2024-01-07 07:37:27 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

चन्द्रापीडस्य मृगया ]
 
पूर्वभागः ।
 
२१५
 
बहुगज [^१]तुरगपदातिपरिवृतो वै[^२]वनं ययौ । तत्र चाकर्णा- [^३]न्ताकृष्टमुक्तैर्विकचकुवलपलाशकान्ति-
भिर्भल्लैर्मदकल-
कलभकुम्भभित्तिभिदु [^३]रैश्च नाराचै श्चापट [^४]ङ्कार भयचकित- वनदेवतार्धाक्षवीक्षितो
बनवै
वन [^५]वराहान्केसरिणः शरभां [^६]श्रीचा- मराननेकुरङ्गकांश्च सहस्रशो जघान । अन्यांश्च जीवत एव
महाप्रा- णतया स्फुरतो जग्राह । समारूढे च मध्यमहःह्न: सवितरि वनात्स्त्रांना- [^७]नोत्थितेनेव श्रमस-
लिलबिन्दुवर्षमनवरतमुज्झता मुहर्मुहुर्दश-
विघट्टनेःनै: खणखणायितख [^८]तस्वरखलीनेन श्रमशिथिल-
मुख विर् - [^९]लिफेनिल रुधिरलवेन पर्याणपट्ट [^१०]कांनुसरणोत्थितफेन- राजिना कर्णावतंसी कृतमुत्फुल्ल-
कुसुमशबलम लिपटलेल [^११]- ङ्काररवमुखरं वनगमनचिह्नं पल्लवस्तबक मुद्हतेन्द्रायुवेधेनोद्यमानः,

समुद्रत गतस्वेदतयान्तै [^१२]न्तराकृतमण्डलेन मृगरुधिरलवशतशबलेन वारवाबाणेन द्विगुणतरमुप [^१३]जात-

 

 
[ टि ]--
प्रभाषधावद्धिःभि: शीघ्रं गच्छद्भिः । तत्रेति । तत्र तस्मिन्वने सह- स्रशोऽनेकशो वनवराहानरण्यक्रोडान्, केसरिणः
सिंहान्, शरभा- नष्टापदान्, चामराश्चमरीः अनेक कुरङ्गकान संख्यमृगांश्च जघान हतवानित्यन्वयः । कैः
नाराचैलौर्लोहनिर्मितैर्बाणैः । 'सर्वलोहो नाराच एषणश्च सः' इति कोशः । अथ नाराचान्विशेषयन्नाह - कर्णान्ते-
ति । आकर्णान्तमाश्रवणप्रान्तमाकृष्टा आकर्षिताः पश्चान्मुक्ताः क्षिप्तास्तैः । मदेति । मदेन कला मनोहराः ।
अनेन कलभस्य त्रिंशदब्दकत्वा- न्मदावस्था सूचिता । अत एव कलभशब्दप्रयोगः । एवंविधा ये कलभा हरित-
स्तिशावकारतेषां कुम्भाः शिरसः पिण्डास्त एव भित्तयः कुड्यानि तासां भिदुरैर्भेदकैः । पुनः कैः । भल्लैः कुन्तैः
तानेव विशिनष्टि — विकचेति । विकचानि विकस्वराणि यानि कुवलया- न्युत्पलानि तेषां पलाशानि पत्राणि
तद्वत्कान्तिदीप्तिर्येषां तैः । उत्ते- जितानां भल्लानामपि तदुपमान्म् । याचापेति । चापस्य धनुषो यष्ट- ङ्कारष्टङ्कार-
रखो
रवोऽनुकरणशब्दस्तस्माद्यद्भयं तेन चकिता त्रस्ता या वनदेवता वनाधिष्ठात्र्यस्ताभिरर्धाक्षेण वीक्षितः
अन्यांश्चेति । अन्या- नेतद्भिन्नाजीवत एव प्राणान्दधत एव स्फुरतो दीप्यमानान्महाप्राण- तया महासाहस-
तथा
तया जग्राह गृहीतवान् । समेति । अहो दिवसस्य मध्यं समारूढे प्राप्ते सवितरि सूर्ये सति वनादरण्या-
त्कुमारः स्वभ- वनं स्वगृहमाजगामाययावित्यन्वयः । अथ कुमारं विशिष्टि-इन्द्रेति । इन्द्रायुधेनाश्वेनोह्यमानः
वहे
[^1]वहमानः । अश्वं तुरंगमं विशेषयन्नाह - स्लानानेति । अनवरतं श्रमसलिलानां स्वेदोत्थजलानां ये बिन्दवः
पृषतास्तेषां वर्षं वृष्टिमुज्झता त्यजता । अत एवाह - स्नानोत्थितेने- वाप्लवानन्तरमेव कृताभ्युत्थानेनेव । मुहु-
रिति । मुहुर्मुहुर्वारंवारं दशनविघट्टनैर्दन्तघर्षणैः खणखणायितं खणखणेत्याचरितं खरं कठिनं खलीनं
मुखयन्त्रणं येन । श्रमेति । श्रमेण खेदेन शिथिलं श्लथं यन्मुखं तस्माद्विगलिताः स्रस्ताः फेनिलं [^2]लयुक्ताः
कफ- सहिता रुधिरलवा यस्य स तेन । पर्याणेति । पर्याणं पल्ययनं तस्य पट्टकः काष्ठपीठं तद्यावदनुसरणं
यस्या एवंविधोत्थिता फेनराजिः कफश्रेणिर्यस्य स तेन । कर्णेति । कर्णेऽवतंसीकृतं श्रवणाभरणं कृतम्
उत्फुल्लानि विक्रचानि यानि कुसुमानि तैः शबलं मिश्रितम् । अलिपटलानि भ्रमरसमूहास्तेषां झङ्कारो
झङ्कृतिशब्दस्तेन मुखरं वाचालं वनेऽरण्ये यद्गमनं तस्य चिह्नं लक्ष्मैवंविधं पलवल्लव- स्तबकं किसलयगुच्छकमु-
द्वहता धारयता । पुनः कीदृशः । समुद्ग- तः प्रादुर्भूतः स्वेदस्तस्य भावस्तत्ता तयान्तरार्द्रीकृतं मण्डलं यस्य स

तेन । मृगेति । मृगाणां हरिणानां रुधिरलवा रक्तांशास्तेषां शतं तेन शबलेन कर्वुबुरेणैवंभूतेन वारबाणेन
कञ्चुकेन द्विगुणतरमुपजाता कान्तिर्यस्य सः । सत्त्ववतो वारबाणेन महती दीप्तिर्भवत्येवेति विश्वविदितम् ।
 

 
टिप्प० -

 
[^
1]F. अशुद्धमिदम् । पृष्ठे स्थाप्यमान इत्युचितम् ।
[^
2]F. इलघूच्प्रत्ययः स्वयं मत्वर्थे । अत एव
फेनयुक्ता इस्युचितम् ।
 
पाठा -

 
[^
]G. पादातिभिः.
[^
]G. धनं वनम् .
[^
]G. अवकृष्ट .
[^
]G.क्कर. ङ्काररव.
[^
]G. वनवराह केसरिण:
[^
]G. चामराननेक-
विधः.
[^
ज्ञा]G. स्नानोस्त्थितेन.
[^
]G. खररवाभीतेन.
[^
]G. गलित.
[^
१०]G. अनुसारोत्थितः.
[^
११]G. झङ्कारमुखरम् .
[^
१२]G. अन्तरा
न्तरा.
न्तरा.
[^
१३]G. उपजनित.