This page has not been fully proofread.

शुकनासोपदेशः ]
 
पूर्वभागः ।
 
२२१
 
a
 
भिजातप्रणामां पत्रलेखामनिमिपलोचनं सुचिरमालोक्य चन्द्रापीड: 'यथाज्ञापयत्यम्बा' ऐव-
मुक्त्वा कचुकिनं प्रेषयामास । पत्रलेखा तु ततःप्रभृति दर्शनेनैव समुपजातसेवारसा न
दिवा न रात्रौ न सुप्तस्य नासीनस्य नोत्थितस्य न भ्रमतो न राजकुलगतस्य छायेव राज-
सुनोः पार्श्व मुमोच । चन्द्रांपीडस्यापि तस्यां दर्शनादारभ्य प्रतिक्षणमुपचीयमाना महती
प्रीतिरासीत् । अभ्यधिकं च प्रतिदिनमस्य प्रसादमकरोत् । आत्महृदयाव्यतिरिक्तामिव
चैमां सर्वविम्भेष्वमन्यत ।
 
एवं समतिक्रामत्सु दिवसेषु राजा चन्द्रापीडस्य यौवराज्याभिषेकं चिकीर्षुः प्रतीहारानु-
पकरणसंभारसंग्रहार्थमादिदेश । समुपस्थितयौवराज्याभिषेकं च तं कदाचिद्दर्शनार्थमागत-
मारूढ विनयमपि विनीततरमिकनासः सविस्तर मुवाच - 'तात चन्द्रापीड, विदितवे-
दितंत्र्यस्याधीतसर्वशास्त्रस्य ते नाल्पमप्युपदेष्टव्यमस्ति । केवलं च निसर्गत एवाभानुभेद्यम-
रत्नालोकोच्छेद्यमप्रदीपप्रभापनेयमतिगहनं तमो यौवनप्रभवम् । अपरिणामोपशमो दारुणो
 
-
 
चिरकालमालोक्य निरीक्ष्य चन्द्रापीडो यथाज्ञापयत्यादेशं दत्तेऽम्बा मातैवमुक्त्वा कञ्चुकिनं प्रेषयामास विस-
र्जितवान् । तु पुनरर्थे । पत्रलेखा ततः प्रभृति तद्दिनादारभ्य दर्शनेनैव तदवलोकनेनैव समुपजातः समुत्पन्नः
सेवायां रसो यस्याः सा । न दिवेति । न दिवा दिवसे, न रात्रौ त्रियामायाम् न सुप्तस्य शयनं कृतवतः,
नासीनस्योपविष्टस्य, नोत्थितस्योत्थानं कृतवतः, न भ्रमत इतस्ततो गच्छतः, न राजकुलगतस्य छायेव स्वप्रति-
बिम्बमिव राजसूनोश्चन्द्रापीडस्य पार्श्व मुमोचेत्यस्य सर्वत्र नकारेणान्वयः । चन्द्रापीडस्यापि तस्यां पत्रलेखायां
दर्शनादारभ्यावलोकनात्प्रभृति प्रतिक्षणं क्षणं क्षणं प्रत्युपचीयमाना वृद्धि प्राप्यमाणा महती प्रीतिर्महान्स्नेह
आसीदभूत् । अस्य प्रतिदिनं प्रत्यहमभ्यधिक्रमधिकाधिकं प्रसादं सद्वस्तु प्रत्यर्पणरूपमकरोत् । सर्वविम्भेषु
समग्रविश्वासस्थलेष्वेनां पत्रलेखामात्महृदयादव्यतिरिक्तामिव स्वस्वान्ताद भिन्नामिवामन्यत ज्ञातवान् ।
 
एवं पूर्वोक्तप्रकारेण समतिक्रामत्सु गच्छत्सु दिवसेषु राजा तारापीडश्चन्द्रापीडस्य यौवराज्ये योऽभि-
षेकस्तं चिकीर्षुः कर्तुमिच्छुः प्रतीहारान्द्वारपालानुपकरणस्य स्नानयोग्यसामग्र्याः संभार: समूहस्तस्य
संग्रहार्थमानयनार्थमादिदेश आज्ञां दत्तवान् । समिति । समुपस्थितः संजातो यौवराज्याभिषेको यस्य स
तम् । कदाचित्कस्मिंश्चित्समथे दर्शनार्थमवलोकनार्थंमागतं प्राप्तमारूढविनयमपि संप्राप्त विनयमपि । किंचि-
निगूढाभिप्रायः । विनीततरं विनम्रतरमिच्छन्वाञ्छशुकनासः सविस्तरं सव्यासमुवाचाब्रवीत् । तदेवाह --
तातेति संबोधनम् । हे पुत्र चन्द्रापीड, ते तवाल्पमपि स्तोकमप्युपदेष्टव्यं वक्तव्यं नास्ति । तत्र हेतुमाह -
अधीतेति । अधीतानि पठितानि सर्वशास्त्राणि येन स तथा तस्य । सर्वपदेन नीतिशास्त्रस्यापि परिग्रहः ।
अधीतशास्त्रत्वेऽपि तत्त्ववित्त्वाभावादुपदेष्टव्यमस्तीत्यत आह - विदितेति । विदितं ज्ञातं वेदितव्यं शास्त्राभि-
प्रायो येन तस्य । आशयमुद्धाटयति
– केवलं चेति । परं निसर्गत एव स्वभावत एवाभानुभेद्यमसूर्योच्छे-
यम् । अरत्नेति । न रत्नानां मणीनामालोकेनोच्छेद्यं दूरीकर्तुं योग्यम् । अप्रदीति । न प्रदीपप्रभया गृह-
मणिकान्त्यापनेयं दूरीकरणीयम् । अतीति । अतिशयेन निरवधिकतया गहनमलब्धमध्यं यौवनं तारुण्यं
ततः प्रभव उत्पत्तिर्यस्यैवंविधं तमोऽज्ञानम् । द्वितीयो लक्ष्मीमदो द्रव्यमदः । अपरीति । न विद्यते परिणामे-
नोपशमो यस्य सः । अयं भावः -- परिणामेनोपशम ओषध्यादिषु प्रसिद्धः । विपरीतमत्र वयः परिणामेऽपि
 
C
 
टिप्प० – 1 ( अस्थाः ) इति पाठ उचितः । 2 यौवनजनितं तमः अतिदुर्दमनीयमित्यर्थः ।
पाठा० -१ लोचनः २ इत्येवम्. ३ प्रतिदिवसमस्याः. ४ केषुचिद्दिवसेषु. ५ उपसंभार.
७ वेद्यस्य. ८ तु.
 
६ कर्तुम्.