This page has not been fully proofread.

चन्द्रापीडस्य विश्राम भोजनादिव्यापार: ] पूर्वभागः ।
 
२१७
 
प्रतीहाराधिष्ठिता राजकुलपरिचारिकाः कुलवर्धनासनाथाश्च विलासवतीदास्यः सर्वान्तःपु-
र प्रेषिताश्चान्तः पुरपरिचारिकाः पटलकविनिहितानि विविधान्याभरणानि माल्यान्यङ्गरागा-
न्वासांसि चादाय पुरतस्तस्योपतस्थुरुपनियुश्च । यथाक्रममादाय च दाभ्यः प्रथमं स्वयमु-
पलिप्य वैशम्पायनमुपरचिताङ्गरागो दत्त्वा च समीपवर्तिभ्यो यथाई माभरणवसनाङ्गराग-
कुसुमानि विविधमणिभाजनसहस्रसारं शारदमेम्बरतलमिव स्फुरिततारागणमाहारमण्डपम-
गच्छत् । तत्र च द्विगुणितकुथासनोपविष्टः समीपोपविष्टेन तद्गुणोपवर्णनपरेण वैशम्पायनेन
येथार्हं भूमिभागोपवेशितेन राजपुत्रलोकेन 'इदमस्मै दीयताम् इदमस्मै दीयताम्' इति
प्रसाद विशेष दर्शन संवर्धित सेवारसेन च सहाहारविधिमकरोत् । उपस्पृश्य च गृहीतताम्बू-
लस्तस्मिन्मुहूर्तमिव स्थित्वेन्द्रायुधसमीपमगमत् । तत्र चानुपविष्ट एव तद्गुणोपवर्णनप्राया-
लापा: कथाः कृत्वा सत्यप्याज्ञा प्रतीक्षणोन्मुखे पार्श्वपरिवर्तिनि परिजने तद्दुहृतहृदयः स्वय-
."
 
प्रगल्भा दासी तथा सनाथा: सहिता विलासवती कुमारजननी तस्या दास्यः कूटहारिकाः (१) । सर्वान्तः-
पुरप्रेषिता इति । सर्वं यदन्तःपुरं तेन प्रेषिता अन्तःपुर परिचारिकाश्चावरोधसेवाविधायिन्यः पटलकं
वजेरिका तस्यां विनिहितानि स्थापितानि विविधानि विचित्राण्याभरणानि भूषणानि माल्यानि पुष्पदामानि,
अङ्गरागान्विलेपनानि, वासांसि वस्त्राण्यादाय गृहीत्वा तस्य चन्द्रापीडस्य पुरतोऽग्रत उपतस्थुः स्थिता बभूवुः ।
उपनिन्युश्च । आनीतं वस्तूपढौकयामासुरित्यर्थः । यथेति । यथाक्रममनुक्रमेण ताभ्योऽन्तःपुर परिचारिका-
भ्यस्तद्वस्त्वादाय गृहीत्वा प्रथममादौ वैशम्पायनमुपलिप्य पश्चात्स्वयमुपरचितः कृतोऽङ्गरागो येनैवंभूत आहा.
रमण्डपं भोजनमण्डपमगच्छदित्यन्वयः । किं कृत्वा । यथार्ह यथायोग्यमाभरणवसनाङ्गरागकुसुमानि समीप
वर्तिभ्यः पार्श्वस्थायिभ्यो दत्त्वा वितीर्य । भोजनमण्डपं विशेषयाह - विविधेति । विविधानि विचित्राणि
यानि मणिभाजनानि रत्नपात्राणि तेषां सहस्रं तेन सारं प्रधानम् । भाजनानां वर्तुलत्वादिसाम्यादुपमानान्तर-
माह - शारदेति । स्फुरिततारागणं शारदमम्बरतलमिव । तत्र चेति । तत्र तस्मिन्मण्डप आहार विधि
भोजन विधिमकरोदित्यन्वयः । द्विगुणितं परावर्तितं यत्कुथासनं तत्रोपविष्टः । समीपेति । समीपं पार्श्वं तत्रो-
पविष्टेन स्थितेन । तदिति । तस्य तारौपीडस्य ये गुणाः शौर्यादयस्तेषामुपवर्णनं श्लाघनं तत्र परेणासक्तेन
वैशम्पायनेन यथार्हं यथायोग्यम् । भूमिभागेति । यस्य योचिता योग्या भूस्तस्यामुपवेशितेन स्थापितेंन ।
राजपुत्रलोकस्य विशेषणम् । राजपुत्रलोकेन 'अस्मा इदं दीयताम्' 'अस्मा इदं दीयताम्' इति पूर्वोक्तप्रकारेण
प्रसादः प्रसन्नता तस्य विशेष आधिक्यं तस्य दर्शनं प्रकटीकरणं तेन संवर्धितो वृद्धिं प्रापितः सेवारसः सपर्या स्वादो
यस्य स तेन । अन्वयस्तु प्रागेवोक्तः । भोजनानन्तरमुपस्पृश्याचमनं कृत्व। गृहीतं ताम्बूलं नागवल्लीदलं येन सः ।
तस्मिन्मण्डपे मुहूर्त मिव नाडिकाद्वयमिव स्थित्वेन्द्र युधसमीपमगमद्ययो । तत्र चेति । तत्र तस्मिन्स्थलेऽनुप-
विष्ट एवोर्ध्वस्थित एव तस्येन्द्रायुधस्स ये गुणा मुखमण्डले निर्मासत्यादयस्तेषामुपवर्णनं प्रायो बाहुल्यं येषु एवं-
विधा आलापाः संलापा यास्वंभूताः कथाः किंवदन्तीः कृत्वा विधायाज्ञाया निदेशस्य प्रतीक्षणं समयावेक्षणं
तत्रोन्मुखे सावधाने पार्श्वपरिवर्तिनि समीपस्थायिनि परिजने सत्यपि तस्य ये गुणाः शालिहोत्रप्रसिद्धास्तैर्हतमा-

 
टिप्प० - 1 पेटिका इत्यर्थः । 2 'भाजनसहस्रशारम्' इत्येव पाठः । मणिभाजनसहस्रैः शारं विचित्र-
मिति तदर्थः । 3 चन्द्रापीड स्येत्युचितम्, संनिधानात्, 4 वेगेन गमनं, मनोभावानुसारं स्थियादिकाः ।
 
.
 
पाठा० - १ प्रतिचारिका: २ माल्याङ्गरागान्. ३ उपनिन्युश्चोपनीतानि च ४ रचित ५ शाराम्बर ६ द्विगु
णीकृत. ७ वर्णन. ८ वैशम्पायनेन सह. ९ यथार्ह १० सह राज. ११ प्रदीयताम्. १२ तस्मै १३ प्रदीयताम्.
१४ विशेषसंवर्धितसेवारसेनाहार. १५ अंगात्. १६ आशां प्रतीक्षमाणोन्मुखे. १७ अपहृत
 
२८ का०