2024-01-10 07:04:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२२०
 
कादम्बरी
 
[ कथायाम्-

 
विलासती समाज्ञापयति - इयं खलु कै[^१]कन्यका महाराजेन पूर्वं [^२]कुलूतराजधानीमजित्य
कुँ
[^३]कुलूतेश्वरदुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिकाम-
ध्यमुपनीता । सा मया विगतनाथा राजदुहितेतिं [^४]ति च समुपजातस्नेहया दुहितृनिर्विशेष मि -
यन्तं कालमुपलालिता संवर्धिता च । तदियमिदा- नीमुचिता भवतस्ताम्बूलकर [^५]करङ्कवा[^६] हिनीति
कृत्वा मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । बालेव
लालनीया । स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया । शिष्येव [^७]द्रष्टव्या । सुहृदिव सर्व-
वि
वि [^८]श्रम्भेष्वभ्यन्तरीकर- णीया । दीर्घकालसंवर्धित स्नेह तया स्वसुतायामिव हृदयमस्यामस्ति मे ।
[^९]महाभिजनराजवंशप्रसूता चार्हतीयमेवंवि [^१०]धानि कर्माणि । [^११]नियंतं स्वयमेवेय [^१२]मतिविनीततया
कतिपयै- रेव दिवसैः कुमारमाराधयिष्यति । केवलमतिचिरकालोपचिता बलवती मे प्रेमप्र-
वृत्तिरस्याम् । अविदितशीलञ्श्चास्याः कुमार इति संदिश्यते । सर्वथा तथा कल्याणिना प्रय-
तितव्यं यथेयमतिचिरमु- चिता परिचारिका ते [^१३]भवति' इत्यभिधाय विरतवचसि कैलासे [^१४]कृता-

 

 
[ टि ]--
स्थाप्य विज्ञप्तिं कुर्वन्तीति भावः । हे कुमार, महादेवी विलासवती समाज्ञापयति भवन्तं ज्ञापनां करोति ।
इयमिति ! खलु निश्चयेन । इयं कन्यका महाराराजेन त्वत्पित्रा पूर्वं कुलूतनाम्नी राजधानीमव जित्य स्वायत्तीकृत्य
कुलूते [^1]श्वरस्य हिमवद्द्रोण्या ईश्वरस्य दुहिता पुत्री पत्रालेखेत्यभिधानं यस्याः सा बालिका सती बन्दीजनेन
सहानीयान्तःपुरस्य याः परिचारिकाः सेवाकारिण्यस्ता- सां मध्यमुपनीता प्रापिता सती सा मया विगतनाथा
राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यामेवंविधा मया सा पत्रलेखा दुहितृनिर्विशेषं दुहिता
पुत्री तस्याः सकाशान्निर्गतो विशेषोऽस्यां यथा स्यात्तथेयन्तं कालमेतावत्पर्यन्तमुपलालिता पालिता संवर्धिता
च वृद्धिं प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रतमियमुचिता योग्या भवतस्तव ताम्बूलस्य करङ्कः [^2]स्थगी
तद्वाहिनीति कृत्वा मया प्रेषिता । न चेति । अस्यां पत्रलेखायामायुष्मता भवता परिजने परिच्छदे सामान्या
सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च भवि- तव्यम् । बालेव बालिकेव लालनीया पालनीया । स्वस्य चित्तवृत्ति-

र्मनोवृत्तिस्तद्वदिव चापलेभ्यॊयोऽनवस्थितिभ्यो निवारणीया वर्जनीया । शिष्या शिष्यैियि [^3]णी सेव द्रष्टव्या विलोकनीया ।
सुहृदिव मित्र- मिव सर्वविश्वम्भेषु समग्र विश्वासस्थानेष्वभ्यन्तरा मध्यवर्तिनी कर- णीया कार्या । दीर्घकालेन संव-
धिं
र्धितो वृद्धिं प्राप्तो यः स्नेहः प्रीतिस्त- स्य भावस्तत्ता तथा स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति ।
महानभिजनः कुलं यस्मिन्नेवंभूतो यो राजवंशस्तत्र प्रसृतोत्पन्नैवंविधानि कर्माणि ताम्बूलकरङ्कधारणप्रभृतीनीय-
मेवा- र्हति योग्या । नियतमिति । नियतं निश्चितमियं स्वयमेवाति विनीत- तयातिविनयवत्तया कतिपयैरेव किय
द्भिरेव दिवसैंसैर्घस्रैः कुमारं त्वामाराधयिष्यति स्ववशीकरिष्यति । केवलं परमस्यामति चिरका- लेन भूयसानेहसोप-
चिता पुष्टिं प्राप्ता मे मम बलवती प्रेमप्रवृत्तिः स्नेहप्रवृत्तिः । अस्या अविदितमज्ञातं शीलं येनैवंविधः कुमार इति

संदिश्यते कथ्यते । सर्वथेति । सर्वथा सर्वप्रकारेण तथा कल्याणिना श्रेयोवता प्रयतितव्यं प्रयत्नः कर्तव्यः ।
यथातिचिरं चिरकालं यावत् । ते तवोचिता योग्येयं परिचारिका भवतीत्यभिधायेत्युक्त्वा विरत- वचस्य पास्तवचने
कैलासे सति कृतोऽभिजातः कुलीनस्द्वत्प्रणामो यया तां पत्रलेखामनिमिषलोचनं यथा स्यात्तथा सुचिरं
 
टिप्प० -

 
[^
1]F. हिमालयसमीपे 'कुल्लू' इति साम्प्रतं प्रसिद्धा राजधानी, तस्या ईश्वरः ।
[^
2]F. ताम्बूलपात्र-
मित्यर्थः ।
[^
3]F. शासनीया ( यथा छात्रा ) । शि‍ियशि‍ष्यिणी त्वपशब्दः ।
 
पाठा० ० -

 
[^
]G. कन्या.
[^
]G. कलूत; कुन्तल .
[^
]G. कलूलेश्वर; कुन्तलेश्वर .
[^
]G. इति समुपनात जात.
[^
]G. करण्डक .
[^
]G. इति
मया.
मया.
[^
]G. उपदेष्टव्या.
[^
]G. विश्वासेषु .
[^
]G. बलवानस्यायां पक्षपातो महा.
[^
१०]G. एवंविधानि नियतम्.
[^
११]G. नियतं च.

[^
१२]G. अभिविनीत .
[^
१३]G. भवतीतीत्यभिधाय .
[^
१४]G. अभिज्ञात
 
.