कादम्बरी /25
This page has been fully proofread twice.
अथ 'परिचारिका सा तरलिका क्व गता' इति चन्द्रापीडेन जिज्ञासिते सा पुनरवदत्-"गन्धर्वराजाच्चित्ररथान्मदिरादेव्यां जाता कुमारी कादम्बरी मम द्वितीयं हृदयम् । सा ममाऽनेन
शोकवृत्तान्तेन प्रतिज्ञामकरोत् - 'सशोकायां महाश्वेतायां नाहमात्मनः पाणिं ग्राहयिष्यामि । कादम्बरीपाणिग्रहणायाऽनुनेतुं गन्धर्वराजेन कृतानुरोधाऽहमद्यैव कादम्बरीसकाशे तां प्राहैषम्" इति ।
द्वितीयेऽहनि प्रातरेव तरलिकया सह समागतः केयूरकनामकः कादम्बरीवीणावाहकः पाणिग्रहणे तस्या असंमतिमावेदयत् । कादम्बरीबोधनाय हेमकूटं प्रयान्त्या महाश्वेताया अनुरोधेन
चन्द्रापीडोपि गन्धर्वराजधानीं गतोऽलौकिकसौन्दर्यशालिनीं कादम्बरीमालोक्य प्रणयपरतन्त्रोऽभवत् । कादम्बर्यपि तत्प्रणयवशंवदा दिव्यं दुकूलयुगं शेषनामकं रत्नहारं च निजसख्या मदलेखाया हस्तेन तस्मै प्रजिघाय । अथ प्रीतिपरतन्त्रः स कादम्बर्या हृदयमादाय निजस्कन्धावारं प्रत्यागतः
सुहृदे वैशम्पायनाय सर्ववृत्तमाचख्यौ । द्वितीयेऽहनि प्रत्यूष एव समुपेतेन कादम्बरीवैकल्यनिवेदकेन केयूरकेण सह पत्रलेखामादाय हेमकुटं गतश्चन्द्रापीडो हिमगृहगतां मदनपरवशां
कादम्बरीं ददर्श । तया सह व्यङ्ग्यार्थगर्भं ललितमालप्य, तदनुरोधात्पत्रलेखां तत्रैवावस्थाप्य निजस्कन्धावारं पराववृते । तत्र च पितुः पत्रमवाप्य, 'पत्रलेखामादाय त्वया परस्तादागन्तव्यम्' इति
सेनापतिसुतं मेघनादमादिश्य, तत्रैव चावस्थाप्य, मार्गे द्रविडधार्मिकाधिष्ठितां चण्डिकां पश्यन्नुज्जयिनीमाजगाम । कतिचिद्दिनानन्तरं मेघनादेन सहागता पत्रलेखा कादम्बर्या विरहावस्थामुपालम्भोक्तिं च चन्द्रापीडाय न्यवेदयत् ।
[ कादम्बरीपूर्वभाग: ]
उत्तरकादम्बरी
हेमकूटा त्प्रत्यागता पत्रलेखा चन्द्रापीडविरहनिमित्तं कादम्बर्याः परमं वैकल्यमावेदयांबभूव । तेन हि कादम्बर्याः प्रेमणि संदिहानश्चन्द्रापीडो भृशमात्मानमुपालेभे । तद्दिनादारभ्य बहिरप्रकाशयन्नपि हृदये वियोगवह्निनाऽतितरामदूयत। एकदा मनोविनोदाय सायं नगराद्बहिर्भमन् बहुभिस्तुरगैः सह दूरादायान्तं केयूरकमकस्माद्ददर्श । नगरे आगत्य केयूरको रहसि कादम्बर्याः
सुभृशमुपचितं मदनसंतापं तथाऽऽवेदयद् यथा शोकेन मूच्छितप्रतिबुद्धश्चन्द्रापीडः प्रत्युवाच – 'किमित्यहं नाहूतो देव्या । संप्रत्यहं प्राणपणेनापि तत्तापनिवृत्तये संनद्धः । केयूरकः
