2024-01-14 11:48:37 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

तिदूरमात्मेच्छया यौवनसमये पुरुषं प्रकृतिः । [^१]इन्द्रियहरिण- हारिणी च [^२]सततदुरन्तेयमुपभोगमृगतृष्णिका । नवयौवनक-
षायितात्मनश्च सलिलानीव तान्येव विषयस्वरूपाण्यास्वाद्यमानानि मधुरतराण्यापतन्ति मनसः । नाशयति च दिङ्मोह इवोन्मार्गप्रवर्त- कः पुरुषमत्यासङ्गो विषयेषु । भवादृशा एव भवन्ति [^३]भाजमा- न्युपदेशानाम् । अपगतमले हि स्फटिकमणाविव रजनिकरगभ- स्तयो विशन्ति [^४]सुखेनोपदेशगुणाः । गुरुवचनममलमपि सलि- लमिव महदुपजनयति श्रवणस्थितं शूलमभव्यस्य । इतरस्य [^५]तु करिण इव शङ्खाभरणमाननशोभासमुदयमधिकतरमुपजनयति । [^६]हर [^७]त्यतिमलिनमन्धकारमिव दोषजातं प्रदोषसमय निशाकर इव । गुरूपदेश: प्रशमहेतु [^८]र्वय: परिणाम इव पलितरूपेण शिरसिजजालमीकुर्वन्गुरूपेण तदेव परिणमयति । अयमेव चानास्वादित विषयरसस्य ते काल उपदेशस्य । [^९]कुसुमशरशर-
 
[ टि ]-- रजोगुणेन भ्रान्तिर्भ्रमो यस्याम् । पक्षे रजसां रेणूनां भ्रमो यस्याम् । इन्द्रियेति । इन्द्रियाण्येव करणान्येव
हरिणाः कुरङ्गास्ते- षां हारिणी हरणशीलैतादृश्युपभोगोऽङ्गनादिकः स एव मृगतृष्णि- का मरुमरीचिकेयं सततं निर-
न्तरम् । सुखाभिमानोत्पादनाद्दुरन्ता दुःखावसाना । नवेति । नवयौवनेन प्रत्यप्ग्रतारुण्येन कषायितं विपरिवर्ति-
- रिवर्तितमात्मान्तःकरणं यस्यैवंभूतस्य पुरुषस्यास्वाद्यमानानि ता- न्येव विषयस्वरूपाणि मनसश्चेतसो मधुरतराण्यापतन्ति ।
मधुरा- ण्येव भवन्तीत्यर्थः । अत्रैव दृष्टान्तमाह - सलिलेति । यथा कषाय- द्रव्येण हरीतक्यादिना मधुराण्यपि
'जला नि मधु (रत ) राणि स्युः । 'आत्मानः' इति प्रामादिकः पाठः । विषयेषु स्रक्चन्दनवनितादिष्व- त्यासङ्गोऽत्यासक्तिः
पुरुषमात्मानं नाशयति । क इव । दिङ्मोहो दिग्भ्रान्तिरिव । उभयोः सादृश्यमाह - उन्मार्ग इति । उन्मार्गो-
- उन्मार्ग इति । उन्मार्गो-
s
पथो विरुद्धाचारश्च तत्र प्रवर्तकः प्रेरकः । ततः किमित्यत आह - भवादृशा इति । उपदेशानां शिक्षा
णां भाजनानि पात्राणि भवादृशा भवत्सदृशा एव भवन्ति नान्य इति भावः । उपदेशफलमाह - अपगतेति ।
अपगतो दूरीभूतः कालुष्यलक्षणो मलो यस्मादेवंभूते मनसि चित्त उपदेशगुणाः शिक्षागुगाःणा: सुखेनानायासेन
विशन्ति प्रवेशं कुर्वन्ति । कस्मिन्क इव । स्फटीति । स्फटिकमणौ रजनि- करश्चन्द्रस्तस्य गभस्तयः किरणा-
स्तद्वदिव । दोषे सति किं स्यादि- त्याह - गुरुवचन मिति । गुरुवचनं हिताहितप्राप्तिपरिहारोपदेष्टा गुरुस्तस्य
वचनं वाक्यममलमपि निर्मलमप्यभव्यस्यासाधोः श्रवण- स्थितं कर्णकोटरगतं सन्महच्छूलमुपजनयत्युत्पादयती-
त्यर्थः । अत्रा- र्थेऽनुभवसिद्धं दृष्टान्तमाह - सलिलेति । यथा सलिलं पानीयमति- स्वच्छमपि कर्णगतं महाव्यथा-
जनकं स्यात् । दोषाभावे त्वाह - इतरस्य स्त्वधिकतर मानन [^1]शोभासमुदयमुपजनयति विदधाति । क इव ।
शङ्खो जलजस्तस्याभरणं भूषणं करिण इव हस्तिन इव । हस्तिनां दृष्टिदोषबाधनार्थं शङ्खाभरणं कर्णे बध्यत इति
लोकरीतिः । अतिमलिनमतिश्यामं दोषजातं दूषणसमूहमन्धकार- मिव तिमिरमिव हरति दूरीकरोति । क इव, प्रदो-
षसमयनिशाकर इव यामिनी भुमुखचन्द्रोदय इव । प्रकारान्तरेणाह- प्रशम इति । प्रशमोऽन्तरिन्द्रियनिग्रहस्त
द्धेतुर्गुरूपदेशः शिरसिजजालं शेशिरोरु-
हभारममली कुर्वन्गुणरूपेण तदेव परिणमयति परिपाकं न्यति । कइव । वं
नयति । क इव । वयःपरिणाम इवावस्थापरिणतिरिव । यथा सोऽपि शिर- सिजजालं केशसमूहं पलितरूपेणाली दुर्वस कुर्वन्स्तदेव शिरसिज-
जालं गुणरूपेण परिणमयति । तन्निदानमेव प्रथमे वयसि किमुपदेशेने- त्यत आह - अयमिति । अयमेव नापरस्ते
तवोपदेशस्य कालः शिक्षाप्रदानसमयः । अत्रार्थे हेतुं प्रदर्शय न्नाह - अनास्वादीति । न विद्यत आखास्वादोऽनु -
भवो यस्यैवंविधो विषयरसो यम्स्य तथा तस्य । आस्वादित विषयस्य तूपदेशो निरर्थकः स्यादित्याह– कुसुमेति ।
 
-
 
B
 
-
 
टिप्प० -
[^1]F. कर्णगतशङ्खाभरणेन यथा हस्तिनो मुखशोभा, तथा गुरु- वचनेन साधोर्मुखशोभा, रुचि-
पूर्वकं श्रवणेन भानने उल्लासोदया-
त् ।
 
पाठा[^१]G. इन्द्रियहरिणहरती च.
[^२]G. सततमतिदुरन्तेयमुपभोग ; सततमतिदुरन्ते इयं दूरं नयत्युपभोग.
[^३]G. भाजनम्.
[^४]G. सुखम्.
[^५]G. च.
[^६]G. अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम्.
[^७]G. अतिमलिनमपि.
[^८]G. परिणामः.
[^९]G. कुसुमशरप्रहार
.
 
REPER
 
-१ इन्द्रियहरिणहरती च. २ सततमतिदुरन्ते यमुपभोग ; सततमतिदुरन्ते इयं दूरं नयत्युपभोग. ३ भाज-
नम् ४ सुखम् ५ च. ६ अपहरति; अपहरति सकलम्; हरति च सकलम्; हरति सकलम्. ७ अतिमलिनमपि.
८ परिणामः ९ कुसुमशरप्रहार.