कादम्बरी /257
This page has not been fully proofread.
२२४
कादम्बरी ।
[ कथायाम्-
प्रहारजर्जरिते हि हृदि जलमिव गलत्युपदिष्टम् । अकारणं च भवति दुष्प्रकृतेरम्वयः श्रुतं
चौविनयस्य । चन्दनप्रभवो न दहति किमनल: ? किं वा प्रशमहेतुनापि न प्रचण्डतरीभ-
वति वडवानलो वारिणा ? गुरूपदेशश्च नाम पुरुषाणामखिलमलप्रक्षालनक्षै ममजलं स्नानम्,
अनुपजातपलितादिवैरूप्यमजरं वृद्धत्वम् अनारोपितमेदोदोषं गुरूकरणम्, असुवर्णविरं-
चनमग्राम्यं कर्णाभरणम्, अतीतज्योतिरालोकः, नोद्वेगकरः प्रजागरः । विशेषेण राज्ञाम् ।
विरला हि तेषामुपदेष्टारः । प्रतिशब्दक ईंव राजवचनमनुगच्छति जनो भयात् । उद्दाम-
."
हि निश्चितम् । कुसुमशरः कंदर्पस्तस्य शरा बाणास्तेषां प्रहारा अभिघातास्तैर्जर्जरिते शिथिलीभूते हृद्युपदिष्टमुप
देशविषयीकृतं जलमिव गलति क्षरति विनश्यति । निरर्थकं भवतीत्यर्थः । दोषान्तरमाह - अकारणं चेति ।
उपशमादिकार्यजनकं न भवतीत्यर्थः । ननु मदनशरप्रहारजर्जरितहृदयस्योपदेशाभावेऽप्युपदेशकार्यं प्रशमादिकं
सर्वमन्वयो वंशः, श्रुतं च शास्त्रम्, ताभ्यामेव भविष्यतीत्या शयेनाह - दुष्प्रकृतेरिति । दुष्प्रकृतेर्दुरात्मन-
स्तादृशहृदयस्यान्वयः श्रुतं चाविनेयस्य हेतोर्भवति । न तु विनयायेत्यर्थः । ननु सुवंशजस्य कथमविनये प्रवृत्ति-
रित्यत आह – चन्दनेति । चन्दनं मलयजं तस्मात्प्रभवो यस्यैवंभूतोऽनलो वह्निः किं न दहति न भस्मीक
रोति । परस्परसंघर्षंदोषे सति चन्दनात्समुत्थितोऽग्निर्दहत्येवेति । ननु प्रशम हेतुभूताच्छुतात्कथम विनयोत्पत्ति-
रित्यत आह - किं वेति । प्रथमहेतुनापि वारिणा किं वडवानलो वाडवाग्निस्तोयंधेः प्रादुर्भवति, सर्वलोकवि-
नाशाय सर्वदा महासमुद्रे तिष्ठति; यस्य वाडवामुख इति प्रसिद्धिः । न प्रचण्ड तरीभवति प्रबलतरो न स्यात् ।
अथ प्रकारान्तरेण गुरुवचनमाहात्म्यं वर्णय नाह– गुर्विति । नामेति कोमलामन्त्रणे । गुरूणां हिताहित-
प्राप्तिपरिहारोपदेष्टृणामुपदेशः शिक्षा । पुरुषाणाम् अजलं जलव्यतिरेकेणापि स्नानमालवः । कीदृशम् । अखिलः
समग्रो यो मलः कालुष्यं तस्य प्रक्षालनं झुचीकरणं तत्र क्षमं समर्थम् । अन्विति । अनुपजातमनुत्पन्नं
पलितं पाण्डुरः कचस्तदादिवैरूप्यं यस्मिन्नेतादृशम् । अजरमिति । जराव्यतिरेकेण वृद्धत्वं स्थविरत्वम् ।
अनेति । नारोपितः स्वीकृतो मैदोदोषो येनैवंभूतं गुरुकरणं स्थूलीभवनम् । मेदोदोषेण स्थूलता भवतीति
सर्वत्र प्रसिद्धम् । तथायं न भवतीत्यर्थः । असुवेति । न विद्यते सुवर्णस्य कनकस्य विरचनं यस्मिन्नेवंभूतम-
ग्राम्यं प्रशंसनीयं कर्णाभरणं श्रवणविभूषणम् । अतीतेति । अतीतो गतो ज्योतिः प्रकाशो यस्मादेवंभूत आलोक
उद्योतः । न उद्वेगकरो न संतापजनकः प्रजागरो जागरणम् । केवलं तवैव नायमुपदेश इत्यत आह -
विशेषेणेति । राज्ञां भूभुजामयमुपदेशो विशेषेणाधिक्येन प्रदातव्य इति भावः । राज्ञामनेक उपदेष्टारः किं
तवोपदेशेनेत्यत आह - विरलेति । हि निश्चितम् । तेषां राज्ञामुपदेष्टार उपदेशदातारो विरलाः स्तोकाः । यतो
राज्ञामुपदेशसमर्थोऽत्युत्कृष्टो विवक्षितोऽस्मदादिः, न त्वन्यो जनः । तदेव प्रदर्शयन्नाह - प्रतिशब्दक इवेति ।
जनो लोको भयाद्भीते राजवचनं नृपवचोऽनुगच्छति नृपवचनानुगो भवति । न तु प्रत्युत्तरं दातुं समर्थ इति भावः
क इव प्रतिशब्दक इव प्रतिध्वनिरिक । यथा सोऽपि मूलशब्दसाम्येनानुगच्छति । केषांचिदुपदेशश्रवणमेव
नास्तीत्यत आह - उद्दामेति । उद्दाम उत्कटो दर्पोऽहंकारो येषां ते च । पृथु यथा स्यात्तथा स्थगितान्या-
-
।
टिप्प० - 1 धिगीदृशीं टीकाम् । दुष्प्रकृतेरन्वयः श्रुतं वा विनयस्य अकारणं (कारणं न) भवतीत्येव पाठः,
तदर्थश्च । अविनयस्येति पाठे तु अकारणमित्यनेन सह कथं योगः ? 2 अस्पष्टान्त्रापि टीका । प्रशमहेतुना वा-
रिणा वाडवाग्निः किं न चण्डतरो भवति ? अपि तु भवत्येवेति स्पष्टोऽर्थः । 3 हन्त ग्रन्थस्वारस्यकृते धूम-
केतुरवसे टीका । 'उद्दामदर्पश्वप्रथुस्थगितश्श्रवणविवराश्च' इत्येव पाठः । उद्दामदर्प एव श्वयथुः (शोधः )
तेन रुद्धं श्रवणविवरं येषाम् । शोथेन कर्णविवररोधे श्रवणाभावो यथा भवति तथा गर्वेण तेषामुपदेश-
गिरः श्रवणे न गच्छन्तीत्याशयः । पृथुस्थगितेत्यत्र पृथुपदेन कोऽर्थपरिपोष इति सहृदयाः प्रमाणम् ।
पाठा० -१ संप्रहार. २ हि हृदये; हृदये. ३ वा विनयस्य ४ प्रभवोऽपि ५ क्षमजलम् ६ मददोषम्.
७ विरचनाग्राह्यम्. ८ अपनीत ९ तु राज्ञाम्. १० एव.
.