2024-01-10 10:58:42 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२२२
 
कादम्बरी ।
 
[ कथायाम् -
 
लक्ष्मीमदः । कष्टमनञ्जनवर्तिसाध्यम [^१]परमैश्वर्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽति [^२]तीव्रो
दर्पदाहज्वरोष्मा । सततम- [^३]मूलमन्त्र [^४]गम्यो विषमो विषयविषास्वादमोहः । नित्यम- स्नानशौच-
[^५]वध्यो रागमलावलेपः । अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा [^६]भव
तीति विस्तरे [^७]णाभि- धीयसे गर्भेश्वरत्वमभिनवयौवनत्व मप्रतिमरूपत्वममानुषशक्तित्वं चेति
[^८]महतीयं खल्वनर्थपरंपरा सर्वा । अविनयाना मेकैकमप्ये- षामायतनम्, किमुत समवायः ।
यौवनारम्भे च प्रायः शास्त्रजलप्र- क्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधव-
[^९]- तापि सै[^१०]सरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्क- पत्रं समुद्भूतरजो भ्रान्तिरं-
[^११]र-
 
[ टि ]-
नोपशमः । दारुणो भयावहः । कष्टं दुःखरूपमपरं [^1]तृ- तीय मैश्वर्यमेव तिमिरमन्धकारं तेनान्धत्वं गताक्षत्वम् ।
अनञ्जनेति । अञ्जनवर्तिर्बिडाला दिवसाञ्जनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् – 'अन्धकारे महा-
घोरे रात्रौ पठति पुस्तकम्' इति । पदं वाञ्जनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशि
-
शिरेति । न शिशिरैः शीतलैरुपचारैश्चन्दनादिभिर्हार्यः परिहर्तुं योग्यः । अत्यन्तमतिशयेन तीव्रः कठिनो दर्पो-
s
भिमानः स एव दाहज्वर- स्तीव्रतापस्तस्योष्मा घर्मः । सततेति । सततं निरन्तरं मूलमन्त्रैर- गम्यो निवर्तयि
तुमशक्यः । मूलमन्त्रेत्युपलक्षणम् । तेन मणिमधु- करादिविषोत्तारणहेतूनां सर्वेषामपि संग्रहः । विषमः कठिनो

विषयाः स्रक्चन्दनादयस्त एव दिविषं गरलं तस्यास्वादो भक्षणं तस्मा- द्यो भोमोहो मूर्च्छा । नित्यमिति । नित्यं
सर्वदा स्नानमाप्लवः, शौचं शुचिक्रिया, ताभ्यां न वै[^2]वध्यो न विनाश्य एवंविधो रागो विषया- भिलाषः स एव मलः
पङ्कस्तस्थायावलेपः संपर्कः । अजस्रमिति । अजस्रं निरन्तरं न विद्यते क्षपावसाने राज्त्र्यन्ते प्रबोधो विनिद्रत्वं

यस्यामेतादृशी घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनि- पातः संघातः स एव निद्रा प्रमीला भव-
तीति हेतोर्विस्तरेण वारंवार- मभिधीयसे । वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थ परंपरां प्रदर्शय- न्नाह - गर्भेश्व.
रेति । गर्भेश्वरत्वं बाल्यावधिकमीश्वरत्वम्, अभिनव- यौवनत्वं, सर्वाधिकं तारुण्यम्, अप्रतिमं प्रतिनिधिशून्यं
रूपं सौन्द- र्यम्, अमानुषशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्यं यस्मिंस्तस्य भावस्त-
त्वम् । चकारः समुच्चयार्थ: । इति समाप्तौ । खलु निश्चये । इयं महती गरीयसी सर्वा समग्रानर्थपरंपरा

कष्टपरंपरा । एषां पूर्वोक्तानामे कैकमप्यविनयानां दुर्बुद्धीनामायत- नमास्थानम्, किमुत समवायः । एतेषां समु
दायस्य दुर्बुद्धिजनकत्वे किं पुनर्भण्यते । तदुक्तम्- 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं
पुनस्तचतुष्टयम्' । अथ यौवनस्यापि दुर्बुद्धि- जनकत्वं प्रदर्शयन्नाह -- यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे

प्रायो बाहुल्येन शास्त्रमेव जलं पानीयं तेन प्रक्षालनं तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः
काळुलुष्यं बुद्धिवैपरीत्य- मुपयाति प्राप्नोति । अन्विति । अनुज्झिताऽपरित्यक्ता धवलता श्वेतता ययैवंविधापि यूनां
तरुणानां दृष्टिः । सरागैवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया खेस्वेच्छया यौवनसमये

तारुण्यक्षणे प्रकृतिः पुरुषं दूरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थं उपमानमाह - शुष्कमिति । वा-
तानां समूहो वात्या वात- कलिकोच्यते । शुष्कपत्रं यथापहरति । उभयोः साम्यमाह - समुद्भूतेति । समुद्भूता
 
2
 

 
[^
1
 
टिप्प० -1
]F.अपरम्, प्रसिद्धात् अन्धत्वाद्भिन्नमित्यर्थो वक्तव्यः ।
[^
2]F. ' नियतमस्तानानशौचबाध्यः' इत्येव
ग्रन्थोचितः पाठः । स्नानजनित शौचेन ( शुद्धया ) न बाध्यः ( अपनेयः ) इति तदर्थ: । अस्मिन् विषये
'वध' शब्दप्रयोगस्तु स्थूलबुद्धेरपि उपहसनीयः ।
[^
3]F. अभिनवतया दुर्दमनीयवेंवेगं तारुण्यमित्यर्थो
वक्तव्यः ।
[^
4]F. अनुज्झितधवलताऽपि लगसरागा ( रक्तिना संह वर्तमाना ) इति विरोधः, तत्परिहारस्तु-
- रागेण रमण्याग्ददिषु प्रेम्णा सहवर्त- मानेति कर्तव्यः ।
 
1
 
पाठा० -

 
[^
]G. अपटलम्.
[^
]G. अत्यन्ततीव्रः .
[^
]G. मूल.
[^
]G. शम्या: .
[^
]G. वध्यो बलवान्; बाध्यो बलवान्.
[^
]G. इत्यतः
.
[^
]G. अभिधीयते.
[^
]G. महती.
[^
]G. धवलापि .
[^
१०]G. सरागेव.
[^
११]G. अदूरम्; दूरम्.