This page has not been fully proofread.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
२२५
 
दर्पाश्च पृथुस्थगितश्रवणविवराञ्चोपदिश्यमानमपि ते न शृण्वन्ति । शृण्वन्तोऽपि च गज-
निमीलितेनाँवधीरयन्तः खेदयन्ति हितोपदेशदायिनो गुरुन् । अहंकारदाहज्वर मूर्च्छान्धका-
रिता विह्वला हि राजप्रकृतिः, अलीकाभिमानोन्मादकारीणि धनानि, राज्य विषैविकारतन्द्रा-
प्रदा राजलक्ष्मीः ।
 
आलोकयतु तावत्कल्याणाभिनिवेशी लक्ष्मीमेव प्रथमम् । इयं हि खङ्गमण्डलोत्पलवन-
विश्रमभ्रमरी लक्ष्मीः क्षीरसागरात्पारिजातपल्लवेभ्यो रागम् इन्दुशकलादेकान्तवक्रताम्,
उच्चैःश्रवसञ्चञ्चलताम्, कालकूटान्मोहनशक्तिम्, मदिराया मदम्, कौस्तुम मणेर्नैष्ठुर्यम्,
इत्येतानि सहवासपरिचयवशाद्विरह विनोदचिह्नानि गृहीत्वैवोद्गता । न ह्येवंविधँमपरिचितमिह
जगति किंचिदस्ति यथेमनार्या । लब्धापि खलु दुःखेन परिपालयते । दृढैगुणसंदाननिस्प-
च्छादितानि श्रवणविवराणि कर्णच्छिद्राणि येषां ते च । द्वौ चकारावेककालं सूचयतः । एवंविधा राजान उपदिश्य-
मानमपि कथ्यमानमपि हितोपदेशमपि न शृण्वन्ति नाकर्णयन्ति । कदाचिच्छृण्वन्तोऽप्याकर्णयन्तोऽपि गजो.
हस्ती तस्य यन्निमीलितं नेत्रसंकोचरतद्वन्निमीलितेनावधीरयन्तोऽनादरं कुर्वन्तः । हितोपदेशदायिनः शिक्षाकथका-
न्गुरून्खेदयन्ति । दुःखं प्रापयन्तीत्यर्थः । अथ नृपस्वभावं प्रदर्शयन्नाह - राजेति । हि निश्चितम् । एतादृशी
राजप्रकृती राज्ञां स्वभावो विह्वला व्याकुला । अहमिति । अहंकार एव दाहज्वरस्तीव्रता पस्तद्धेतुका या मूर्च्छा
मोहस्तयान्धकारितान्धकार इवाचरिता । धनराज्यलक्ष्म्याः स्वरूपं प्रदर्शयन्नाह – अलीकेति । अलीकोऽवास्तबो
योऽभिमानोऽहंकार उन्मादश्च तावुभौ कुर्वन्तीति तान्येवंविधानि धनानि द्रव्याणि । राज्यमिति । राज्यमेव
विषं गरलं तस्माद्यो विकारो विकृतिस्तेन कृत्वा तन्द्रालस्यं तत्प्रदा राजलक्ष्मी राजश्रीः ।
 
नेदं पूर्वोक्तमतथ्यं किंतु सत्यमेवेत्याह - आलोकयत्विति । कल्याणे मङ्गलेऽभिनिवेश आग्रहो यस्यैवं
भूतस्त्वं तावदादौ लक्ष्मीमेव प्रथममालोकयतु विचारयतु । लक्ष्मीदोषानाह - इयमिति । हि निश्चितम् ।
इयं प्रत्यक्षोपलभ्यमाना खजानां कौक्षेयकाणां यन्मण्डलं संघातस्तदेव कृष्णत्वसाम्यादुत्पलवनं तत्र बिश्रमोऽव-
स्थितिस्तस्मिंश्चञ्चलत्वस।म्यामरी मधुकरी लक्ष्मीः । पुनर्दोषान्तरं प्रदर्शयन्ना - क्षीरेति । यदा कश्चिद्दूरदे
शान्तरं गन्तुमीहते तदासौ च सहवासिस्मृतिहेतोस्तदीयं किंचिद्वस्त्वादायैव गच्छति, तथेयमपि सहवासजनितो
यः परिचयः संबन्धविशेषस्तद्वशात्सहवासिपारिजातादीना मित्येतानि वस्तूनि गृहीत्वैवादायैव क्षीरसागराद्दुग्धा-
म्बुधेरुद्गता प्रादुर्भूता । कीदृशानि । विरहः सहवासिभिरसंबन्धस्तस्मिन्विनोदचिह्नानि चित्तालम्बनलक्षणानि ।
एतानि कानीत्यपेक्षायामाह - पारीति । पारिजात पल्लवेभ्यो मन्दारकिसलयेभ्यो रागं विषयलिप्सामारुण्यं च ।
इन्दुशकलाच्चन्द्रलेखा(याः ) देकान्तवऋतां कुटिलतां प्रातिकूल्यं च । उच्चैःश्रवस इन्द्राश्वाच्चञ्चलतां चित्तास्थैर्य
चाञ्चल्यं च । कालकूटात्कालकूटनाम्म्रो विषान्मोहनशक्ति मूर्च्छत्पादकशक्तिमन्यवशीकरणशक्तिं च । मदिरायाः
कादम्बर्या मदमुन्मादकत्वमुन्मोहसंभेदलक्षणं च । कौस्तुभमणेष्टुर्य काठिन्यं निर्दयत्वं चेति । अथ लक्ष्म्यास्त -
त्सहितस्यापि राज्ञो निन्दां कुर्वन्नाह - नहीति । इह जगत्येवंविधमेतादृशमपरिचितं निर्दाक्षिण्यं किंचिन्नास्ति
यथेयमनार्याऽश्रेष्ठा वर्तते । एतदेव प्रपञ्चयन्नाह - लब्धेति । लब्धापि महता कष्टेन प्राप्तापि दुःखेन खलु परि-
पाल्यते परिपालनविषयीक्रियते । दृढं गाढं गुणाः शौर्यादयस्तलक्षणं यत्संदानं बन्धनं तेन निस्पन्दीकृतापि निश्च-
-
 
टिप्प० - 1 विभ्रमभ्रमरीत्येव ग्रन्थानुकूलः पाठः । भ्रमणमेव भ्रमरस्वभावो, विश्रमस्तु सर्वेषामेव ।
 
पाठा० - १ वर्पश्वयथुस्थगित; दर्पाश्चर्यसंस्थगित २ उपदिश्यम् ३ अवधारयन्तः ४ विषविकारतन्द्री; विषतन्द्री;
 
D
 
विषयविकारतन्द्रा. ५ राज्यलक्ष्मीः ६ सुभटखन्न ७ विभ्रम ८ अतिनैष्ठुर्यम्. ९ इव. १० अपरमपरिचितम्.
११ किंचिन्नास्ति. १२ अनार्या दुःखेन लभ्यते लब्धापि, १३ गुणपाश.
 
२९ का०
 
.