2024-01-10 06:34:06 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

ताम्बूलकरङ्कवाहिन्याः परिचयः ]
 
पूर्वभागः ।
 
२१९
 
B
 
भुजलता विक्षेपप्रेसितन ङ्खितखमयूखच्छलेन धाराभिरिव लावण्यरस मनवरतं क्षरन्त्या, दिङ्मुख-
बि
विसर्पिहारलतानां रश्मिजाले निमग्न- शरीरतया क्षीरसागरोन्मन्नवदनयेव लक्ष्म्या, बहुलता-
म्बूल [^१]कृ- ष्णिकान्धकारितारलेखया [^२]समसुवृत्ततुङ्गनासिकया, विकसि- तपुण्डरीक [^३]लोचनया,
मणिकुण्डल-मर्के[^४]मकरपत्रभङ्गकोटि- किरणातपाइतकंहत [^५]कपोलतया सकर्णपल्लवमिव मुखमुद्वहन्त्या, पर्यु-
पि
षितधूसरचन्दनरसतिल कालंकृतललाटपट्टया, मुक्ताफलप्राया- लंकारया, राधेयराज्यलक्ष्म्येवो-
पपादिताङ्गरागया, नै[^६]नववनलेख- येव कोमलतनुलतया, त्रय्येव सुप्रतिष्ठितचरणया, मखशाल-
येव वेदिमध्यया, मेरुवनलतयेव कनकपत्रालंकृतया, महानुभावाकार- यानुगम्यमानं कॅन्यया
[^७]कन्यया कैलासनामानं कञ्चुकिन मायान्तमप- श्यत् ।
 

 
स कृतप्रणामः समुपसृत्य क्षितितलनिहितदक्षिणकरो विज्ञापया- मास - 'कुमार, महादेवी
 

 
[ टि ]--
ण्यरसं धाराभिः क्षरन्त्येव । दिगिति । दिङ्मुखविसर्पि- [^1]ण्यो दिङ्मुखप्रसरणशीला या हारलतास्तासां रश्मिजाले

कान्तिसमूहे निमग्नं ब्रुडितं यच्छरीरं तस्य भावस्तत्ता तथा क्षीरसा- गरात् दुग्धाम्भोघेधेरुन्मग्नं वदनं यस्या एवं-
विधया लक्ष्म्येव । बहलेति । बहलो निबिडो यस्ताम्बूलस्तस्य कृष्णिका श्यामता तयान्धकारि- तान्धकार
इवाचरिताधरलेखा दन्तच्छदरेखा यस्याः सा तथा । समे- ति । समाऽविषमा, सुवृत्ता वर्तुला, तुनोङ्गोच्चा
नासिका नासा यस्याः सा तया । विकेति । विकसितं यत्पुण्डरीकं तद्वल्लोचने यस्याः सा तया । मणीति ।
मणिकुण्डलयो रत्नभूषणयोर्म करपत्रभङ्गः कोटी- रपत्रेषु मकराकृतिस्तस्याः किरणानामातपः प्रकाशस्तस्या-
है
[^2]हतं प्रतिबिम्बितं ययोरेवंविधकपोलौ तस्य भावस्तत्ता तया । सह कर्ण- पल्लवेन श्रोत्रावतंसेन वर्तमानं मुख
मिवोद्वहन्त्या धारयन्त्या । पर्यु- षीति । पर्युषितो गतदिनोद्भवोऽत एव धूसरो यश्चन्दनरसस्तस्य तिलकेनाल -
ङ्कृतं भूषितं ललाटपट्टं यस्याः सा तया । मुक्तेति । मुक्ताफलानि प्रायो बाहुल्येन सन्ति यस्मिन्नेवंविधा
अलंकारा यस्याः सा तया । राधेयेति । राधेयः कर्णस्तस्य या राज्यलक्ष्मीराधि- पत्यश्रीस्तयेव । उभयं
विशिनष्टि – उपेति । उपपादितो विहितो- ऽङ्गरागो यया पक्षेऽङ्गनाम्नो देशस्य रागः प्रीतिः । नवा प्रत्यमा
ग्रा
या वनलेखारण्यश्रेणिस्तयेव । उभयं विशेषयन्नाह – कोमलेति । कोमला सुकुमारा तनुलता शरीरलता
यस्याः सा तया । पक्षे कोमलास्तन्थ्व्यो लता व्रतत्यो यस्याम् । त्रयी वेदत्रयी तयेव । सुप्र- तीति । सुप्रति-
ष्ठिताः शोभनतया स्थापिताश्चर [^2]णाः पादा यया सा तया । पक्षे सुप्रतिष्ठिताः सर्वत्र प्रसिद्धाश्चरणाः शाखाः
पदानि यस्याः सा तया । मखेति । मखो यज्ञस्तस्य शालयेव । उभयोः साम्यमाह - वेदीति । वेदिवमध्यं
यस्याः सा तया । तनुमध्ययेत्यर्थः । पक्षे वेदिः परिष्कृता भूमिर्मध्ये यस्याः । [^4]मेरैरुर्मन्दरस्तस्य या वनलता तयेव ।
कनकपत्रैः कर्णाभरणैरलंकृतया भूषितया । पक्षे कनकः नागकेसरश्चम्पको वा तस्य पत्राणि दलानि । 'कन-
को नाग- केसरे । धत्तरे चम्पके काञ्चनारकिंशुकयोरपि' इत्यनेकार्थः । महा- ननुभावो माहात्म्यं तदनुरूप आकार
आकृतिर्यस्याः सा तया । अन्वयस्तु प्रागेवोक्तः ।
 

 
आगमनानन्तरं स कञ्चुकी कृतः प्रणामो येनैवंभूतो विज्ञापयामास विज्ञप्तिमकरोत् । किं कृत्वा । समुपसुत्य
समीपमागत्य क्षितितले निहितः स्थापितो दक्षिणकरो येन सः । इयं दक्षिणदेशरीतिः - क्षितौ दक्षिणकरं व्यव-
-
 
टिप्प १० –

 
 
[^
1]F. धन्यष्टीकाकारः । दिङ्मुखेषु ( सर्वतः ) प्रसरणं हारलता- रश्मिजालानां, न हारलता-
नाम् । अत एव 'दिङ्मुखविसर्पिणि हारलतानां रश्मिजाले' इत्येव पाठः । अनेन टीकाकारस्य ग्रन्थमार्मि-
कत्वमपि परिचेयम् ।
[^
2]F. आतपेन आहतौ ( संस्पृष्टौ ) कपोलौ यस्यास्तत्तयेति सरलोऽर्थः ।
[^
3]F. पादाविति
द्विवचनमेवोचितम् ।
[^
4]F. मेरुः सुमेरुरित्यर्थः, अत एव कनकपत्रपदस्वारस्यम् ।
 
पाठा० -

 
[^
]G. कृष्णिमा.
[^
]G. समुपवृत्त.
[^
]G. धवललोचनया.
[^
मरकतम कर ]G. मरकतमकर.
[^
]G. कपोलतलतया .
[^
नवनव
 
]G. नवनव.
[^
]G. कम्यकथाया.