2024-01-10 10:38:26 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
२२१
 
a
 
भिजातप्रणामां पत्रलेखामनिमि [^१]षलोचनं सुचिरमालोक्य चन्द्रापीड: 'यथाज्ञापयत्यम्बा' ऐव-
[ ^२]एवमुक्त्वा कञ्चुकिनं प्रेष- यामास । पत्रलेखा तु ततःप्रभृति दर्शनेनैव समुपजातसेवारसा न
दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न राज- कुलगतस्य छायेव राज-
सु
सूनोः पार्श्वं मुमोच । चन्द्रांरापीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती
प्रीतिरासीत् । अभ्यधि- कं च [^३]प्रतिदिनमस्य प्रसादमकरोत् । आत्महृदयाव्यतिरिक्ता- मिव
चैमांनां सर्वविश्रम्भेष्वमन्यत ।
 

 
एवं समतिक्रामत्सु दि [^४]वसेषु राजा चन्द्रापीडस्य यौवराज्याभि- षेकं चिकीर्षुः प्रतीहारा [^५]नुपकरणसंभारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकं चिकीर्षुः प्रतीहारानु-
पकरणसंभारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकं
च तं कदाचिद्दर्शनार्थमागत-
मारूढ- विनयमपि विनीततरमि [^६]च्छञ्शुकनासः सविस्तर मुवाच - 'तात चन्द्रापीड, विदितवे-
दितंत्र् [^७]तव्यस्याधीतसर्वशास्त्रस्य ते नाल्प- मप्युपदेष्टव्यमस्ति । केवलं [^८]च निसर्गत एवाभानुभेद्यम-
रत्ना- लोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अप- रिणामोपशमो दारुणो
 
-
 

 
[ टि ]--
चिरकालमालोक्य निरीक्ष्य चन्द्रापीडो यथाज्ञापयत्यादेशं दत्तेऽम्बा मातैवमुक्त्वा कञ्चुकिनं प्रेषयामास विस-
र्जितवान् । तु पुनरर्थे । पत्रलेखा ततः प्रभृति तद्दिनादारभ्य दर्शनेनैव तदवलोक- नेनैव समुपजातः समुत्पन्नः
सेवायां रसो यस्याः सा । न दिवेति । न दिवा दिवसे, न रात्रौ त्रियामायाम्, न सुप्तस्य शयनं कृतवतः,

नासीनस्योपविष्टस्य, नोत्थितस्योत्थानं कृतवतः, न भ्रमत इतस्ततो गच्छतः, न राजकुलगतस्य छायेव स्वप्रति-
बिम्बमिव राजसूनोश्चन्द्रा- पीडस्य पार्श्वं मुमोचेत्यस्य सर्वत्र नकारेणान्वयः । चन्द्रापीडस्यापि तस्यां पत्रलेखायां
दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धिधिं प्राप्यमाणा महती प्रीतिर्महान्स्नेह
आसीदभूत् । [^1]अस्य प्रतिदिनं प्रत्यहमभ्यधिक्रमधिकाधिकं प्रसादं सद्वस्तु- प्रत्यर्पणरूपमकरोत् । सर्वविश्रम्भेषु
समग्रविश्वासस्थलेष्वेनां पत्रले- खामात्महृदयादव्यतिरिक्तामिव स्वस्वान्ताद भिन्नामिवामन्यत ज्ञात- वान् ।
 

 
एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गच्छत्सु दिवसेषु राजा तारा- पीडश्चन्द्रापीडस्य यौवराज्ये योऽभि-
षेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभार: समूहस्तस्य
- स्तस्य संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति । समु- पस्थितः संजातो यौवराज्याभिषेको यस्य स
तम् । कदाचित्कस्मिं-श्चित्समथेये दर्शनार्थमवलोकनार्थंमागतं प्राप्तमारूढविनयमपि संप्राप्त - प्तविनयमपि । किंचि-
न्निगूढाभिप्रायः । विनीततरं विनम्रतरमिच्छ- न्वाञ्छशुकनासः सविस्तरं सव्यासमुवाचाब्रवीत् । तदेवाह --
तातेति संबोधनम् । हे पुत्र चन्द्रापीड, ते तवाल्पमपि स्तोकमप्युप- देष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह -
अधीतेति । अधीतानि पठि- तानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः ।
अधीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्यं शास्त्राभि-
प्रायो येन तस्य । आशयमुद्धाटयति
– केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्योच्छे-
द्यम् । अरत्नेति । न रत्नानां मणीनामालो- केनोच्छेद्यं दूरीकर्तुं योग्यम् । अप्रदीति । न प्रदीपप्रभया गृह-
मणि- कान्त्यापनेयं दूरीकरणीयम् । अतीति । अतिशयेन निरवधिकतया गहनमलब्ध [^2]मध्यं यौवनं तारुण्यं
ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामे-
नोपशमो यस्य सः । अयं भावः -- परिणामेनोपशम ओष- ध्यादिषु प्रसिद्धः । विपरीतमत्र वयः परिणामेऽपि
 
C
 
टिप्प० –

 
[^
1]F. ( अस्थाः ) इति पाठ उचितः ।
[^
2]F. यौवनजनितं तमः अतिदुर्दमनीयमित्यर्थः ।
पाठा० -

 
[^
]G. लोचनः .
[^
]G. इत्येवम्.
[^
]G. प्रतिदिवसमस्याः.
[^
]G. केषुचिद्दिवसेषु.
[^
]G. उपसंभार.
७ वेद्यस्य

[^६]G
. ८ तु.
 
कर्तुम्.
 

[^७]G. वेद्यस्य.
[^८]G. तु.