कादम्बरी /255
This page has not been fully proofread.
२२२
कादम्बरी ।
[ कथायाम् -
लक्ष्मीमदः । कष्टमनञ्जनवर्तिसाध्यम परमैश्वर्यतिमिरान्धत्वम् । अशिशिरोपचारहार्योऽतितीव्रो
दर्पदाहज्वरोष्मा । सततममूलमन्त्रगम्यो विषमो विषयविषास्वादमोहः । नित्यमस्नानशौच-
वध्यो रागमलावलेपः । अजस्रमक्षपावसानप्रबोधा घोरा च राज्यसुखसंनिपातनिद्रा भव
तीति विस्तरेणाभिधीयसे गर्भेश्वरत्वमभिनवयौवनत्व मप्रतिमरूपत्वममानुषशक्तित्वं चेति
महतीयं खल्वनर्थपरंपरा सर्वा । अविनयाना मेकैकमप्येषामायतनम्, किमुत समवायः ।
यौवनारम्भे च प्रायः शास्त्रजलप्रक्षालननिर्मलापि कालुष्यमुपयाति बुद्धिः । अनुज्झितधव-
लतापि सैरागैव भवति यूनां दृष्टिः । अपहरति च वात्येव शुष्कपत्रं समुद्भूतरजो भ्रान्तिरं-
नोपशमः । दारुणो भयावहः । कष्टं दुःखरूपमपरं तृतीय मैश्वर्यमेव तिमिरमन्धकारं तेनान्धत्वं गताक्षत्वम् ।
अनञ्जनेति । अञ्जनवर्तिर्बिडाला दिवसाजनवर्तिस्तया तिमिरान्धत्वं विनश्यति । तदुक्तम् – 'अन्धकारे महा-
घोरे रात्रौ पठति पुस्तकम्' इति । पदं वाअनवर्तेरपि न साध्यम् । न निवर्तयितुं शक्यमिति भावः । अशि
शिरेति । न शिशिरैः शीतलैरुपचारैश्चन्दनादिभिर्हार्यः परिहर्तुं योग्यः । अत्यन्तमतिशयेन तीव्रः कठिनो दर्पो-
sभिमानः स एव दाहज्वरस्तीव्रतापस्तस्योष्मा घर्मः । सततेति । सततं निरन्तरं मूलमन्त्रैरगम्यो निवर्तयि
तुमशक्यः । मूलमन्त्रेत्युपलक्षणम् । तेन मणिमधुकरादिविषोत्तारणहेतूनां सर्वेषामपि संग्रहः । विषमः कठिनो
विषयाः स्रक्चन्दनादयस्त एव दिषं गरलं तस्यास्वादो भक्षणं तस्माद्यो भोहो मूर्च्छा । नित्यमिति । नित्यं
सर्वदा स्नानमाप्लवः, शौचं शुचिक्रिया, ताभ्यां न वैध्यो न विनाश्य एवंविधो रागो विषयाभिलाषः स एव मलः
पङ्कस्तस्थावलेपः संपर्कः । अजस्रमिति । अजस्रं निरन्तरं न विद्यते क्षपावसाने राज्यन्ते प्रबोधो विनिद्रत्वं
यस्यामेतादृशी घोरा च राज्यस्याधिपत्यस्य यत्सुखं सातं तस्य संनिपातः संघातः स एव निद्रा प्रमीला भव-
तीति हेतोर्विस्तरेण वारंवारमभिधीयसे । वक्तव्योऽसीत्यर्थः । अपरामप्यनर्थ परंपरां प्रदर्शयन्नाह - गर्भेश्व.
ऐति । गर्भेश्वरत्वं बाल्यावधिकमीश्वरत्वम् अभिनवयौवनत्वं सर्वाधिकं तारुण्यम्, अप्रतिमं प्रतिनिधिशून्यं
रूपं सौन्दर्यम्, अमानुषशक्तित्वं न विद्यते मानुषेषु मनुष्येषु यैवंविधा शक्तिः सामर्थ्य यस्मिंस्तस्य भावस्त-
त्वम् । चकारः समुच्चयार्थ: । इति समाप्तौ । खलु निश्चये । इयं महती गरीयसी सर्वा समग्रानर्थपरंपरा
कष्टपरंपरा । एषां पूर्वोक्तानामे कैकमप्यविनयानां दुर्बुद्धीनामायतनमास्थानम्, किमुत समवायः । एतेषां समु
दायस्य दुर्बुद्धिजनकत्वे किं पुनर्भण्यते । तदुक्तम्- 'यौवनं धनसंपत्तिः प्रभुत्वमविवेकिता । एकैकमनवस्थानं किं
पुनस्तचतुष्टयम्' । अथ यौवनस्यापि दुर्बुद्धिजनकत्वं प्रदर्शयन्नाह -- यौवनेति । यौवनारम्भे तारुण्यप्रारम्भे
प्रायो बाहुल्येन शास्त्रमेव जलं पानीयं तेन प्रक्षालनं तेन निर्मला निर्गतो मलोऽबोधो यस्या एवंभूतापि बुद्धिः
काळुष्यं बुद्धिवैपरीत्यमुपयाति प्राप्नोति । अन्विति । अनुज्झिताऽपरित्यक्ता धवलता श्वेतता ययैवंविधापि यूनां
तरुणानां दृष्टिः । सरागैवेति । सह रागेण वर्तमानैव भवति । आत्मेति । आत्मेच्छया खेच्छया यौवनसमये
तारुण्यक्षणे प्रकृतिः पुरुषं दूरमपहरति । दूरं परिनयतीत्यर्थः । अस्मिन्नर्थं उपमानमाह - शुष्कमिति । वा-
तानां समूहो वात्या वातकलिकोच्यते । शुष्कपत्रं यथापहरति । उभयोः साम्यमाह - समुद्भूतेति । समुद्भूता
2
1
टिप्प० -1 अपरम्, प्रसिद्धात् अन्धत्वाद्भिन्नमित्यर्थो वक्तव्यः । 2 ' नियतमस्तानशौचबाध्यः' इत्येव
ग्रन्थोचितः पाठः । स्नानजनित शौचेन ( शुद्धया ) न बाध्यः ( अपनेयः ) इति तदर्थ: । अस्मिन् विषये
'वध' शब्दप्रयोगस्तु स्थूलबुद्धेरपि उपहसनीयः । 3 अभिनवतया दुर्दमनीयवेंगं तारुण्यमित्यर्थो
वक्तव्यः । 4 अनुज्ज़तधवलताऽपि लगगा ( रक्तिना संह वर्तमाना ) इति विरोधः, तत्परिहारस्तु-
रागेण रमण्याग्दषु प्रेम्णा सहवर्तमानेति कर्तव्यः ।
1
पाठा० -१ अपटलम्. २ अत्यन्ततीव्रः ३ मूल. ४ शम्या: ५ बध्यो बलवान्; बाध्यो बलवान्. ६ इत्यतः
७ अभिधीयते. ८ महती. ९ धवलापि १० सरागेव. ११ अदूरम् दूरम्.