This page has not been fully proofread.

२१८
 
कादम्बरी ।
 
[ कथायाम-
मेवेन्द्रायुधस्य पुरो यवसमाकीर्य निर्गत्य राजकुलमयासीत् । तेनैव च क्रमेणावलोक्य राजा-
नमागत्य निशामनैषीत् ।
 
प्रभातम एव सर्वान्तः पुराधिकृतम्, अवनिपतेः परमसंमतम्, अनुमा-
गगतया च, प्रथमे वयसि वर्तमानया, राजकुलसंवासप्रगल्भयाप्यनुज्झितविनयथा, किंचि-
दुपारूढयौवनया, शऋगोपकालोहितरागेणांशुकेन रचितावगुण्ठनया सबालातपयेव पूर्वया
ककुभा प्रत्यप्रदलितमनः शिलावर्णेनाङ्गलावण्यप्रभाप्रवाहेणामृतरसनदीपूरेणेव भवनमापूर-
यन्त्या, ज्योत्स्नयेव राहुग्रहप्रासमयाद पहाय रजनिकरमण्डलं गामवतीर्णया, राजकुलगृहदे-
वतयेव मूर्तिमत्या कणितमणिनूपुराकुलचरणयुगलया कूजत्कलहंसाकुलितकमलयेव कम-
लिन्या, महाईहे ममेखलाकैलापकलितजघनस्थलया, नातिनिर्भरोद्भिन्नपयोधरया, मैन्दं मन्दं
 
कर्षितं हृदयं चेतो॒ यस्यैव॑भूतः । स्वयमेवात्मनैव, अत्रैवकारोऽन्ययोगव्यवच्छेदकृत् । इन्द्रायुधस्याश्वस्य पुरोऽप्रे
यवसं तृणमाकीर्य प्रकीर्य प्रक्षिप्य तदनन्तरं निर्गय राजकुलमयासीदवाजीत् । तेनैव क्रमेण पूर्वोक्तपरिपाट्या
राजानं तारापीडमवलोक्य निरीक्ष्य पुनरागत्यैत्य । स्वगृहमिति शेषः । निशां रात्रिमनैषीत्परिकलितवान् ।
 
अपरेधुरिति । अपरस्मिन्दिने प्रभातसमय एव कन्ययानुगम्यमानं कैलासनामानं कचुकिनमायान्तमा-
गच्छन्तमपश्यदित्यन्वयः । कञ्चुकिनं विशिष्टि - सर्वेति । सर्वं समग्रं यदन्तःपुरं तत्राधिकृतं नियुक्तम् ।
खस्वामिनेति शेषः । अवनिपते राज्ञः परमसंमतं परं विश्वस्तम् । अथ च सहागतकन्यां विशेषयनाह-
अन्विति । अनुलक्षीकृत्य मार्गमागता प्राप्ता तया । प्रथमवयः कौमारवयस्तस्मिन्वर्तमानया स्थितया ।
राजेति । राजकुले नृपकुले संवासो वसनं तत्र प्रगल्भया प्रतिभान्वितयाप्यनुज्झितोऽपरित्यक्तो विनयो
मर्यादा यया सा तथा । प्रगल्भस्याभिमानातिरेकेण विनयाभावः स्यात् । अत्र तु तत्सद्भावेऽपि तदाधिक्य-
मिल्याश्चर्यमिति भावः । किंचिदिति । किंचिदीषदुपारूढ माश्रितं यौवनं तारुण्यं यया सा तथा । शक्रेति ।
शऋगोप एव शऋगोपकः । स्वार्थे कः । आरक्तः प्रावृदकीटस्तद्वदालोहितो रक्तो रागो यस्मिन्नेतादृशेनां-
शुकेन वस्त्रेण रचितं विहितमवगुण्ठनं शिरोवेष्टनं यया सा तया । अंशुकस्यातिरक्तत्वादुपमानं प्रदर्शयन्नाह -
सबालेति । सह बालातपेन वर्तमानया पूर्वया प्राच्या ककुभा दिशा इव । प्रत्यप्रदलिता तत्काल मर्दिता या
मनःशिला मनोगुप्ता तद्वद्वर्णो यस्यैवंभूतेनाङ्गस्य देहस्य लावण्यं सौन्दर्य तस्य प्रभा कान्तिस्तस्याः प्रवाहो
रयस्तेन भवनं गृहमापूरयन्त्या परिपूर्ण कुर्वत्या । केनेव । अमृतरसस्य या नदी तस्याः पूरेणेव । राहुः सैहिकेयः
स चासौ ग्रहस्तेन ग्रासो भक्षणं तस्माद्यद्भयं तस्माद्रजनिकरमण्डलं चन्द्रबिम्बमपहाय त्यक्त्वा गां पृथ्वीमव
तीर्णयागतया ज्योत्स्नयेव कौमुद्येव । मूर्तिमत्या शरीरधारिण्या राजकुलदेवतयेव नृपकुलाधिष्ठात्र्येव । कणितं
शब्दितं यन्मणिनूपुरं रत्नपादकटकं तेनाकुलं व्याप्तं चरणयुगलं पादद्वितयं यस्याः सा तया । नूपुरस्य श्वेत-
त्वाच्चरणयोश्चारक्तत्वादुत्प्रेक्षामाह- कुजदिति । कूजन्यः कलहंसः कादम्बस्तेनाकुलितं कमलं यस्या एवं
विधया कमलिन्येव । महार्हो महार्घौ यो हेममेखलाकलापः सुवर्णरशना कलापस्तन कलितं जघनस्थलं कठ्या
अप्रप्रदेशो यस्याः सा तथा । नातीति । नातिनिर्भरं नातिबाहुल्येनोद्भिनौ प्रकाशं प्राप्तौ पयोधरौ
स्तनो यस्याः सा तया । मन्दमिति । मन्दं मन्दं नातिप्रयत्नेन यो भुजलताया बाहुवल्लया विक्षेप इत-
स्ततश्चालनं तेन प्रेङ्खिता धूता ये नखमयूखा नखरदीप्तयस्तषां छलेन मिषेणानवरतं निरन्तरं लावण्यरसं तारु-
टिप्प० - 1 'मैनसिल' इांत ख्यातो धातुविशेषः ।
 
पाडा० -१ परेच. २ अधिकृततया ३ गतया प्रथमे. ४ लोहित ५ चूर्णवर्णेन. ६ राहुग्रास; राहुग्रसन.
७ भूमण्डलम्. ८ कुलदेवतया ९ आकुलित; आकलित १० चरणया रुचिररेणुचर्चित चल री कचक्र वाळवाचालितरक्त-
कमल युगलयेव स्थलकमलिन्या. ११ आकलित १९ मन्दमन्द.
 
.