2024-01-07 13:22:32 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्य विश्राम भोजनादिव्यापार: ] पूर्वभागः ।
 
२१७
 
प्रतीहाराधिष्ठिता राजकुल [^१]परिचारिकाः कुलवर्धनासनाथाश्च विलासवतीदास्यः सर्वान्तःपु-
प्रेषिताश्चान्तः पुरपरिचारिकाः पटल- कविनिहितानि विविधान्याभरणानि [^३]माल्यान्यङ्गरागा-
न्वासांसि चादाय पुरतस्तस्योपतस्थु [^४]रुपनिन्युश्च । यथाक्रममादाय च दाताभ्यः प्रथमं स्वयमु-
पलिप्य वैशम्पायन [^४]मुपरचिताङ्गरागो दत्त्वा च समीपवर्तिभ्यो यथार्हमाभरणवसनाङ्गराग-
कुसुमानि वि-
विधमणिभाजनसहस्रसारं शारदमे [^५]मम्बरतलमिव स्फुरितता- रागणमाहारमण्डपम-
गच्छत् । तत्र च [^६]द्विगुणितकुथासनोप- विष्टः समीपोपविष्टेन तद्गुणो [^७]पवर्णनपरेण वैशम्पायनेन
ये

[^९]य
थार्हं भूमिभागोपवेशितेन [^१०]राजपुत्रलोकेन 'इदमस्मै [^११]दीयताम्, इद [^१२]मस्मै दी [^१३]यताम्' इति
प्रसाद - [^१४]विशेष दर्शन संवर्धित सेवारसेन च सहाहारविधिमकरोत् । उपस्पृश्य च गृहीतताम्बू-
लस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीप- [^१५]मगमत् । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्राया-
लापा: कथाः कृत्वा सत्यप्या [^१६]ज्ञा प्रतीक्षणोन्मुखे पार्श्वपरिवर्तिनि परिजने त [^१७]द्दुगुणहृतहृदयः स्वय-
."
 

 
[ टि ]--
प्रगल्भा दासी तथा सनाथा: सहिता विलासवती कुमारज- ननी तस्या दास्यः कूटहारिकाः (१) । सर्वान्तः-
पुरप्रेषिता इति । सर्वं यदन्तःपुरं तेन प्रेषिता अन्तःपुर परिचारिकाश्चावरोधसेवाविधायिन्यः पटलकं
वजे
[^1]वङ्गेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि माल्यानि पुष्पदामानि,
अङ्गरागा- न्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः ।
उपनिन्युश्च । आनीतं वस्तूप- ढौकयामासुरित्यर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुर- परिचारिका-
भ्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुपलि- प्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहा.
रमण्डपं भोजनमण्डपमगच्छदित्यन्वयः । किं कृत्वा । यथार्हं यथायोग्य- माभरणवसनाङ्गरागकुसुमानि समीप
वर्तिभ्यः पार्श्वस्थायिभ्यो दत्त्वा वितीर्य । भोजनमण्डपं विशेषयायन्नाह - विविधेति । विविधानि विचित्राणि
यानि मणिभाजनानि रत्नपात्राणि तेषां सहस्रं तेन [^2]सारं प्रधानम् । भाजनानां वर्तुलत्वादिसाम्यादुपमानान्तर-
माह - शारदेति । स्फुरिततारागणं शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहार विधि
भोजन विधिमकरोदित्यन्वयः । द्विगुणितं परावर्तितं यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्श्वं तत्रो-
पविष्टेन स्थितेन । तदिति । तस्य तारौरा [^3]पीडस्य ये गुणाः शौर्यादयस्तेषामुपवर्णनं श्लाघनं तत्र परेणासक्तेन
वैशम्पा- यनेन यथार्हं यथायोग्यम् । भूमिभागेति । यस्य योचिता योग्या भूस्तस्यामुपवेशितेन स्थापितेंन ।
तेन । राजपुत्रलोकस्य विशेषणम् । राजपुत्रलोकेन 'अस्मा इदं दीयताम्' 'अस्मा इदं दीयताम्' इति पूर्वोक्तप्रकारेण
प्रसादः प्रसन्नता तस्य विशेष आधिक्यं तस्य दर्शनं प्रकटीकरणं तेन संवर्धितो वृद्धिं प्रापितः सेवारसः सपर्या स्वादो

यस्य स तेन । अन्वयस्तु प्रागेवोक्तः । भोजनानन्तरमुपस्पृश्याचमनं कृत्व। गृहीतं ताम्बूलं नागवल्लीदलं येन सः
तस्मिन्मण्डपे मुहूर्त- मिव नाडिकाद्वयमिव स्थित्वेन्द्र युधसमीपमगमद्ययोयौ । तत्र चेति । तत्र तस्मिन्स्थलेऽनुप-
विष्ट एवोर्ध्वस्थित एव तस्येन्द्रायुधस् ये गुणा मुखमण्डले निर्मासत्यामांसत्वादयस्तेषामुपवर्णनं प्रायो बाहुल्यं येषु एवं-

विधा आलापाः संलापा यास्वेवंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समयावेक्षणं
तत्रोन्मुखे सावधाने पार्श्वपरिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये [^4]गुणाः शालिहोत्रप्रसिद्धास्तैर्हृतमा-

 
टिप्प० -

 
[^
1]F. पेटिका इत्यर्थः
[^
2]F. 'भाजनसहस्रशारम्' इत्येव पाठः । मणिभाजनसहस्रैः शारं विचित्र-
मिति तदर्थः
[^
3]F. चन्द्रापीड स्येत्युचितम्, संनिधानात्,
[^
4]F. वेगेन गमनं, मनोभावानुसारं स्थित्यादिकाः ।
 
.
 
पाठा० -

 
[^
]G. प्रतिचारिका: .
[^
]G. माल्याङ्गरागान्.
[^
]G. उपनिन्युश्चोपनीतानि च .
[^
]G. रचित .
[6
]G. शाराम्बर .
[^
]G. द्विगु
णीकृत.
[^
]G. वर्णन.
[^
]G. वैशम्पायनेन सह.
[^
]G. यथार्हं.
[^
१०]G. सह राज.
[^
११]G. प्रदीयताम्.
[^
१२]G. तस्मै .
[^
१३]G. प्रदीयताम्.

[^
१४]G. विशेषसंवर्धितसेवारसेनाहार.
[^
१५ अं]G. अगात्.
[^
१६]G.शांज्ञां प्रतीक्षमाणोन्मुखे.
[^
१७]G. अपहृत
 
.
२८ का०