शीघ्रगमनाय चन्द्रापीडं प्रार्थयत । निशि चन्द्रापीड: -'पित्रादीननिवेद्य गमनं नोचितम् । आज्ञाग्रहणे तु इदानीमेव दिग्विजयप्रत्यागताय मे तौ गमनानुमतिं दास्यतो न वेति संदेह एव । वैशम्पायनोपि अच्छोदसरस्तटे त्यक्तः । कोऽधुना मे सहायकः' इति नानाचिन्तामकरोत् ।
प्रातः सहसा शुश्राव 'दशपुरं यावत्परागतः स्कन्धावार:' इति । ततश्चात्र प्रत्यागतेन वैशम्पायनेन सह कादम्बरीमनुसरिष्यामीति हृदि संतुतोष चन्द्रापीड: । केयूरकस्तु ' यावद्वैशम्पायनेन सह देवो हेमकूटाय प्रतिष्ठते ततः पूर्वं भवदागमननिवेदनाय विसर्जयतु मां देवः' इति गमनानुमतिं ययाचे । चन्द्रापीडस्तु स्वागमनप्रत्ययार्थं पत्रलेखामपि तेन सह पुरतो विससर्ज ।
शोकवृत्तान्तेन प्रतिज्ञामकरोत् - 'सशोकायां महाश्वेतायां नाहमात्मनः पाणिं ग्राहयिष्यामि । कादम्बरीपाणिग्रहणायाऽनुनेतुं गन्धर्वराजेन कृतानुरोधाऽहमद्यैव कादम्बरीसकाशे तां प्राहैषम्" इति ।
द्वितीयेऽहनि प्रातरेव तरलिकया सह समागतः केयूरकनामकः कादम्बरीवीणावाहकः पाणिग्रहणे तस्या असंमतिमावेदयत् । कादम्बरीबोधनाय हेमकूटं प्रयान्त्या महाश्वेताया अनुरोधेन
चन्द्रापीडोपि गन्धर्वराजधानीं गतोऽलौकिकसौन्दर्यशालिनीं कादम्बरीमालोक्य प्रणयपरतन्त्रोऽभवत् । कादम्बर्यपि तत्प्रणयवशंवदा दिव्यं दुकूलयुगं शेषनामकं रत्नहारं च निजसख्या मदलेखाया हस्तेन तस्मै प्रजिघाय । अथ प्रीतिपरतन्त्रः स कादम्बर्या हृदयमादाय निजस्कन्धावारं प्रत्यागतः
सुहृदे वैशम्पायनाय सर्ववृत्तमाचख्यौ । द्वितीयेऽहनि प्रत्यूष एव समुपेतेन कादम्बरीवैकल्यनिवेदकेन केयूरकेण सह पत्रलेखामादाय हेमकुटं गतश्चन्द्रापीडो हिमगृहगतां मदनपरवशां
कादम्बरीं ददर्श । तया सह व्यङ्ग्यार्थगर्भं ललितमालप्य, तदनुरोधात्पत्रलेखां तत्रैवावस्थाप्य निजस्कन्धावारं पराववृते । तत्र च पितुः पत्रमवाप्य, 'पत्रलेखामादाय त्वया परस्तादागन्तव्यम्' इति
सेनापतिसुतं मेघनादमादिश्य, तत्रैव चावस्थाप्य, मार्गे द्रविडधार्मिकाधिष्ठितां चण्डिकां पश्यन्नुज्जयिनीमाजगाम । कतिचिद्दिनानन्तरं मेघनादेन सहागता पत्रलेखा कादम्बर्या विरहावस्थामुपालम्भोक्तिं च चन्द्रापीडाय न्यवेदयत् ।
[ कादम्बरीपूर्वभाग: ]
उत्तरकादम्बरी
हेमकूटा