०]G. अपरमपरिचितम्.
[^११]G. किंचिन्नास्ति.
[^
१२]G. अनार्या दुःखेन लभ्यते लब्धापि, .
[^
१३]G. गुणपाश.

२९ का०
 
.