This page has not been fully proofread.

२२०
 
कादम्बरी
 
[ कथायाम्-

 
विलासबती समाज्ञापयति - इयं खलु कैन्यका महाराजेन पूर्व कुलूतराजधानीमव जित्य
कुँलूतेश्वरदुहिता पत्रलेखाभिधाना बालिका सती बन्दीजनेन सहानीयान्तःपुरपरिचारिकाम-
ध्यमुपनीता । सा मया विगतनाथा राजदुहितेतिं च समुपजातस्नेहया दुहितृनिर्विशेष मि -
यन्तं कालमुपलालिता संवर्धिता च । तदियमिदानीमुचिता भवतस्ताम्बूलकर वाहिनीति
कृत्वा मया प्रेषिता । न चास्यामायुष्मता परिजनसामान्यदृष्टिना भवितव्यम् । बालेव
लालनीया । स्वचित्तवृत्तिरिव चापलेभ्यो निवारणीया । शिष्येव द्रष्टव्या । सुहृदिव सर्व-
विश्रम्भेष्वभ्यन्तरीकरणीया । दीर्घकालसंवर्धित स्नेह तया स्वसुतायामिव हृदयमस्यामस्ति मे ।
महाभिजनराजवंशप्रसूता चार्हतीयमेवंविधानि कर्माणि । नियंतं स्वयमेवेयमतिविनीततया
कतिपयैरेव दिवसैः कुमारमाराधयिष्यति । केवलमतिचिरकालोपचिता बलवती मे प्रेमप्र-
वृत्तिरस्याम् । अविदितशीलञ्चास्याः कुमार इति संदिश्यते । सर्वथा तथा कल्याणिना प्रय-
तितव्यं यथेयमतिचिरमुचिता परिचारिका ते भवति' इत्यभिधाय विरतवचसि कैलासे कृता-

 
स्थाप्य विज्ञप्तिं कुर्वन्तीति भावः । हे कुमार, महादेवी विलासवती समाज्ञापयति भवन्तं ज्ञापनां करोति ।
इयमिति ! खलु निश्चयेन । इयं कन्यका महाराराजेन त्वत्पित्रा पूर्व कुलतनाम्नी राजधानीमव जित्य स्वायत्तीकृत्य
कुलतेश्वरस्य हिमवद्रोण्या ईश्वरस्य दुहिता पुत्री पत्रालेखेत्यभिधानं यस्याः सा बालिका सती बन्दीजनेन
सहानीयान्तःपुरस्य याः परिचारिकाः सेवाकारिण्यस्तासां मध्यमुपनीता प्रापिता सती सा मया विगतनाथा
राजदुहितेति कृत्वा समुपजातः समुत्पन्नः स्नेहो यस्यामेवंविधा मया सा पत्रलेखा दुहितृनिर्विशेषं दुहिता
पुत्री तस्याः सकाशान्निर्गत विशेषोऽस्यां यथा स्यात्तथेयन्तं कालमेतावत्पर्यन्तमुपलालिता पालिता संवर्धिता
च वृद्धिं प्रापिता च । तदिति हेत्वर्थे । इदानीं सांप्रतमियमुचिता योग्या भवतस्तव ताम्बूलस्य करङ्कः स्थगी
तद्वाहिनीति कृत्वा मया प्रेषिता । न चेति । अस्यां पत्रलेखायामायुष्मता भवता परिजने परिच्छदे सामान्या
सर्वसाधारणा दृष्टिर्यस्यैवंविधेन त्वया न च भवितव्यम् । बालेव बालिकेव लालनीया पालनीया । स्वस्य चित्तवृत्ति-
र्मनोवृत्तिस्तद्वदिव चापलेभ्यॊऽनवस्थितिभ्यो निवारणीया वर्जनीया । शिष्या शिष्यैिणी सेव द्रष्टव्या विलोकनीया ।
सुहृदिव मित्रमिव सर्वविश्वम्भेषु समग्र विश्वासस्थानेष्वभ्यन्तरा मध्यवर्तिनी करणीया कार्या । दीर्घकालेन संव-
धिंतो वृद्धिं प्राप्तो यः स्नेहः प्रीतिस्तस्य भावस्तत्ता तथा स्वसुतायामिव निजपुत्र्यामिवास्यां मे मम हृदयं चेतोऽस्ति ।
महानभिजनः कुलं यस्मिन्नेवंभूतो यो राजवंशस्तत्र प्रसृतोत्पन्नैवंविधानि कर्माणि ताम्बूलकरङ्कधारणप्रभृतीनीय-
मेवार्हति योग्या । नियतमिति । नियतं निश्चितमियं स्वयमेवाति विनीततयातिविनयवत्तया कतिपयैरेव किय
द्भिरेव दिवसैंर्घस्रैः कुमारं त्वामाराधयिष्यति स्ववशीकरिष्यति । केवलं परमस्यामति चिरकालेन भूयसानेहसोप-
चिता पुष्टिं प्राप्ता मे मम बलवती प्रेमप्रवृत्तिः स्नेहप्रवृत्तिः । अस्या अविदितमज्ञातं शीलं येनैवंविधः कुमार इति
संदिश्यते कथ्यते । सर्वथेति । सर्वथा सर्वप्रकारेण तथा कल्याणिना श्रेयोवता प्रयतितव्यं प्रयत्नः कर्तव्यः ।
यथातिचिरं चिरकालं यावत् । ते तवोचिता योग्येयं परिचारिका भवतीत्यभिधायेत्युक्त्वा विरतवचस्य पास्तवचने
कैलासे सति कृतोऽभिजातः कुलीनस्वद्वत्प्रणामो यया तां पत्रलेखामनिमिषलोचनं यथा स्यात्तथा सुचिरं
 
टिप्प० - 1 हिमालयसमीपे 'कुल्लू' इति साम्प्रतं प्रसिद्धा राजधानी, तस्या ईश्वरः । 2 ताम्बूलपात्र-
मित्यर्थः । 3 शासनीया ( यथा छात्रा ) । शि‍ियणी त्वपशब्दः ।
 
पाठा० ० - १ कन्या. २ कलूत; कुन्तल ३ कलूनलेश्वर; कुन्तलेश्वर ४ इति समुपनात ५ करण्डक ६ इति
मया. ७ उपदेष्टव्या. ८ विश्वासेषु . ९ बलवानस्या पक्षपातो महा. १० एवंविधानि नियतम्. ११ नियतं च.
१२ अभिविनीत १३ भवतीतीत्यभिधाय १४ अभिज्ञात