2024-01-10 06:10:54 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

मेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकुलमयासीत् । तेनैव च क्रमेणावलोक्य राजानमागत्य निशामनैषीत् ।
 
[^१]अपरेद्युश्च प्रभातसमय एव सर्वान्तःपुराधि [^२]कृतम्, अव- निपतेः परमसंमतम्, अनुमार्ग [^३]गतया च, प्रथमे वयसि वर्तमा- नया, राजकुलसंवासप्रगल्भयाप्यनुज्झितविनयया, किंचिदुपारूढ- यौवनया, शक्रगोप [^४]कालोहितरागेणांशुकेन रचितावगुण्ठनया सबालातपयेव पूर्वया ककुभा प्रत्यग्रदलितमनः शिला[^५]वर्णेना-
ङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूरयन्त्या, ज्यो- त्स्नयेव [^६]राहुग्रहग्रासभयादपहाय रजनिकरम [^७]ण्डलं गाम- वतीर्णया, राज [^८]कुलगृहदेवतयेव मूर्तिमत्या क्वणितमणिनूपुरा- [^९]कुलचरणयुग [^१०]लया कूजत्कलहंसाकुलितकमलयेव कमलिन्या, महार्हहेममेखला [^११]कलापकलितजघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, [^१२]मन्दं मन्दं
 
[ टि ]-- कर्षितं हृदयं चेतो॒तो यस्यैव॑वंभूतः । स्वयमेवात्मनैव, अत्रैव- कारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस्याश्वस्य पुरोऽप्ग्रे
यवसं तृणमाकीर्य प्रकीर्य प्रक्षिप्य तदनन्तरं निर्गत्य राजकुलमयासीदवा- जीत् । तेनैव क्रमेण पूर्वोक्तपरिपाट्या
राजानं तारापीडमवलोक्य निरीक्ष्य पुनरागत्यैत्य । स्वगृहमिति शेषः । निशां रात्रिमनैषीत्परि- कलितवान् ।
 
अपरेधुद्युरिति । अपरस्मिन्दिने प्रभातसमय एव कन्ययानुगम्यमानं कैलासनामानं कञ्चुकिनमायान्तमा-
गच्छन्तमपश्यदित्यन्वयः । कञ्चुकिनं विशिष्टि - सर्वेति । सर्वं समग्रं यदन्तःपुरं तत्राधिकृतं नियुक्तम् ।
स्वस्वामिनेति शेषः । अवनिपते राज्ञः परमसंमतं परं विश्वस्तम् । अथ च सहागतकन्यां विशेषयन्नाह-
अन्विति । अनुल-
क्षीकृत्य मार्गमागता प्राप्ता तया । प्रथमवयः कौमारवयस्तस्मिन्व- र्तमानया स्थितया ।
राजेति । राजकुले नृपकुले संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो विनयो
मर्यादा यया सा तथा । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधिक्य-
मिल्त्याश्चर्यमिति भावः । किंचिदिति । किंचिदीषदुपारूढ माश्रितं यौवनं तारुण्यं यया सा तथा । शक्रेति ।
क्रगोप एव शक्रगोपकः । स्वार्थे कः । आरक्तः प्रावृट्कीट- स्तद्वदालोहितो रक्तो रागो यस्मिन्नेतादृशेनां-
शुकेन वस्त्रेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यया सा तया । अंशुकस्यातिरक्तत्वा- दुपमानं प्रदर्शयन्नाह -
सबालेति । सह बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव । प्रत्यप्ग्रदलिता तत्काल मर्दिता या
मनः [^1]शिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्यं तस्य प्रभा कान्तिस्तस्याः प्रवाहो
रयस्तेन भवनं गृहमापूरयन्त्या परिपूर्णं कुर्वत्या । केनेव । अमृतरसस्य या नदी तस्याः पूरेणेव । राहुः सैसैंहिकेयः
स चासौ ग्रहस्तेन ग्रासो भक्षणं तस्माद्यद्भयं तस्माद्रजनिकरमण्डलं चन्द्रबिम्बमपहाय त्यक्त्वा गां पृथ्वीमव
तीर्णयागतया ज्योत्स्नयेव कौमुद्येव । मूर्तिमत्या शरीर- धारिण्या राजकुलदेवतयेव नृपकुलाधिष्ठात्र्येव । क्वणितं
शब्दितं यन्मणिनूपुरं रत्नपादकटकं तेनाकुलं व्याप्तं चरणयुगलं पादद्वितयं यस्याः सा तया । नूपुरस्य श्वेत-
त्वाच्चरणयोश्चारक्तत्वादुत्प्रेक्षामाह- कुकूजदिति । कूजन्यः कलहंसः कादम्बस्तेनाकुलितं कमलं यस्या एवं
विधया कमलिन्येव । महार्हो महार्घौ यो हेममेखलाकलापः सुवर्णरशना कलापस्तेन कलितं जघनस्थलं कठ्या
प्ग्रप्रदेशो यस्याः सा तथा । नातीति । नातिनिर्भरं नातिबाहुल्येनोद्भिनौ प्रकाशं प्राप्तौ पयोधरौ
स्तनो
स्तनौ यस्याः सा तया । मन्दमिति । मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवल्ल्या विक्षेप इत-
स्ततश्चालनं तेन प्रेङ्खिता धूता ये नखमयूखा नखरदीप्तयस्तेषां छलेन मिषेणानव- रतं निरन्तरं लावण्यरसं तारु-
टिप्प० -
[^
1]F. 'मैनसिल' इांत ख्यातो धातुविशेषः ।
 
पाडा० -[^]G. परेद्युश्च.
[^
]G. अधिकृततया .
[^
]G. गतया प्रथमे.
[^
]G. लोहित .
[^
]G. चूर्णवर्णेन.
[^
]G. राहुग्रास; राहुग्रसन.
[^]G. भूमण्डलम्.
[^
]G. कुलदेवतया .
[^
]G. आकुलित; आकलित .
[^
१०]G. चरणया रुचिररेणुचर्चित ञ्चरी कचक्र वालावाचालितरक्त-
रक्तकमल युगलयेव स्थलकमलिन्या.
[^
११]G. आकलित .
[^
२]G. मन्दमन्द.
 
.