This page has not been fully proofread.

२१६
 
[ कथायाम् -
 
कान्तिः, अनेकरूपांनुसरणसंभ्रमपरिभ्रष्टच्छेत्रधरतया छत्रीकृतेन नैवपल्लवेन निवार्यमाणा-
तपः, विविधवनलताकुसुमरेणुधूसरो वसन्त इव विग्रहवान् अश्वखुररजोमलिनललाटा-
भिव्यक्तावदातस्खेदलेखः, दूरविच्छिन्नेन पदातिपरिर्जेनेन शून्यीकृतपुरोभागः, प्रजवितुरङ्ग-
माधिरूढैरल्पावशिष्टैः सह राजपुत्रैः 'एवं मृगपतिः, एवं वराहः, एवं महिषः, एवं शरभः,
एवं हरिणः' इति तमेव मृगयावृत्तान्तमुञ्चारयन्स्वभवनमाजगाम ।
 
उत्तीर्य, च तुरङ्गमात्ससंभ्रमप्रधावितपरिजनोपनीत उपविश्यासने वारबाणमवतार्य,
अपनीय चाशेषं तुरङ्गाधिरोहणोचितं वेषपरिग्रह मितस्ततः प्रचलिततालवृन्तपवनापनीयमान-
श्रमो मुहूर्त विशश्राम । विश्रम्य च मणिरजतकनककलशशतसनाथामन्तर्विन्यस्त काञ्चनपीठां
स्नानभूमिमगात् । निर्वर्तिताभिषेकव्यापारस्य च विविक्तवसनपरिमृष्टवपुषः स्वच्छदुकूलप-
लवार्केलितमौलेर्गृहीतवाससः कृतदेवाचनस्याङ्गरागभूमौ समुपविष्टस्य राज्ञा विसर्जिता महा-

 
कादम्बरी ।
 
,
 
अनेकेति । अनेके ये रूपाः पशवस्तेषामनुसरणं गवेषणं तत्र यः संभ्रमश्वेतसो वैक्लव्यं तेन परिभ्रष्टा दूरी -
भूता ये छत्रधरास्तेषां भावस्तत्ता तया । 'रूपं तु श्लोकशब्दयोः । पशौ' इत्यनेकार्थः । छत्रीकृतेनातप-
वारणीकृतेन नवपल्लवेन प्रत्यप्रकिसलयेन निवार्यमाणो दूरीक्रियमाण आतपो यस्य सः । विविधेति ।
विविधा अनेकप्रकारा या वनलता अरण्यव्रतत्यस्तासां कुसुमरेणुः पुष्परागस्तेन धूसर ईषत्पाण्डुः । क इव ।
विग्रहवान्सशरीरो वसन्त इव इष्य इव । अश्वखुरस्य यद्रजस्तेन मलिनं कश्मलं यल्ललाटं तत्राभिव्यक्ता प्रकटा-
वदाता निर्मला खेदलेखा यस्य सः । दूरविच्छिन्नेन दूरान्तरितेन पदातिपरिजनेन पत्तिपरिच्छदेन शून्यः
कृतो विहितः पुरोभागोऽग्रभागो यस्य सः । प्रजविनो जवयुक्ता ये तुरङ्गमा अश्वास्तेष्वधिरूढैरारूढैरल्पावशिष्टैः
स्तोकैः राजपुत्रैर्नृपसुतैः सह । इति तमेव मृगयावृत्तान्तमा खेटको दन्तमुच्चारयन्नन्योन्यं ब्रुवन् । इतिशब्दा.
र्थमाह - एवमिति । एवं पूर्वोक्तप्रकारेण मृगपतिः सिंहः, एवं वराहो वनकोड:, एवं महिषो रक्ताक्षः, एवं
शरभोऽष्टापदः, एवं हरिणो मृगः । व्यापादित इति शेषः । अन्वयस्तु प्रागेवोक्तः ।
 
स्वभवनगमनानन्तरं च तुरङ्गमादश्वादुत्तीर्यावरोहं कृत्वा ससंभ्रमं सवेगं प्रधावितो यः परिजनः परिच्छदस्तेनो-
पनीत आनीत आसने विष्टर उपविश्योपवेशनं कृत्वा वारबाणं कवचमवतार्य तस्यावतरणं कृत्वा तुरङ्गाधिरोह-
णोचितमशेषं समग्रं वेषपरिग्रहणमपनीय दूरीकृत्य । इतस्ततः प्रचलितं यत्तालवृतं व्यजनं तस्य यः पवनो
वायुस्तेनापनीयमानो दूरीक्रियमाणः श्रमः क्लमो यस्य स तथा मुहूर्त घटिकाद्वयं विशश्राम विश्रामं गृहीतवान् ।
विश्रमय चेति । विश्रामं गृहीत्वा । मणीति । मणयश्चन्द्रकान्तायाः, रजतं रौप्यम्, कनकं सुवर्णम्,
एतेषां यत्कलशशतं कुम्भशतं तेन सनाथां सहिताम् । अन्तर्मध्ये विन्यस्तं स्थापितं काञ्चनपीठं स्वर्णपीठं
यस्यामेवंभूतां स्नानभूमिमगाज्जगाम । निर्वर्तितेति । निर्वर्तितो निष्पादितोऽभिषेकव्यापारो यस्य स तस्य ।
विविक्ते विजने वसनं वस्त्रं तेन परिमृष्टं शुष्कीकृतं वपुर्येन स तस्य । स्वच्छेति । स्वच्छो निर्मलो यो दुकूल-
पवस्तेनाकलितो वेष्टितो मौलिः शिरो यस्य स तस्य । गृहीतं स्वीकृतं वासो वस्त्रं येन स तथा तस्य । कृतं
देवार्चनं देवपूजा येन स तस्य । अङ्गरागभूमौ विलेपनभूमौ समुपविष्टस्य राज्ञा तारौपीडेन विसर्जिता विसृष्टा
महाप्रतीहारेण महाद्वारपालकेनाधिष्ठिता आश्रिता राजकुलपरिचारिका नृपकुलसेवाकारिण्यः कुलवर्धना
 
टिप्प० - 1 विविक्तेन पवित्रेण वसनेनेत्यर्थ उचितः ।
 
पाठा० -१ अनुसार २ छत्रधारतया ३ वनपलनेन. ४ जनेन. ५ वनमहिष: ६ अवतीर्थ ७ समुपविश्य.
४ तुरङ्गम. ९ निवर्तित १० आकुलित ११ गृहीतधौतवाससुः १२ देवता.
 
*
 
d